अक्षर आकार:

श्रीधूमावतीकवचम्

Shri DhumAvati Kavacham

श्रीधूमावतीकवचम्

श्रीगणेशाय नमः । अथ धूमावती कवचम् । श्रीपार्वत्युवाच - धूमावत्यर्चनं शम्भो श्रुतं विस्तरतोमया । कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥ १॥ श्रीभैरव उवाच - श‍ृणुदेवि परं गुह्यं न प्रकाश्यं कलौयुगे । कवचं श्रीधूमावत्याश्शत्रुनिग्रहकारकम् ॥ २॥ ब्रह्माद्यादेवि सततं यद्वशादरिघातिनः । योगिनोभवछत्रुघ्ना यस्याध्यान प्रभावतः ॥ ३॥ ॐ अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः अनुष्टुप्छन्दः श्रीधूमावती देवता धूं बीजम् स्वाहाशक्तिः धूमावती कीलकम् शत्रुहनने पाठे विनियोगः । ॐ धूं बीजं मे शिरः पातु धूं ललाटं सदावतु । धूमानेत्रयुगं पातु वती कर्णौसदावतु ॥ ४॥ दीर्घातूदरमध्ये तु नाभिं मे मलिनाम्बरा । शूर्पहस्ता पातु गुह्यं रूक्षारक्षतु जानुनी ॥ ५॥ मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् । सर्वं विद्यावतु कष्टं विवर्णा बाहुयुग्मकम् ॥ ६॥ चञ्चला हृदयं पातु दुष्टा पार्श्वं सदावतु । धूतहस्ता सदा पातु पादौ पातु भयावहा ॥ ७॥ प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा । क्षृत्पिपासार्दिता देवी भयदा कलहप्रिया ॥ ८॥ सर्वाङ्गं पातु मे देवी सर्वशत्रुविनाशिनी । इति ते कवचं पुण्यं कथितं भुवि दुर्लभम् ॥ ९॥ न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे । पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः । दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत् ॥ १०॥ इति भैरवी भैरव संवादे धूमावती तत्त्वे धूमावती कवचं सम्पूर्णम् ।