अक्षर आकार:

सुबाहुकृता देवीस्तुतिः

Devistuti by Subahu

सुबाहुकृता देवीस्तुतिः

सुबाहुरुवाच - नमौ देव्यै जगद्धात्र्यै शिवायै सततं नमः । दुर्गायै भगवत्यै ते कामदायै नमो नमः ॥ १॥ नमः शिवायै शान्त्यै ते विद्यायै मोक्षदे नमः । विश्वव्याप्त्यै जगन्मातर्जगद्धात्र्यै नमः शिवे ॥ २॥ नाहं गतिं तव धिया परिचिन्तयन् वै जानामि देवि सगुणः किल निर्गुणायाः । किं स्तौमि विश्वजननीं प्रकटप्रभावां भक्तार्तिनाशनपरां परमाञ्च शक्तिम् ॥ ३॥ वाग्देवता त्वमसि सर्वगतैव बुद्धि- र्विद्या मतिश्च गतिरप्यसि सर्वजन्तोः । त्वां स्तौमि किं त्वमसि सर्वमनोनियन्त्री किं स्तूयते हि सततं खलु चात्मरूपम् ॥ ४॥ ब्रह्मा हरश्च हरिरप्यनिशं स्तुवन्तो नान्तं गताः सुरवराः किल ते गुणानाम् । क्वाहं विभेदमतिरम्ब गुणैर्वृतो वै वक्तुं क्षमस्तव चरित्रमहोऽप्रसिद्धः ॥ ५॥ सत्सङ्गतिः कथमहो न करोति कामं प्रासङ्गिकापि विहिता खलु चित्तशुद्धिः । जामातुरस्य विहितेन समागमेन प्राप्तं मयाऽद्भुतमिदं तव दर्शनं वै ॥ ६॥ ब्रह्माऽपि वाञ्छति सदैव हरो हरिश्च सेन्द्राः सुराश्च मुनयो विदितार्थतत्त्वाः । यद्दर्शनं जननि तेऽद्य मया दुरापं प्राप्तं विना दमशमादिसमाधिभिश्च ॥ ७॥ क्वाहं सुमन्दमतिराशु तवावलोकं क्वेदं भवानि भवभेषजमद्वितीयम् । ज्ञाताऽसि देवि सततं किल भावयुक्ता भक्तानुकम्पनपरामरवर्गपूज्या ॥ ८॥ किं वर्णयामि तव देवि चरित्रमेतद् यद्रक्षितोऽस्ति विषमेऽत्र सुदर्शनोऽयम् । शत्रू हतौ सुबलिनौ तरसा त्वयाद्य भक्तानुकम्पि चरितं परमं पवित्रम् ॥ ९॥ नाश्चर्यमेतदिति देवि विचारितेऽर्थे त्वं पासि सर्वमखिलं स्थिरजङ्गमं वै । त्रातस्त्वया च विनिहत्य रिपुर्दयातः संरक्षितोऽयमधुना ध्रुवसन्धिसूनुः ॥ १०॥ भक्तस्य सेवनपरस्य स्वयशोऽतिदीप्तं कर्तुं भवानि रचितं चरितं त्वयैतत् । नोचेत्कथं सुपरिगृह्य सुतां मदीयां युद्धे भवेत्कुशलवाननवद्यशीलः ॥ ११॥ शक्ताऽसि जन्ममरणादिभयान्विहन्तुं किं चित्रमत्र किल भक्तजनस्य कामम् । त्वं गीयसे जननि भक्तजनैरपारा त्वं पापपुण्यरहिता सगुणाऽगुणा च ॥ १२॥ त्वद्दर्शनादहमहो सुकृती कृतार्थो जातोऽस्मि देवि भुवनेश्वरि धन्यजन्मा । बीजं न ते न भजनं किल वेद्मि मात- र्ज्ञातस्तवाद्य महिमा प्रकटप्रभावः ॥ १३॥ व्यास उवाच - एवं स्तुता तदा देवी प्रसन्नवदना शिवा । उवाच च नृपं देवी वरं वरय सुव्रत ॥ १४॥ इति श्रीमद्देवीभागवतमहापुराणे तृतीयस्कन्धे द्वात्रिंशोऽध्याये सुबाहुकृता देवीस्तुतिः सम्पूर्णा । Verse 42-55