अक्षर आकार:

देवीस्तवम्

Devistava

देवीस्तवम्

हरिवंशे अनुबन्धम्- अध्याय-८ वैशम्पायन उवाच आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी । जननी सिद्धसेनस्य दुर्गा वीरा महातपाः ॥ १॥ जया च विजया चैव पुष्टिश्च त्वं क्षमा दया । ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी ॥ २॥ बहुरूपा विरूपा च अनेकविधरूपिणी । विरूपाक्षी विशालाक्षी भक्तानां परिरक्षणी ॥ ३॥ पर्वताग्रेषु घोरेषु नदीषु च गुहासु च । वासस्तव महादेवि वनेषूपवनेषु च ॥ ४॥ शबरैर्बर्बरैश्चैव पुलिन्दैश्च सुपूजिता । मयूरपक्षध्वजिनी लोकान् क्रामसि सर्वशः ॥ ५॥ कुक्कुटैश्चागलैर्मेषैः सिंहैर्व्याघ्रैः समाकुला । घण्टानिनादबहुला विश्रुता विन्ध्यवासिनी ॥ ६॥ त्रिशूलपट्टिसधरा सूर्यचन्द्रपताकिनी । नवमी कृष्णपक्षस्य शुक्लस्यैकादशी प्रिया ॥ ७ ॥ भगिनी वासुदेवस्य रजनी कलहप्रिया । आवासः सर्वभूतानां निष्ठा च परमा गतिः ॥ ८ ॥ नन्दगोपसुता चैव देवानां विजयावहा । चीरवासाः सुवासाश्च रौद्री सन्ध्या त्वमेव च ॥ ९॥ प्रकीर्णकेशी मृत्युश्च तथा मांसौदनप्रिया । लक्ष्मीरलक्ष्मीरूपेण दानवानां वधाय च ॥ १०॥ सावित्री चापि देवानां माता भूतगणस्य च । अन्तर्वेदी च यज्ञानामृत्विजां चैव दक्षिणा ॥ ११॥ सिद्धिः सांयात्रिकाणां च वेला सागरयायिनाम् । यक्षाणां प्रथमा यक्षी नागानां सुरसेति च ॥ १२॥ कन्यानां ब्रह्मचर्या च सौभाग्यं प्रमदासु च । ब्रह्मवादिन्यथो दीक्षा शोभा च परमा तथा । ज्योतिषां त्वं प्रभा देवि नक्षत्राणां च रोहिणी ॥ १३॥ राजद्वारेषु तीर्थेषु नदीनां सङ्गमेषु च । पूर्णे च पूर्णिमाचन्द्रे कृत्तिवासा इति स्मृता ॥ १४॥ सरस्वती च वाल्मीकेः स्मृतिर्द्वैपायने तथा । सुरदेवी च भूतेषु स्तूयसे त्वं स्वकर्मभिः ॥ १५॥ इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनेति च । ऋषीणां धर्मबुद्धिस्तु देवानामदितिस्तथा ॥ १६॥ कर्षकानां च सीतेति भूतानां धरणीति च । तापसानां च देवी त्वमरणी चाग्निहोत्रिणाम् ॥ १७॥ क्षुधा च सर्वभूतानां तृप्तिस्त्वं च दिवौकसाम् । स्वाहा तुष्टिर्धृतिर्मेधा वसूनां त्वं वसूमती ॥ १८॥ आशा त्वं मानुषाणां तु तुष्टिश्च कृतकर्मणाम् । दिशश्च विदिशश्चैव तथा ह्यग्निशिखा प्रभा ॥ १९॥ शकुनी पूतना च त्वं रेवती च सुदारुणा । निद्रा च सर्वभूतानां मोहनी क्षत्रिया तथा ॥ २०॥ विद्यानां ब्रह्मविद्या त्वमोङ्कारोऽस्थ वषट् तथा । नारीणां पार्वती च त्वं पौराणीमृषयो विदुः ॥ २१॥ अरुन्धत्येकभर्तॄणां प्रजापतिवचो यथा । भेदो विवादशीलानं त्वमिन्द्राणीति विश्रुता । पर्यायनामभिर्दिव्यैरिन्द्राणी चेति विश्रुता ॥ २२॥ त्वया व्याप्तमिदं सर्वं जगत् स्थावरजङ्गमम् । सङ्ग्रामेषु च सर्वेषु अग्निप्रज्वलितेषु च ॥ २३ ॥ नदीतीरेषु घोरेषु कान्तारेषु भयेषु च । प्रवासे राजबन्धे च शत्रूणां च प्रमर्दने ॥ २४ ॥ प्राणात्ययेषु सर्वेषु त्वं हि रक्षा न संशयः । त्वयि मे हृदयं देवि त्वयि बुद्धिर्मनस्त्वयि ॥ २५॥ रक्ष मां सर्वपापेभ्यः प्रसादं च करिष्यसि । इमं देव्याः स्तवं दिव्यमितिहाससमन्वितम् ॥ २६॥ यः पठेत् प्रातरुत्थाय शुचिः प्रयतमानसः । त्रिभिश्च काङ्क्षितं मासैः फलं वै सम्प्रयच्छति ॥ २७ ॥ षड्भिर्मासैर्वरिष्ठं तु वरमेकं प्रयच्छति । षण्मासान् पठते यस्तु काङ्क्षितं च लभेत सः । अर्चिता नवभिर्मासैर्दिव्यं चक्षुः प्रयच्छति ॥ २८ ॥ संवत्सरेण सिद्धिं तु यथाकामं प्रयच्छति । सत्यं च ब्रह्मचर्यं च द्वैपायनवचो यथा ॥ २९ ॥ इति हरिवंशानुबन्धं अन्तर्गतं देवीस्तवं सम्पूर्णम् ॥ From Haivamsha Appendix 8