अक्षर आकार:

श्रीदेवसेना अष्टोत्तरशतनामावली

shrI devasenA aShTottarashatanAmAvaliH

श्रीदेवसेना अष्टोत्तरशतनामावली

ॐ देवसेनायै नमः । ॐ देवलोकजनन्यै नमः । ॐ दिव्यसुन्दर्यै नमः । ॐ देवपूज्यायै नमः । ॐ दयारूपायै नमः । ॐ दिव्याभरणभूषितायै नमः । ॐ देवपूज्यायै नमः । ॐ दारिद्र्यनाशिन्यै नमः । ॐ देव्यै नमः । ॐ दिव्यपङ्कजधारिण्यै नमः । ॐ दुःस्वप्ननाशिन्यै नमः । ॐ दुष्टशमन्यै नमः । ॐ दोषवर्जितायै नमः । ॐ पीताम्बरायै नमः । ॐ पद्मवासायै नमः । ॐ परानन्दायै नमः । ॐ परात्परायै नमः । ॐ पूर्णायै नमः । ॐ परमकल्याण्यै नमः । ॐ प्रकटायै नमः । ॐ पापनाशिन्यै नमः । ॐ प्राणेश्वर्यै नमः । ॐ परायै शक्त्यै नमः । ॐ परमायै नमः । ॐ परमेश्वर्यै नमः । ॐ महावीर्यायै नमः । ॐ महाभोगायै नमः । ॐ महापूज्यायै नमः । ॐ महाबलायै नमः । ॐ माहेन्द्र्यै नमः । ॐ महत्यै नमः । ॐ मायायै नमः । ॐ मुक्ताहारविभूषितायै नमः । ॐ ब्रह्मानन्दायै नमः । ॐ ब्रह्मरूपायै नमः । ॐ ब्रह्माण्यै नमः । ॐ ब्रह्मपूजितायै नमः । ॐ कार्तिकेयप्रियायै नमः । ॐ कान्तायै नमः । ॐ कामरूपायै नमः । ॐ कलाधरायै नमः । ॐ विष्णुपूज्यायै नमः । ॐ विश्ववन्द्यायै नमः । ॐ वेदवेद्यायै नमः । ॐ वरप्रदायै नमः । ॐ विशाखकान्तायै नमः । ॐ विमलायै नमः । ॐ वज्रिजातायै नमः । ॐ वरप्रदायै नमः । ॐ सत्यसन्धायै नमः । ॐ सत्यप्रभावायै नमः । ॐ सिद्धिदायै नमः । ॐ स्कन्दवल्लभायै नमः । ॐ सुरेश्वर्यै नमः । ॐ सर्ववन्द्यायै नमः । ॐ सुन्दर्यै नमः । ॐ साम्यवर्जितायै नमः । ॐ हतदैत्यायै नमः । ॐ हानिहीनायै नमः । ॐ हर्षदात्र्यै नमः । ॐ हतासुरायै नमः । ॐ हितकर्त्र्यै नमः । ॐ हीनदोषायै नमः । ॐ हेमाभायै नमः । ॐ हेमभूषणायै नमः । ॐ लयहीनायै नमः । ॐ लोकवन्द्यायै नमः । ॐ ललितायै नमः । ॐ ललनोत्तमायै नमः । ॐ लम्बवामकरायै नमः । ॐ लभ्यायै नमः । ॐ लज्जढ्यायै नमः । ॐ लाभदायिन्यै नमः । ॐ अचिन्त्यशक्त्यै नमः । ॐ अचलायै नमः । ॐ अचिन्त्यरूपायै नमः । ॐ अक्षरायै नमः । ॐ अभयायै नमः । ॐ अम्बुजाक्ष्यै नमः । ॐ अमराराध्यायै नमः । ॐ अभयदायै नमः । ॐ असुरभीतिदायै नमः । ॐ शर्मदायै नमः । ॐ शक्रतनयायै नमः । ॐ शङ्करात्मजवल्लभायै नमः । ॐ शुभायै नमः । ॐ शुभप्रदायै नमः । ॐ शुद्धायै नमः । ॐ शरणागतवत्सलायै नमः । ॐ मयूरवाहनदयितायै नमः । ॐ महामहिमशालिन्यै नमः । ॐ मदहीनायै नमः । ॐ मातृपूज्यायै नमः । ॐ मन्मथारिसुतप्रियायै नमः । ॐ गुणपूर्णायै नमः । ॐ गणाराद्ध्यायै नमः । ॐ गौरीसुतमनःप्रियायै नमः । ॐ गतदोषायै नमः । ॐ गतावद्यायै नमः । ॐ गङ्गाजातकुटुम्बिन्यै नमः । ॐ चतुरायै नमः । ॐ चन्द्रवदनायै नमः । ॐ चन्द्रचूडभवप्रियायै नमः । ॐ रम्यरूपायै नमः । ॐ रमावन्द्यायै नमः । ॐ रुद्रसूनुमनःप्रियायै नमः । ॐ मङ्गलायै नमः । ॐ मधुरालापायै नमः । ॐ महेशतनयप्रियायै नमः । इति श्री देवसेना अष्टोत्तरशतनामावलिः सम्पूर्णा ॥