अक्षर आकार:

श्रीदेविकालहरी

Shri Devika Lahari

श्रीदेविकालहरी

श्रियामायानं यद्विमलवसने सर्वजगतां- क्रियास्पाम्बुध्नन्ते नियत हविषां पावनविधौ । धियां पावित्रीयोऽवनिविदिततीर्थं वनमयं- वपुश्चेदं शर्वे सकलमशुभं वारयतु नः ॥ १॥ शिवार्डाङ्गे वासो विधिजतनयायाः प्रथमतो गृहन्ते कैलासे रजितभुवनभ्राजिततटे । अमर्त्याऽऽक्रीडे बाऽप्यवनिधरपुत्र्यास्सुरनते- सरिद्रूपञ्चैतद्धरतु जगतां पापमखिलम् ॥ २॥ इदङ्कर्म्माधानम्भुवनजगतौ खण्डमखिलं पवित्रीकर्तुं वै नवसलिलबिम्बं विदधती । प्रभासे शुद्धे च द्रुमवति सुघाटे सुरपतेः- समुत्तीर्णाधाराभरणवसना शैवशिखरात् ॥ ३॥ सरिद्रूपन्धत्वाजनि वृजिननाशङ्करु शिवं- जनानां मद्राणां गृहतनयवित्ताप्तमनसाम् । उवाचेदं शम्भुर्मृदुतरमनोज्ञं मधुवचः- भवानीमापन्नां विनयनतदेहां निजगिरौ ॥ ४॥ शिवाशम्मोराज्ञां परिणतगुणस्यामरगणैः- गृहीत्वा कैलासाज्जनकुशलभावाभिजननी । समुत्तीर्णादृष्ट्वा हरशिरसि जातां सुरनदीं- दधौ रूपम्भव्यं वनमयवपूर्दाचिकमिदम् ॥ ५॥ तदाशम्भूरूपं मुनिवरनृतं लैङ्गमधिकं- दधारोच्चैस्तीरे भुवनवनशैलद्युतिकरम् । वृषाद्यैर्देवेशैर्न मितवदनैर्बन्धमभितो- भवानी व्याश्लेषादमितमहिमाशङ्कितमनाः ॥ ६॥ यदा चैन्द्रादघाटादचलदमलं वारिनिचयं नुतिङ्गौर्य्यश्चिक्रुर्मुनिवरसमूहाः समुचिताम् । तदा वीणानादध्वनितमुरजैः किन्नरगणैः- स्वरैश्चेदम्भद्रं -त्रिदशवरवध्वा परिजगुः ॥ ७॥ यदाविर्भूतन्ते द्यतिधरपदाद्दाविकपयो- जनानामज्ञानां शमलभवतापोपशमनम् । निषेव्यन्तत्प्राज्ञैर्दिविजनमितन्नो हृदि सदा- वसत्वेवं चक्रुर्नतिमखिलदेवाः श्रुतिधराः ॥ ८॥ समृद्धं- स्वामित्वं परिजनवृतं त्यज्य सहसा- जननयास्तत्वानां मृदुलतटवासाऽमलदृशाम् । पयस्तेस्वादीयो विमलतरमातृप्तिपिबतां- मृषायन्ते, सद्यः सुरवरपदेव्योऽपि विविधाः ॥ ९॥ स्पृशन् यस्सौगन्ध्यन्नवसुमनसां धीरपवन - स्त्वदीयानां प्रावृङ्जनितलहरीणां व्यतिकरात् । पुनातीमां पूतस्त्ववनिमखिलां स्वर्ग सहितां- निनादोऽपान्ते यः शमयति खलूच्चैर्यमरुतम् ॥ १०॥ अमी मातर्धन्याः खगमृगगणां दाविकतटे- पयः पूतं पीत्वा शमितदुरिता दिव्यवपुषः । व्रजन्त्यन्ते शान्तास्त्रिदशवरवृन्दप्रमुदिताः- महन्माहेन्द्रं ते निबिडतरुरम्यं वनमदः ॥ ११॥ अनूरौ स्नान्तीनां जनपदवधूनां घनकुचं स्थितं सौगन्ध्यं यन्मृगमदयुतं दाविकवने । वलन्त्यन्तस्ते तन्मृतमृगसमूहा दिवमिता स्तवैतत्प्राकाम्यं जननि गदितुन्नार्हति विधिः ॥ १२॥ त्वदम्बूनां नाम स्मरति हृदये दाविकमिति- जनः पावित्रीयान्भवति शतपापैरपि वृतः । अहो चालं वासो जननि तव तीरे वनमहो जनोद्धारं बद्धादृढपरिकरं त्वङ्कुरु भवात् ॥ १३॥ श्रितोऽपान्तेमातर्विषयविषतृष्णावृतचिदां अदृश्यः पाताले त्वमितवलवल्यादिभिरपि । कफादिव्यावर्तं वदनविवरं जातु विशतां- शरीरान्ते तावत्यरमफलदो नोऽपि भवतु ॥ १४॥ पिनाकीकैलाशे पदविधुतिभिर्नृत्यति मुदा- विभुश्शेतामब्धौ भुजगमृदुभोगोऽपि शयने । विधातात्रैपृष्टे त्वविरतसमाधिर्भवतु वा तदौदास्यन्दृष्ट्वा जननि तव तीरं ह्यपगतः ॥ १५॥ विभुर्भङ्क्ताऽतर्कोमदनभटहन्ता च मनसा उपेक्षन्ते मान्यैर्द्रुतपिहितकर्णाः करपुटैः । स्फुटस्ते व्यासङ्गो मदपतितनिस्तारणकृतौ प्रतोमातस्त्वां वै शरणपदवीं यामि सततम् ॥ १६॥ अव्यक्तं वात्यैः पिशुनमनुजैर्यन्न्यपहृतं- विगर्ह्यन्तून्मत्तैरतिपतितवृन्दैः परिहृतम् । हरन्त्येनःसर्वं श्रमविरहितैका विजयते- यदुद्धारौदास्यं भवति भजतान्मार्द्रहृदया ॥ १७॥ यदौदास्यं जाताऽऽस्यमलहृदयध्यानपथगे- ममाघन्यू हान्तेऽकृतयजनहव्याधिपनतेः । तदानीमेवायें जगति जयिनामूर्जितयशो- लयं याता रम्यं शमनभटहासंस्तवतटे ॥ १८॥ मदोन्मत्तानस्तान् वृषलरमरणीसक्तमनसः- महारोगग्रस्तान् करपदविहीनानपि नरान् । जडान्यन्धव्यङ्गान्प्रकृतिविषमाद्यानपिनरान् परित्यक्तान्देवैरमतमवितुं स्वौषधमसि ॥ १९॥ यदन्तः क्रीडन्तोन्वनवरतमानन्दभरिता- न गृध्राःश्वेतास्ते त्रिदिवगमनेच्छाजितयमाः । निवेशान्नारीणामशुभशमनोऽवद्यवपुषां तटोऽयं मातस्ते भव विगमशूरो भवतु नः ॥ २०॥ विभान्तेभूतेशाजटिलशिरसश्चन्द्रविभया- निनेतुं ह्यायातायम पुरमघा ये यमभटाः । कृता वासन्तीरे जननि तव शुद्धे च मनुजं- गतं पञ्चत्वं ते हृतकलुषमालोक्य विगताः ॥ २१॥ बृहत्त्वद्वीचीनाममलपयसा मार्ज्जितवपुः शरीरान्ते शेते धृतिधर नरो दाविकतटे । तदैनद्धित्वार्ये व्रजति पदमाद्यं मधुरिपो- र्विमानस्थो मान्यस्त्वदिति तनुजातामपि दिवि ॥ २२॥ सुशैलं निश्शोक कमनकलहंसाद्यभिरमं- तरुवातच्छायं कुसुमभरलुब्धालिनिचितम् । सुधा प्रख्या धारापतनध्वनितं दाविकमिदं पुनीतं तीरन्ते मदघवृकयूथं विधमतु ॥ २३॥ भवत्यां सावित्र्यां श्रुतिकुशलमादौ व्यवसितं- शिवम्भूर्यायासं विधिधृतविशेषं बहुषथम् । तदेवायं धत्ते त्रिदिवगमनायाश्ववहित- स्तवैतेनैवतन्नवलषयसाऽभ्येति सकलम् ॥ २४॥ प्रवाहेऽपान्तेयाः सिततरलहर्य्यो घनतटा- स्तरङ्गैरुत्तेङ्गैर्मृदुल पवनैश्चापि च लतैः । सुधासिन्धो मातर्भव वनभवाग्निञ्चलशिखं नयन्त्वार्द्रेः शान्तिं विवनगृहकूपप्रपतिताम् ॥ २५॥ इयं या ते मूर्तिः सुरवरनुता पावनमयी- जनानां येषां हृन्नवनलिन नालं यदि गता । निहन्त्याश्वेनांसि त्वरुण इव भूर्यास्तृततमः- घटस्वेदानी मे यमरणकृपोद्धारसरणीम् ॥ २६॥ शरच्चन्द्रामां त्वाममलविधुबिम्बार्द्धमुकटां- सुनद्धग्रेवेयदयुतिनिकरभूषाङ्गदधतीम् । जपन्त्यायत्ताहृन्नवजलजकोशे सुमनसः- न तेषां भक्तानां क्वचिदपि च याम्यः परिभवः ॥ २७॥ स्तवैर्देवींस्तव्यां श्रुतिविदितसारार्थललितैः- महापद्मासीनां वजनवरदां शुभ्रवसनाम् । स्मरन्ति ध्यानेनैकतरमनसा येऽधधमनीं- विसृज्येमं मर्त्या गिरिशधरश‍ृङ्गेऽमृतभुजः ॥ २८॥ वहन्तीं शीतांशुं शिरसि तव सीमन्तसरणीं- द्विधाभिन्नाकेशां करविधृतपद्मां विधिनुताम् । जनास्त्वद्भृत्या ये त्ववनिपृथुपृष्ठे सुविमले- भजन्ति त्वामम्ब प्रतिदिवसमाजन्मपविताः ॥ २६॥ हरन्त्याः सत्वानां दुरितसमवायं शिवचिदा- स्वसृष्टानाम्भूतैः प्रबलगुणमय्या गिरिसुते । धृता पश्चाद्ङ्गे हतमनसिजेनातिवशिना- महत्वं वक्तुन्ते कथमपि न विज्ञः प्रभवति ॥ ३०॥ समृद्धित्वं भूमेर्जलधिपरिधे रिवितथं- किमीश त्वं क्रीडारचितजगतां यत्पशुपतेः । स्मृतीनां वैचित्र्यं फलमथ सतां पुण्यनिवहं- षयः पीयूषाभं तव जननि शन्नः प्रदिशतु ॥ ३१॥ विरिञ्चिः सञ्चिन्वंस्तव चरणकञ्जोद्भवपयः- स देवान्सर्वेशः प्रजनयति लोकानवरतम् । विमृग्यं शेषेणाऽप्यवनिदधता सैव शिखरात् समुत्तीर्णा कर्तुं दिविज नरसूद्धारणविधिम् ॥ ३२॥ शचीशोऽपीदन्ते ललितचरणाम्भोजसलिलं- गजेन्द्रादुत्तीर्यावनितलमगम्यं दिविषदाम् । शिरस्याधत्ते यो मणिमयकिरीटद्युति मति- र्वृतो देवव्रातैस्त्रिदशवनितान्त्यमुदितैः ॥ ३३॥ सुरस्त्रीसङ्घातस्त्रिदिवभुवनाद्दाविकपयः- परिस्नातुं यातस्तव जननि तीरं हयमुखैः । जगौ चेदम्भद्रं श्रुतिमृदुलमध्यं समुरजै- रभूतत्सङ्गीतं गिरिशसुखदङ्कीचकरवम् ॥ ३४॥ मुनिव्रातैर्यत्तैस्समरशतधीरैश्च कृतिभिः- सुरज्येष्ठेनापि स्मरभटमजेयं हि बलिनम् । निहत्याजौ रुद्रोऽखिलभुवनवन्द्या सुयतिता- मगात्त्वत्सम्पर्कादशुभशमनी नो भव शिवे ॥ ३५॥ इदन्ते शीताम्भः स्फटिकप्रतिमं कौतपविधौ- प्रयुक्तं पश्यानान्दुरितभरविस्राब्धिपतिताम् । व्यसूनामुद्धारञ्जन निकुरुते ते च विदिते- महीयन्ते लोके शिशिरशशिनः शान्तवपुषः ॥ ३६॥ लतासम्पृक्तानान्नवकुसुमभारप्रवहता- न्तरूणान्तामस्यं मधुकरवृतानां परिगतम् । त्वदीयानां पानाद्विशदपयसामाज्जवपदै- स्तरङ्गोत्सृष्टानाञ्जननि तरुजन्मापि च यतः ॥ ३७॥ चलद्वीचीक्षोभभ्रमित झषचक्रोर्ज्जितरवे- जगत्प्राणोद्भूतदृमगलितपुष्पाऽऽस्तृततटे । प्रवाहे त्वद्वारां पिकशिखिगणा येऽतिमधुरं- नदन्तीहाऽऽलोकध्वनय इव पूलाङ्घ्रिपगृहाः ॥ ३८॥ अहोऽन्तर्मद्राणां हिमगिरिगुरोर्डुग्रहृदयात्- सहस्राराधारे भगवति शिवे दाविकमयै । चतुर्विंशत्कोशायतिरपि चतुर्विस्तृतिरथो मुमुक्षुप्रेतानां तरणि ! तरणी नत्वदपरा ॥ ३९॥ नमश्चिद्रूपायै त्रिगुणबलमय्यै प्रकृतये नमः सद्रूपायै विधुशकलमौलेऽखिलभृते । सरिद्रूपायै ते पवितवसुधायै श्रुतवतां- ददत्यै निर्वाणं निरवधिसुखं सत्वनिधये ॥ ४०॥ जगत्पूज्यायै ते यजनफलदायै भव छिदे- नमो मेदिन्यै तेऽखिलवसुधरायै सुश्रवसे नमो धीरायै ते विशदगुणमय्यै सुगतये । नमो वैष्णव्यै ते मुनिवृढयुतायै सुमतये ॥ ४१॥ यस्यास्तेऽमलवीचयो भुवि वदूर्गुप्ताऽऽस्तृता देविके- या धृत्वाऽखिलवन्द्यवेदवदनास्त्वङ्गेऽज लोकङ्गताः । दण्डाद्यस्त्रधरामहोग्रवपुषो याभ्यो यमा दूरत- स्ता दिव्या नरलोकपावनकराः सेव्या बुधैस्सर्वदा ॥ ४२॥ यस्मिन्प्रपीते पयसि त्वदीये नृणामघं नश्यति चान्तराश्रितम् । स्वच्छं सुधासम्मितमद्यनस्त- त्करोतु भव्यम्भवभीतचेतसाम् ॥ ४३॥ त्वत्पादसम्भून्नपयः प्रचेतास्तं धार्य्य पूतं शिरसाप सिद्धिम् । शेषस्त्वदीयान्विदितान्गुणान्वै शक्नोति नैवाद्यतने न मातुम् ॥ ४४॥ त्वमेव गङ्गा यमुना त्वमेव त्वमेव सिन्धुश्च सरस्वती वै । त्वन्देविकारूपमपौह शर्वे दधर्थलोकाय विनाशनाय ॥ ४५॥ त्वमेव मातर्बहुधा व्यवस्थिता त्वमेव माया खलु शाम्भवीति । त्वत्तोऽप्यनन्ता जगतःप्रसूति- स्तत्वैश्चिदाभास बलेन देव्याः ॥ ४६॥ सदाऽऽपोज्योतिष्टेऽवनिदहरगान्तः प्रवहति भुवः पृष्ठस्थानां सकलशमलानि प्रदहति । इदानीं हिन्दूनां निखिलकलुषं त्वं परिहर कुरुष्वैतान्नित्यं हृदयबलयुक्तानृषिवृढान् ॥ ४७॥ सदाचारै निष्ठान्प्रबलतमदुष्टक्षयकरान् प्रचारे वेदानामनुदिनमधियज्ञ रुचियुताम् । गृहेष्वासक्तानां हृदि सबलनिष्ठां द्रढयितुं- सशक्तान्वाग्भक्ताज्जननि ! कुरु सद्योऽग्रजवरान् ॥ ४८॥ अज्ञात विदुषा सृष्टां लहरीं देविका प्रियाम् । विहारीलाल वासिष्ठो मुद्राप्यैनां समर्पये ॥ ॥ इति श्रीदेविकालहरी सम्पूर्णा ॥