अक्षर आकार:

देवीस्तवनम् मनुकृतम्

devIstavanam by Manu

देवीस्तवनम् मनुकृतम्

मनुरुवाच - जय देवि विशालाक्षि जय सर्वान्तरस्थिते ॥ १॥ मान्ये पूज्ये जगद्धात्रि सर्वमङ्गलमङ्गले । त्वत्कटाक्षावलोकेन पद्मभूः सृजते जगत् ॥ २॥ वैकुण्ठः पालयत्येव हरः संहरते क्षणात् । शचीपतिस्त्रिलोक्याश्च शासको भवदाज्ञया ॥ ३॥ प्राणिनः शिक्षयत्येव दण्डेन च परेतराट् । यादसामधिपः पाशी पालनं मादृशामपि ॥ ४॥ कुरुते स कुबेरोऽपि निधीनां पतिरव्ययः । हुतभुङ्नैरृतो वायुरीशानः शेष एव च ॥ ५॥ त्वदंशसम्भवा एव त्वच्छक्तिपरिबृंहिताः । अथापि यदि मे देवि वरो देयोऽस्ति साम्प्रतम् ॥ ६॥ तदा प्रह्वाः सर्गकार्ये विघ्ना नश्यन्तु मे शिवे । वाग्भवस्यापि मन्त्रस्य ये केचिदुपसेविनः ॥ ७॥ तेषां सिद्धिः सत्वरापि कार्याणां जायतामपि । ये संवादमिमं देवि पठन्ति श्रावयन्ति च ॥ ८॥ तेषां लोके भुक्तिमुक्ती सुलभे भवतां शिवे । जातिस्मरत्वं भवतु वक्तृत्वं सौष्ठवं तथा ॥ ९॥ ज्ञानसिद्धिः कर्ममार्गसंसिद्धिरपि चास्तु हि । पुत्रपौत्रसमृद्धिश्च जायेदित्येव मे वचः ॥ १०॥ इति श्रीमद्देवीभागवतमहापुराणे दशम स्कन्धान्तरगतम् प्रथमोऽध्याये मनुकृतं देवीस्तवनं सम्पूर्णम् । Verses 15 through 24