अक्षर आकार:

नवरत्नमालिका

navaratnamAlikA

नवरत्नमालिका

नामरत्ननवरत्नमालिका हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् । कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां फालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥ १॥ (३) गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् । मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥ २॥ (४) स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् । वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां मारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥ ३॥ भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् । वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकां चारुचन्द्ररविलोचनां मनसि भावयामि परदेवताम् ॥ ४॥ (६) कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस- त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानुभासमुज्ज्वलाम् । मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् ॥ ५॥ (५) वारणाननमयूरवाहमुखदाहवारणपयोधरां चारणादिसुरसुन्दरीचिकुरशेकरीकृतपदाम्बुजाम् । कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां वारणान्तमुखपारणां मनसि भावयामि परदेवताम् ॥ ६॥ (७) पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् । पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् ॥ ७॥ (९) आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् । मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् ॥ ८॥ (८) कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् । वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां var वालिकाचतुर बालिकामखिलनायिकां मनसि भावयामि परदेवताम् ॥ ९॥ (१) नित्यमेव नियमेन जल्पतां भुक्तिमुक्तिफलदामभीष्टदाम् । शंकरेण रचितां सदा जपे- न्नामरत्ननवरत्नमालिकाम् ॥ १०॥ (११) इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ नवरत्नमालिका संपूर्णा ॥ Another variation follows with difference in sequence marked () above and some additional verses added 1, 2, and 10 below (3 above not present) as in scan. नामरत्ननवरत्नमालिका ध्यानश्लोकः । कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् । वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां var वालिकाचतुर बालिकामखिलनायिकां मनसि भावयामि परदेवताम् ॥ दाडिमीकुसुममञ्जरीनिकरसुन्दरे मदनमन्दिरे यामिनीरमणखण्डमण्डितशिखण्डिके तरलकुण्डले । पाशमङ्कुशमुदश्चितं दधति कोमले कमललोचने तावके वपुषि सन्तत जननि! मामकं भवतु मानसम् ॥ १ ॥ कुन्दसुन्दरमन्दहासविराजिताधरपल्लवा- मिन्दुबिम्बनिभाननामरविन्दचारुविलोचनाम् । चन्दनागरुपङ्करूषिततुङ्गपीनपयोधरा चन्द्रशेखरवल्लभां प्रणमामि शैलसुतामुमाम् ॥ २ ॥ हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् । कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां फालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥ ३॥ गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् । मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥ ४॥ कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस- त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानुभासमुज्ज्वलाम् । मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् ॥ ५॥ भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् । वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकां चारुचन्द्ररविलोचनां मनसि भावयामि परदेवताम् ॥ ६॥ वारणाननमयूरवाहमुखदाहवारणपयोधरां चारणादिसुरसुन्दरीचिकुरशेकरीकृतपदाम्बुजाम् । कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां वारणान्तमुखपारणां मनसि भावयामि परदेवताम् ॥ ७॥ आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् । मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् ॥ ८॥ पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् । पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् ॥ ९॥ माणिक्यकुण्डलितमौक्तिकवालिकेन मन्दस्मितेन वदनारुणपङ्कजेन । कालान्तदीर्घमणिमङ्गलसूत्रकण्ठी माता विशालनयना मम सन्निधत्ताम् ॥ १०॥ नित्यमेव नियमेन जल्पतां भुक्तिमुक्तिफलदामभीष्टदाम् । शंकरेण रचितां सदा जपे- न्नामरत्ननवरत्नमालिकाम् ॥ ११॥ इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ नवरत्नमालिका संपूर्णा ॥