अक्षर आकार:

रात्रिसूक्तात्मकं देवीस्तोत्रम्

rAtrisUktAtmakaM devIstotram

रात्रिसूक्तात्मकं देवीस्तोत्रम्

श्रीगणेशाय नमः ॥ रात्रिदेवीं प्रपद्येऽहं शरणागतवत्सलाम् । करालवदनां कृष्णां दुष्टग्रहविनाशिनीम् ॥ १॥ नमामि खड्गहस्तां तां खेटहस्तां भयानकाम् । वरदाभयहस्तां च भक्तलोकभयापहाम् ॥ २॥ शूलहस्तां शङ्खचक्रगदाचापेषुधारिणीम् । चतुर्भुजामष्टभुजां द्विभुजामरिमर्दिनीम् ॥ ३॥ अष्टादशभुजां लक्ष्मीं दशहस्तां सरस्वतीम् । सर्वसम्पत्प्रदात्रीं च सर्वविद्याप्रदायिनीम् ॥ ४॥ सहस्रबाहुचरणां सहस्रमुखलोचनाम् । सहस्रमुकुटोपेतां सहस्रचरणाम्बुजाम् ॥ ५॥ पद्मयोनिमुखाब्जस्थां विष्णुवक्षःस्थलस्थिताम् । शिवाङ्कनिलयां गौरीं वन्दे मूर्तित्रयात्मिकाम् ॥ ६॥ आर्भट्या वैष्णवी चोग्रा कुलानि विबुधद्विषाम् । या निर्दहति रक्ताक्षी तां वन्दे सिंहवाहनाम् ॥ ७॥ मधुकैटभसंहारं महिषासुरमर्दनम् । याऽकरोन्नौमि दुर्गां तां वधं शुम्भनिशुम्भयोः ॥ ८॥ इन्द्रादिसर्वदेवानां सूर्यादिज्योतिषामपि । सर्वशक्तिस्वरूपा या रात्रीं तां प्रणमाम्यहम् ॥ ९॥ रात्रिसूक्तं जपेद्रात्रौ त्रिवारं च दिने दिने । भूतप्रेतपिशाचादिचोरसर्पादिनाशनम् ॥ १०॥ इति श्रीरात्रिसूक्तात्मकदेवीस्तोत्रं सम्पूर्णम् ॥