अक्षर आकार:

देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनामावली

devIvaibhavAshcharyAShTottarashatadivyanAmAvaliH

देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनामावली

ॐ ऐं ह्रीं श्रीं । ॐ परमानन्दलहर्यै नमः । ॐ परचैतन्यदीपिकायै नमः । ॐ स्वयंप्रकाशकिरणायै नमः । ॐ नित्यवैभवशालिन्यै नमः । ॐ विशुद्धकेवलाखण्डसत्यकालात्मरूपिण्यै नमः । ५ ॐ आदिमध्यान्तरहितायै नमः । ॐ महामायाविलासिन्यै नमः । ॐ गुणत्रयपरिच्छेत्र्यै नमः । ॐ सर्वतत्त्वप्रकाशिन्यै नमः । ॐ स्त्रीपुंसभावरसिकायै नमः । १० ॐ जगत्सर्गादिलंपटायै नमः । ॐ अशेषनामरूपादिभेदच्छेदरविप्रभायै नमः । ॐ अनादिवासनारूपायै नमः । ॐ वासनोद्यत्प्रपञ्चिकायै नमः । ॐ प्रपञ्चोपशमप्रौढायै नमः । १५ ॐ चराचरजगन्मय्यै नमः । ॐ समस्तजगदाधारायै नमः । ॐ सर्वसञ्जीवनोत्सुकायै नमः । ॐ भक्तचेतोमयानन्तस्वार्थवैभवविभ्रमायै नमः । ॐ सर्वाकर्षणवश्यादिसर्वकर्मदुरन्धरायै नमः । २० ॐ विज्ञानपरमानन्दविद्यायै नमः । ॐ सन्तानसिद्धिदायै नमः । ॐ आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदायै नमः । ॐ धनधान्यमणीवस्त्रभूषालेपनमाल्यदायै नमः । ॐ गृहग्राममहाराज्यसांराज्यसुखदायिन्यै नमः । २५ ॐ सप्ताङ्गशक्तिसम्पूर्णसार्वभौमफलप्रदायै नमः । ॐ ब्रह्मविष्णुशिवेन्द्रादिपदविश्राणनक्षमायै नमः । ॐ भुक्तिमुक्तिमहाभक्तिविरक्त्यद्वैतदायिन्यै नमः । ॐ निग्रहानुग्रहाध्यक्षायै नमः । ॐ ज्ञाननिर्द्वैतदायिन्यै नमः । ३० ॐ परकायप्रवेशादियोगसिद्धिप्रदायिनी नमः । ॐ शिष्टसञ्जीवनप्रौढायै नमः । ॐ दुष्टसंहारसिद्धिदायै नमः । ॐ लीलाविनिर्मितानेककोटिब्रह्माण्डमण्डलायै नमः । ॐ एकस्मै नमः । ३५ ॐ अनेकात्मिकायै नमः । ॐ नानारूपिण्यै नमः । ॐ अर्धाङ्गनेश्वर्यै नमः । ॐ शिवशक्तिमय्यै नमः । ॐ नित्यश‍ृङ्गारैकरसप्रियायै नमः । ४० ॐ तुष्टायै नमः । ॐ पुष्टायै नमः । ॐ अपरिच्छिन्नायै नमः । ॐ नित्ययौवनमोहिन्यै नमः । ॐ समस्तदेवतारूपायै नमः । ४५ ॐ सर्वदेवाधिदेवतायै नमः । ॐ देवर्षिपितृसिद्धादियोगिनीभैरवात्मिकायै नमः । ॐ निधिसिद्धिमणीमुद्रायै नमः । ॐ शस्त्रास्त्रायुधभासुरायै नमः । ॐ छत्रचामरवादित्रपताकाव्यजनाञ्चितायै नमः । ५० ॐ हस्ताश्वरथपादातामात्यसेनासुसेवितायै नमः । ॐ पुरोहितकुलाचार्यगुरुशिष्यादिसेवितायै नमः । ॐ सुधासमुद्रमध्योद्यत्सुरद्रुमनिवासिन्यै नमः । ॐ मणिद्वीपान्तरप्रोद्यत्कदंबवनवासिन्यै नमः । ॐ चिन्तामणिगृहान्तस्थायै नमः । ५५ ॐ मणिमण्डपमध्यगायै नमः । ॐ रत्नसिंहासनप्रोद्यत्शिवमञ्चाधिशायिन्यै नमः । ॐ सदाशिवमहालिङ्गमूलसंघट्टयोनिकायै नमः । ॐ अन्योन्यालिङ्गसंघर्षकन्ण्डूसंक्षुब्धमानसायै नमः । ॐ कलोद्यद्बिन्दुकालिन्यातुर्यनादपरंपरायै नमः । ६० ॐ नादान्तानन्दसन्दोहस्वयंव्यक्तवचोऽमृतायै नमः । ॐ कामराजमहातन्त्ररहस्याचारदक्षिणायै नमः । ॐ मकारपञ्चकोद्भूतप्रौढान्तोल्लाससुन्दर्यै नमः । ॐ श्रीचक्रराजनिलयायै नमः । ॐ श्रीविद्यामन्त्रविग्रहायै नमः । ६५ ॐ अखण्डसच्चिदानन्दशिवशक्तैकरूपिण्यै नमः । ॐ त्रिपुरायै नमः । ॐ त्रिपुरेशान्यै नमः । ॐ महात्रिपुरसुन्दर्यै नमः । ॐ त्रिपुरावासरसिकायै नमः । ७० ॐ त्रिपुराश्रीस्वरूपिण्यै नमः । ॐ महापद्मवनान्तस्थायै नमः । ॐ श्रीमत्त्रिपुरमालिन्यै नमः । ॐ महात्रिपुरसिद्धाम्बायै नमः । ॐ श्रीमहात्रिपुराम्बिकायै नमः । ७५ ॐ नवचक्रक्रमादेयै नमः । ॐ महात्रिपुरभैरव्यै नमः । ॐ श्रीमात्रे नमः । ॐ ललितायै नमः । ॐ बालायै नमः । ८० ॐ राजराजेश्वर्यै नमः । ॐ शिवायै नमः । ॐ उत्पत्तिस्थितिसंहारक्रमचक्रनिवासिन्यै नमः । ॐ अर्धमेर्वात्मचक्रस्थायै नमः । ॐ सर्वलोकमहेश्वर्यै नमः । ८५ ॐ वल्मीकपुरमध्यस्थायै नमः । ॐ जम्बूवननिवासिन्यै नमः । ॐ अरुणाचलश‍ृङ्गस्थायै नमः । ॐ व्याघ्रालयनिवासिन्यै नमः । ॐ श्रीकालहस्तिनिलयायै नमः । ९० ॐ काशीपुरनिवासिन्यै नमः । ॐ श्रीमत्कैलासनिलयायै नमः । ॐ द्वादशान्तमहेश्वर्यै नमः । ॐ श्रीषोडशान्तमध्यस्थायै नमः । ॐ सर्ववेदान्तलक्षितायै नमः । ९५ ॐ श्रुतिस्मृतिपुराणेतिहासागमकलेश्वर्यै नमः । ॐ भूतभौतिकतन्मात्रदेवताप्राणहृन्मय्यै नमः । ॐ जीवेश्वरब्रह्मरूपायै नमः । ॐ श्रीगुणाढ्यायै नमः । ॐ गुणात्मिकायै नमः । १०० ॐ अवस्थात्रयनिर्मुक्तायै नमः । ॐ वाग्रमोमामहीमय्यै नमः । ॐ गायत्रीभुवनेशानीदुर्गाकाळ्यादिरूपिण्यै नमः । ॐ मत्स्यकूर्मवराहादिनानारूपविलासिन्यै नमः । ॐ महायोगीश्वराराध्यायै नमः । १०५ ॐ महावीरवरप्रदायै नमः । ॐ सिद्धेश्वरकुलाराध्यायै नमः । ॐ श्रीमच्चरणवैभवायै नमः । १०८ श्रीं ह्रीं ऐं ॐ । 18 mayAnanda 66 shaktyaikya