अक्षर आकार:

देवीसिद्धपीठानि

Devi Siddhapithas from Devi Bhagavatam

देवीसिद्धपीठानि

जनमेजय उवाच - कानि स्थानानि तानि स्युः सिद्धपीठानि चानघ । कति सङ्ख्यानि नामानि कानि तेषां च मे वद ॥ १॥ तत्र स्थितानां देवीनां नामानि च कृपाकर । कृतार्थोऽहं भवे येन तद्वदाशु महामुने ॥ २॥ व्यास उवाच - श‍ृणु राजन्प्रवक्ष्यामि देवेपीठानि साम्प्ततम् । येषां श्रवणमात्रेण पापहीनो भवेन्नरः ॥ ३॥ येषु येषु च पीठेषूपास्येयं सिद्धिकाङ्क्षिभिः । भूतिकामैरभिध्येया तानि वक्ष्यामि तत्त्वतः ॥ ४॥ वाराणस्यां विशालाक्षी गौरीमुखनिवासिनी । क्षेत्रे वै नैमिषारण्ये प्रोक्ता सा लिङ्गधारिणी ॥ ५॥ प्रयागे ललिता प्रोक्ता कामुकी गन्धमादने । मानसे कुमुदा प्रोक्ता दक्षिणे चोत्तरे तथा ॥ ६॥ विश्वकामा भगवती विश्वकामप्रपूरणी । गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥ ७॥ मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे । गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले ॥ ८॥ एकाम्रपीठे सम्प्रोक्ता देवी सा कीर्तिमत्यपि । विश्वे विश्वेश्वरीं प्राहुः पुरुहूतां च पुष्करे ॥ ९॥ केदारपीठे सम्प्रोक्ता देवी सन्मार्गदायिनी । मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥ १०॥ स्थानेश्वरी भवानी तु बिल्वले बिल्वपत्रिका । श्रीशैले माधवी प्रोक्ता भद्रा भद्रेश्वरे तथा ॥ ११॥ वराहशैले तु जया कमला कमलालये । रुद्राणी रुद्रकोट्यां तु काली कालञ्जरे तथा ॥ १२॥ शालग्रामे महादेवी शिवलिङ्गे जलप्रिया । महालिङ्गे तु कपिला माकोटे(मर्कोटे) मुकुटेश्वरी ॥ १३॥ मायापुर्यां कुमारी स्यात्सन्ताने ललिताम्बिका । गंयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥ १४॥ उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला । विपाशायाममोघाक्षी पाडला(पाटला) पुण्ड्रवर्धने ॥ १५॥ नारायणी सुपार्श्वे तु त्रिकुटे रुद्रसुन्दरी । विपुले विपुला देवी कल्याणी मलयाचले ॥ १६॥ सह्याद्रावकवीरा तु हरिश्चन्द्रे तु चन्द्रिका । रमणा रामतीर्थे तु यमुनायां मृगावती ॥ १७॥ कोटवी कोटतीर्थे तु सुगन्धा माधवे वने । गोदावर्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ॥ १८॥ शिवकुण्डे शुभानन्दा नन्दिनी देविकातटे । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ १९॥ देवकी मथुरायां तु पाताले परमेश्वरी । चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥ २०॥ करवीरे महालक्षीरुमा देवी विनायके । आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥ २१॥ अभयेत्युष्णतीर्थेषु नितम्बा विन्ध्यपर्वते । माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरीपुरे ॥ २२॥ छगलण्डे(छागलाण्डे) प्रचण्डा तु चण्डीकामरकण्टके । सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥ २३॥ देवमाता सरस्वत्यां पारावारातटे स्मृता । महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥ २४॥ सिंहिका कृतशौचे तु कार्तिके त्वतिशाङ्करी । उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ॥ २५॥ माता सिद्धवने लक्ष्मीरनङ्गा भरताश्रमे । जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ॥ २६॥ देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले । भीमा देवी हिमाद्रौ तु तुष्टिर्विश्वेश्वरे तथा ॥ २७॥ कपालमोचने शुद्धिर्माता कामावरोहणे । शङ्खोद्धारे धरा (धारा) नाम धृतिः पिण्डारके तथा ॥ २८॥ कला तु चन्द्रभागायामच्छोदे शिवधारिणी । वेणायाममृता नाम बदर्यामुर्वशी तथा ॥ २९॥ औषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका । मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ॥ ३०॥ अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये । गायत्री वेदवदने पार्वती शिवसन्निधौ ॥ ३१॥ देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती । सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥ ३२॥ अरुन्धती सतीनां तु रामासु च तिलोत्तमा । चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥ ३३॥ इमान्यष्टशतानि स्युः पीठानि जनमेजय । तत्सङ्ख्याकायस्तदीशान्यो देव्यश्च परिकीर्तिताः ॥ ३४॥ सतीदेव्यङ्गभूतानि पीठानि कथितानि च । अन्यान्यपि प्रसङ्गेन यानि मुख्यानि भूतले ॥ ३५॥ यः स्मरेच्छृणुयाद्वापि नामाष्टशतमुत्तमम् । सर्वपापविनिर्मुक्तो देवीलोकं परं व्रजेत् ॥ ३६॥ एतेषु सर्वपीठेषु गच्छेद्यात्राविधानतः । सन्तर्पयेच्च पित्रादीञ्छ्राद्धादीनि विधाय च ॥ ३७॥ कुर्याच्च महतीं पूजां भगवत्या विधानतः । क्षमापयेज्जगधात्रीं जगदम्बां मुहुर्मुहुः ॥ ३८॥ कृतकृत्यं स्वमात्मानं जानीयाज्जनमेजय । भक्ष्यभोज्यादिभिः सर्वान्ब्राह्मणान्भोजयेत्ततः ॥ ३९॥ सुवासिनीः कुमारीश्च बटुकादींस्तथा नृप । तस्मिन्क्षेत्रे स्थिता ये तु चाण्डालाद्या अपि प्रभो ॥ ४०॥ देवीरूपाः स्मृताः सर्वे पूजनीयास्ततो हि ते । प्रतिग्रहादिकं सर्वं तेषु क्षेत्रेषु वर्जयेत् ॥ ४१॥ यथाशक्ति पुरश्चर्यां कुर्यान्मन्त्रस्य सत्तमः । मायाबीजेन देवेशीं तत्तत्पीठाधिवासिनीम् ॥ ४२॥ पूजयेदनिशं राजन् पुरश्चरणकृद्भवेत् । वित्तशाठ्यं न कुर्वीत देवीभक्तिपरो नरः ॥ ४३॥ य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानसः । सहस्रकल्पपर्यन्तं ब्रह्मलोके महत्तरे ॥ ४४॥ वसन्ति पितरस्तस्य सोऽपि देवीपुरे तथा । अन्ते(अन्ते) लब्ध्वा परं ज्ञानं भवेन्मुक्तो भवाम्बुधेः ॥ ४५॥ नामाष्टशतजापेन बहवः सिद्धतां गताः । यत्रैतल्लिखितं साक्षात्पुस्तके वापि तिष्ठति ॥ ४६॥ ग्रहमारीभयादीनि तत्र नैव भवन्ति हि । सौभाग्यं वर्धते नित्यं यथा पर्वणि वारिधिः ॥ ४७॥ न तस्य दुर्लभं किञ्चिन्नामाष्टशतजापिनः । कृतकृत्यो भवेन्नूनं देवीभक्तिपरायणः ॥ ४८॥ नमन्ति देवतास्तं वै देवीरूपो हि स स्मृतः । सर्वथा पूज्यन्ते देवैः किं पुनर्मनुजोत्तमैः ॥ ४९॥ श्राद्धकाले पठेदेतन्नामाष्टशतमुत्तमम् । तृप्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् ॥ ५०॥ इमानि मुक्तिक्षेत्राणि साक्षात्संविन्मयानि च । सिद्धपीठानि राजेन्द्र संश्रयेन्मतिमान्नरः ॥ ५१॥ पृष्टं यत्तत्त्वया राजन्नुक्तं सर्वं महेशितुः । रहस्यातिरहस्यं च किं भूयः श्रोतुमिच्छसि ॥ ५२॥ ॥ इति श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे देवीपीठवर्णनं नाम त्रिंशोऽध्यायान्तर्गतं देवीसिद्धपीठानि ॥ ३०