अक्षर आकार:

श्रीधूमावत्यष्टोत्तरशतनामस्तोत्रम्

shrIdhUmAvatyaShTottarashatanAmastotram

श्रीधूमावत्यष्टोत्तरशतनामस्तोत्रम्

ईश्वर उवाच धूमावती धूम्रवर्णा धूम्रपानपरायणा । धूम्राक्षमथिनी धन्या धन्यस्थाननिवासिनी ॥ १॥ अघोराचारसन्तुष्टा अघोराचारमण्डिता । अघोरमन्त्रसम्प्रीता अघोरमन्त्रपूजिता ॥ २॥ अट्टाट्टहासनिरता मलिनाम्बरधारिणी । वृद्धा विरूपा विधवा विद्या च विरलद्विजा ॥ ३॥ प्रवृद्धघोणा कुमुखी कुटिला कुटिलेक्षणा । कराली च करालास्या कङ्काली शूर्पधारिणी ॥ ४॥ काकध्वजरथारूढा केवला कठिना कुहूः । क्षुत्पिपासार्दिता नित्या ललज्जिह्वा दिगम्बरी ॥ ५॥ दीर्घोदरी दीर्घरवा दीर्घाङ्गी दीर्घमस्तका । विमुक्तकुन्तला कीर्त्या कैलासस्थानवासिनी ॥ ६॥ क्रूरा कालस्वरूपा च कालचक्रप्रवर्तिनी । विवर्णा चञ्चला दुष्टा दुष्टविध्वंसकारिणी ॥ ७॥ चण्डी चण्डस्वरूपा च चामुण्डा चण्डनिस्वना । चण्डवेगा चण्डगतिश्चण्डमुण्डविनाशिनी ॥ ८॥ चाण्डालिनी चित्ररेखा चित्राङ्गी चित्ररूपिणी । कृष्णा कपर्दिनी कुल्ला कृष्णारूपा क्रियावती ॥ ९॥ कुम्भस्तनी महोन्मत्ता मदिरापानविह्वला । चतुर्भुजा ललज्जिह्वा शत्रुसंहारकारिणी ॥ १०॥ शवारूढा शवगता श्मशानस्थानवासिनी । दुराराध्या दुराचारा दुर्जनप्रीतिदायिनी ॥ ११॥ निर्मांसा च निराकारा धूतहस्ता वरान्विता । कलहा च कलिप्रीता कलिकल्मषनाशिनी ॥ १२॥ महाकालस्वरूपा च महाकालप्रपूजिता । महादेवप्रिया मेधा महासङ्कटनाशिनी ॥ १३॥ भक्तप्रिया भक्तगतिर्भक्तशत्रुविनाशिनी । भैरवी भुवना भीमा भारती भुवनात्मिका ॥ १४॥ भेरुण्डा भीमनयना त्रिनेत्रा बहुरूपिणी । त्रिलोकेशी त्रिकालज्ञा त्रिस्वरूपा त्रयीतनुः ॥ १५॥ त्रिमूर्तिश्च तथा तन्वी त्रिशक्तिश्च त्रिशूलिनी । इति धूमामहत्स्तोत्रं नाम्नामष्टोत्तरात्मकम् ॥ १६॥ मया ते कथितं देवि शत्रुसङ्घविनाशनम् । कारागारे रिपुग्रस्ते महोत्पाते महाभये ॥ १७॥ इदं स्तोत्रं पठेन्मर्त्यो मुच्यते सर्वसङ्कटैः । गुह्याद्गुह्यतरं गुह्यं गोपनीयं प्रयत्नतः ॥ १८॥ चतुष्पदार्थदं नॄणां सर्वसम्पत्प्रदायकम् ॥ १९॥ इति श्रीधूमावत्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥