अक्षर आकार:

देव्या आरात्रिकम्

devyA ArAtrikam

देव्या आरात्रिकम्

हरि ॐ जय देवि जय देवि जय मोहनरूपे । मामिह जननि समुद्धर पतितं भवकूपे ॥ ध्रुवपदम् ॥ प्रवरातीरनिवासिनि निगमप्रतिपाद्ये पारावारविहारिणि नारायणि ह्वद्ये । प्रपञ्चसारे जगदाधारे श्रीविद्ये प्रपन्नपालननिरते मुनिवृन्दाराध्ये ॥ १॥ जय देवि जय देवि जय मोहनरूपे । मामिह जननि समुद्धर पतितं भवकूपे ॥ दिव्यसुधाकरवदने कुन्दोज्ज्वलरदने पदनखनिर्जितमदने मधुकैटभकदने । विकसितपञ्कजनयने पन्नगपतिशयने खगपतिवहने गहने सङ्कटवनदहने ॥ २॥ जय देवि जय देवि जय मोहनरूपे । मामिह जननि समुद्धर पतितं भवकूपे ॥ मञ्जीराङ्कितचरणे मणिमुक्ताभरणे कङ्चुकिवस्त्रावरणे वक्त्राम्बुजधरणे । शक्रामयभयहरणे भूसुरसुखकरणे करूणां कुरू मे शरणे गजनक्रोद्धरणे ॥ ३॥ जय देवि जय देवि जय मोहनरूपे । मामिह जननि समुद्धर पतितं भवकूपे ॥ छित्त्वा राहुग्रीवां पासि त्वं विबुधान् ददासि मृत्युमनिष्टं पीयूषं विबुधान्। विहरसि दानवऋद्धान् समरे संसिद्धान् मध्वमुनीश्वरवरदे पालय संसिद्धान् ॥ ४॥ जय देवि जय देवि जय मोहनरूपे । मामिह जननि समुद्धर पतितं भवकूपे ॥ ॥ इति देव्या आरात्रिकं समाप्तम् ॥