अक्षर आकार:

देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनामस्तोत्रम्

devIvaibhavAshcharyAShTottarashatadivyanAmastotram

देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनामस्तोत्रम्

अस्य श्री देवी-वैभव-आश्चर्य-अष्टोत्तरशत-दिव्यनामस्तोत्र-महामन्त्रस्य आनन्दभैरव ऋषिः । अनुष्टुप् छन्दः । श्री आनन्दभैरवी श्रीमहात्रिपुरसुन्दरी देवता । कूटत्रयेण बीज-शक्ति-कीलकम् । मम श्री आनन्दभैरवी श्रीमहात्रिपुरसुन्दरीप्रसाद- सिद्ध्यर्थे सान्निध्यसिद्ध्यर्थे जपे विनियोगः । कूटत्रयेण कर-षडङ्गन्यासः ॥ भूर्भुवःसुवरोमिति दिग्बन्धः ॥ ध्यानम् ॥ क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना । धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ १॥ सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ २॥ ॥ पञ्चपूजा ॥ लं पृथिव्यात्मिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै पुष्पैः पूजयामि । यं वाय्वात्मिकायै धूपमाघ्रापयामि । रं अग्न्यात्मिकायै दीपं दर्शयामि । वं अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मिकायै सर्वोपचारान् समर्पयामि ॥ ॐ ऐं ह्रीं श्रीं परमानन्दलहरी परचैतन्यदीपिका । स्वयंप्रकाशकिरणा नित्यवैभवशालिनी ॥ १॥ विशुद्धकेवलाखण्डसत्यकालात्मरूपिणी । आदिमध्यान्तरहिता महामायाविलासिनी ॥ २॥ गुणत्रयपरिच्छेत्री सर्वतत्त्वप्रकाशिनी । स्त्रीपुंसभावरसिका जगत्सर्गादिलंपटा ॥ ३॥ अशेषनामरूपादिभेदच्छेदरविप्रभा । अनादिवासनारूपा वासनोद्यत्प्रपञ्चिका ॥ ४॥ प्रपञ्चोपशमप्रौढा चराचरजगन्मयी । समस्तजगदाधारा सर्वसञ्जीवनोत्सुका ॥ ५॥ भक्तचेतोमयानन्तस्वार्थवैभवविभ्रमा । सर्वाकर्षणवश्यादिसर्वकर्मदुरन्धरा ॥ ६॥ विज्ञानपरमानन्दविद्या सन्तानसिद्धिदा । आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदा ॥ ७॥ धनधान्यमणीवस्त्रभूषालेपनमाल्यदा । गृहग्राममहाराज्यसांराज्यसुखदायिनी ॥ ८॥ सप्ताङ्गशक्तिसम्पूर्णसार्वभौमफलप्रदा । ब्रह्मविष्णुशिवेन्द्रादिपदविश्राणनक्षमा ॥ ९॥ भुक्तिमुक्तिमहाभक्तिविरक्त्यद्वैतदायिनी । निग्रहानुग्रहाध्यक्षा ज्ञाननिर्द्वैतदायिनी ॥ १०॥ परकायप्रवेशादियोगसिद्धिप्रदायिनी । शिष्टसञ्जीवनप्रौढा दुष्टसंहारसिद्धिदा ॥ ११॥ लीलाविनिर्मितानेककोटिब्रह्माण्डमण्डला । एकानेकात्मिका नानारूपिण्यर्धाङ्गनेश्वरी ॥ १२॥ शिवशक्तिमयी नित्यश‍ृङ्गारैकरसप्रिया । तुष्टा पुष्टापरिच्छिन्ना नित्ययौवनमोहिनी ॥ १३॥ समस्तदेवतारूपा सर्वदेवाधिदेवता । देवर्षिपितृसिद्धादियोगिनीभैरवात्मिका ॥ १४॥ निधिसिद्धिमणीमुद्रा शस्त्रास्त्रायुधभासुरा । छत्रचामरवादित्रपताकाव्यजनाञ्चिता ॥ १५॥ हस्त्याश्वरथपादातामात्यसेनासुसेविता । पुरोहितकुलाचार्यगुरुशिष्यादिसेविता ॥ १६॥ सुधासमुद्रमध्योद्यत्सुरद्रुमनिवासिनी । मणिद्वीपान्तरप्रोद्यत्कदंबवनवासिनी ॥ १७॥ चिन्तामणिगृहान्तस्था मणिमण्डपमध्यगा । रत्नसिंहासनप्रोद्यच्छिवमञ्चाधिशायिनी ॥ १८॥ सदाशिवमहालिङ्गमूलसंघट्टयोनिका । अन्योन्यालिङ्गसंघर्षकण्डूसंक्षुब्धमानसा ॥ १९॥ कलोद्यद्बिन्दुकालिन्यातुर्यनादपरंपरा । नादान्तानन्दसन्दोहस्वयंव्यक्तवचोऽमृता ॥ २०॥ कामराजमहातन्त्ररहस्याचारदक्षिणा । मकारपञ्चकोद्भूतप्रौढान्तोल्लाससुन्दरी ॥ २१॥ श्रीचक्रराजनिलया श्रीविद्यामन्त्रविग्रहा । अखण्डसच्चिदानन्दशिवशक्त्यैकरूपिणी ॥ २२॥ त्रिपुरा त्रिपुरेशानी महात्रिपुरसुन्दरी । त्रिपुरावासरसिका त्रिपुराश्रीस्वरूपिणी ॥ २३॥ महापद्मवनान्तस्था श्रीमत्त्रिपुरमालिनी । महात्रिपुरसिद्धाम्बा श्रीमहात्रिपुराम्बिका ॥ २४॥ नवचक्रक्रमादेवी महात्रिपुरभैरवी । श्रीमाता ललिता बाला राजराजेश्वरी शिवा ॥ २५॥ उत्पत्तिस्थितिसंहारक्रमचक्रनिवासिनी । अर्धमेर्वात्मचक्रस्था सर्वलोकमहेश्वरी ॥ २६॥ वल्मीकपुरमध्यस्था जम्बूवननिवासिनी । अरुणाचलश‍ृङ्गस्था व्याघ्रालयनिवासिनी ॥ २७॥ श्रीकालहस्तिनिलया काशीपुरनिवासिनी । श्रीमत्कैलासनिलया द्वादशान्तमहेश्वरी ॥ २८॥ श्रीषोडशान्तमध्यस्था सर्ववेदान्तलक्षिता । श्रुतिस्मृतिपुराणेतिहासागमकलेश्वरी ॥ २९॥ भूतभौतिकतन्मात्रदेवताप्राणहृन्मयी । जीवेश्वरब्रह्मरूपा श्रीगुणाढ्या गुणात्मिका ॥ ३०॥ अवस्थात्रयनिर्मुक्ता वाग्रमोमामहीमयी । गायत्रीभुवनेशानीदुर्गाकाळ्यादिरूपिणी ॥ ३१॥ मत्स्यकूर्मवराहादिनानारूपविलासिनी । महायोगीश्वराराध्या महावीरवरप्रदा ॥ ३२॥ सिद्धेश्वरकुलाराध्या श्रीमच्चरणवैभवा ॥ ३३॥ श्रीं ह्रीं ऐं ॐ कूटत्रयेण षडाङ्गन्यासः । भूर्भुवःसुवरोमिति दिग्विमोकः । पुनर्ध्यानम् । पुनः पञ्चपूजा ॥