अक्षर आकार:

देवीस्तुती एवं देवी तीर्थक्षेत्राणि

devIstutI evaM devI tIrthakShetrANi

देवीस्तुती एवं देवी तीर्थक्षेत्राणि

एवमुक्तोऽब्रवीद् दक्षः केषु केषु मयानघे । तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः ॥ १॥ देव्युवाच - सर्वदा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि । सर्वलोकेषु यत् किञ्चिद् रहितं न मया विना ॥ २॥ तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः । स्मर्तव्या भूतिकामैर्वा तानि वक्ष्यामि तत्त्वतः ॥ ३॥ वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी । प्रयागे ललिता देवी कामाक्षी गन्धमादने ॥ ४॥ मानसे कुमुदा नाम विश्वकाया तथाम्बरे । गोमन्ते गोमती नाम मन्दरे कामचारिणी ॥ ५॥ मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे । कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते ॥ ६॥ एकाम्रके कीर्तिमती विश्वा विश्वेश्वरे विदुः । पुष्करे पुरुहूतेति केदारे मार्गदायिनी ॥ ७॥ नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका । स्थाण्वीश्वरे भवानी तु बिल्वके बिल्वपत्रिका ॥ ८॥ श्रीशैले माधवी नाम भद्रा भद्रेश्चरे तथा । जया वराहशैले तु कमला कमलालये ॥ ९॥ रुद्रकोट्यां च रुद्राणी काली कालञ्जरे गिरौ । महालिङ्गे तु कपिला मर्कोटे मुकुटेश्वरी ॥ १०॥ शालग्रामे महादेवी शिवलिङ्गे जलप्रिया । मायापुयां कुमारी तु सन्ताने ललिता तथा ॥ ११॥ उत्पलाक्षी सहस्राक्षे कमलाक्षे महोत्पला । गङ्गायां मङ्गला नाम विमला पुरुषोत्तमे ॥ १२॥ विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने । नारायणी सुपार्श्वे तु विकूटे भद्रसुन्दरी ॥ १३॥ विपुले विपुला नाम कल्याणी मलयाचले । कोटवी कोटितीर्थे तु सुगन्धा माधवे वने ॥ १४॥ गोदाश्रमे त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया । शिवकुण्डे शिवानन्दा नन्दिनी देविकातटे ॥ १५॥ रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने । देवकी मथुरायां तु पाताले परमेश्वरी ॥ १६॥ चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी । var विन्ध्याधिवासिनी सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका ॥ १७॥ रमणा रामतीर्थे तु यमुनायां मृगावती । करवीरे महालक्ष्मीरुमादेवी विनायके ॥ १८॥ अरोगा वैद्यनाथे तु महाकाले महेश्वरी । अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे ॥ १९॥ माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरे पुरे । छागलाण्डे प्रचण्डा तु चण्डिका मकरन्दके ॥ २०॥ सोमेश्वरे वरारोहा प्रभासे पुष्करावती । देवमाता सरस्वत्या पारावारतटे मता ॥ २१॥ महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी । सिंहिका कृतशौचे तु कार्तिकेये यशस्करी ॥ २२॥ उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे । माता सिद्धपुरे लक्ष्मीरङ्गना भरताश्रमे ॥ २३॥ जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते । देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ॥ २४॥ भीमा देवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा । कपालमोचने शुद्धिर्माता कायावरोहणे ॥ २५॥ शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा । काला तु चन्द्रभागायामच्छोदे शिवकारिणी ॥ २६॥ वेणायाममृता नाम बदर्यामुर्वशी तथा । औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ॥ २७॥ मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी । अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये ॥ २८॥ गायत्री वेदवदने पार्वती शिवसन्निधौ । देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ॥ २९॥ सूर्यबिम्बे प्रभा नाम मातृणां वैष्णवी मता । अरुन्धती सतीनां तु रामसु च तिलोत्तमा ॥ ३०॥ चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् । एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् ॥ ३१॥ अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् । यः स्मरेच्छृणुयाद् वापि सर्वपापैः प्रमुच्यते ॥ ३२॥ एषु तीर्थेषु यः कृत्वा स्नानं पश्यति मां नरः । सर्वपापविनिर्मुक्तः कल्पं शिवपुरे वसेत् ॥ ३३॥ यस्तु मत्परमं कालं करोत्येतेषु मानवः । स भित्त्वा ब्रह्मसदनं पदमभ्येति शाङ्करम् ॥ ३४॥ नाम्नामष्टशतं यस्तु श्रावयेच्छिवसन्निधौ । तृतीयायामथाष्टम्यां बहुपुत्रो भवेन्नरः ॥ ३५॥ गोदाने श्राद्धदाने वा अन्यहनि वा बुधः । देवार्चनविधौ विद्वान् पठन् ब्रह्माधिगच्छति ॥ ३६॥ इति मत्स्यपुराणे त्रयोदशोऽध्याये देवीस्तुतिः समाप्ता ।