अक्षर आकार:

देव्यष्टकम्

devyaShTakam

देव्यष्टकम्

श्रीगणेशाय नमः । महादेवीं महाशक्तिं भवानीं भववल्लभाम् । भवार्तिभञ्जनकरीं वन्दे त्वां लोकमातरम् ॥ १॥ भक्तप्रियां भक्तिगम्यां भक्तानां कीर्तिवर्धिकाम् । भवप्रियां सतीं देवीं वन्दे त्वां भक्तवत्सलाम् ॥ २॥ अन्नपूर्णां सदापूर्णां पार्वतीं पर्वपूजिताम् । महेश्वरीं वृषारूढां वन्दे त्वां परमेश्वरीम् ॥ ३॥ कालरात्रिं महारात्रिं मोहरात्रिं जनेश्वरीम् । शिवकान्तां शम्भुशक्तिं वन्दे त्वां जननीमुमाम् ॥ ४॥ जगत्कर्त्रीं जगद्धात्रीं जगत्संहारकारिणीम् । मुनिभिः संस्तुतां भद्रां वन्दे त्वां मोक्षदायिनीम् ॥ ५॥ देवदुःखहरामम्बां सदा देवसहायकाम् । मुनिदेवैः सदासेव्यां वन्दे त्वां देवपूजिताम् ॥ ६॥ त्रिनेत्रां शङ्करीं गौरीं भोगमोक्षप्रदां शिवाम् । महामायां जगद्बीजां वन्दे त्वां जगदीश्वरीम् ॥ ७॥ शरणागतजीवानां सर्वदुःखविनाशिनीम् । सुखसम्पत्करां नित्यां वन्दे त्वां प्रकृतिं पराम् ॥ ८॥ शरणागतजीवानां सर्वदुःखविनाशिनीम् । सुखसम्पत्करां नित्यां वन्दे त्वां प्रकृतिं पराम् ॥ ९॥ देव्यष्टकमिदं पुण्यं योगानन्देन निर्मितम् । यः पठेद्भक्तिभावेन लभते स परं सुखम् ॥ १०॥ इति योगानन्दविरचितं श्रीदेव्यष्टकं सम्पूर्णम् ॥