अक्षर आकार:

देवीशतकम्

devIshatakam

देवीशतकम्

श्रीगणेशाय नमः । अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् । या च मातेव भजते प्रणते मानवे दयाम् ॥ १॥ नतापनीतक्लेशायाः सुरारिजनतापनी । न तापनी तनुर्यस्यास्तुल्या नादीनतापनी ॥ २॥ वक्त्रपद्मा विधेर्भान्ति यया सर्गलयो दया । या साक्षाद्या च जनितस्थितिसर्गलयोदया ॥ ३॥ याश्रिता पावनतया यातनाच्छिदनीचया । याचनीया धिया मायायामायासं स्तुता श्रिया ॥ ४॥ नमांसि ध्वंसमायान्ति अस्याः स्तुत्यादरेण वः । तस्याः सिद्ध्यै धियां मातुः कल्पन्तां पादरेणवः ॥ ५॥ ऋषीणां सादयामास या तमांसि त्रयीमयी । पायाद्वः सा दयामाधिच्छिदं जगति बिभ्रती ॥ ६॥ स्मरद्विषा या ययाचे यया चेयं विधेः क्रिया । यां चाच्युतोऽपि तुष्टाव तुष्टा वः साऽस्तु पार्वती ॥ ७॥ या दमावनयागेन स्वाराथा नयसारया । हरिकैतवहास्याय सायामा विजिता यया ॥ ८॥ यायताजिविमया सा यस्या हा बत कैरिह । या रसायनधारा स्वा न गेयानवमा दया ॥ ९॥ सा बुद्धिरुत्तमालोकः सतामार्या पुनातु वः । यद्भक्तेरुत्तमा लोकः प्राप्नोत्येष विशुद्धताम् ॥ १०॥ अयुद्ध साधुत्राणाय सामरा या सहारिणा । खङ्गेन दीप्रा देवानां सामरायासहारिणा ॥ ११॥ चरणाघातनिहतकासरा च रणाजिरे । रराज या नयजयैरराजसजनानता ॥ १२॥ सावताद्वोऽम्बिकाऽभ्यर्च्यनामा न न यशोभितः । तनोति प्रणतो यस्या ना माननयशोभितः ॥ १३॥ संयतं याचमानेन यस्याः प्रापि द्विषा वधः । संयतं या च मानेन युनक्ति प्रणतं जनम् ॥ १४॥ या दमानवमानन्दपदमाननमानदा । दानमानक्षमानित्यधनमानवमानिता ॥ १५॥ सा रक्षतादपारा ते रसकृद्गौरबाधिका । सारक्षतादपारातेरसकृद्गौरवाधिका ॥ १६॥ अनुत्तमोहराशयो भवन्ति यामनाश्रिताः । अनुत्तमो हराशयो यया चिरं च रञ्जितः ॥ १७॥ अनन्तरागतापायास्तारयित्री भवापदः । अनन्तरागतापायाः सा वो गौरी हियात्क्रियाः ॥ १८॥ यामायासजिदासक्तशोकजालस्य पातिनी । या माता सर्वदा भक्तलोकजालस्य पालनी ॥ १९॥ सामरागमनायासं त्यक्त्वा सार्धं सुरारिभिः । सामरा गमनायासन्नुद्यता युधि यद्गणाः ॥ २०॥ सामोदयाजया शातैः शस्त्रैः शत्रौ हते यया । सामोदया जयाशा तैर्गीर्वाणैर्गर्वतो जहे ॥ २१॥ ययायायाय्यया यूयं यो योऽयं येययैय याम् । ययुयायिययेयाय ययेऽयायाय याययुक् ॥ २२॥ साऽव्याद्गौरी सदा युष्मान्सदायुष्मान्समृद्ध्यति । शरणं यां नरो गच्छन्न रोगच्छन्दमेति च ॥ २३॥ कृतास्पदा यथा सम्पदघानि सुरवैरिषु । हन्ति या वाङ्मयी दूरादघानि सुरवैरिषुः ॥ २४॥ जितानया या नताजितारसाततसारता । न सावना नावसानयातनारिरिना तया ॥ २५॥ मनोभवारातिमनोभिरामया जरामयापाकरणैकदक्षया । मदक्षयान्निर्मलतां ददानया सदा नयास्था क्रियतां तवार्यया ॥ २६॥ समाययाविन्द्रहिताय या रणे समायया या न जितारिसेनया । स मा ययाचे हरमाश्रितः स्फुटं समा यया मुग्धतया मनोज्ञताः ॥ २७॥ सा भावक्षालवर्या नुतविभवितनुर्या वलक्षावभासा जानानस्याशयप्रा नवनलिनवनप्रायशस्याननाजा । सातं वर्माननस्था रहसि रसिहरस्थाननर्मावतंसा पायादक्ता रणत्रा मतनमनतमत्राणरक्ता दयापा ॥ २८॥ उपासते कृष्टिकृतोदयां यां जना सदाराधनमीहमानाः । शम्भोः प्रसिद्धा तनुतां वहन्ती गौरी हितं सा भवतां विधेयात् ॥ २९॥ यां सद्य एव त्रिदशैः पुमांसः समा नमस्यन्ति सदानभोगाः । अघानि यस्य प्रणता विपक्षैः समानमस्यन्ति सदा नभोगाः ॥ ३०॥ यस्याः प्रभावो द्युसदां विपक्षसेना वधानन्दयिताहरस्य । मनोम्बुजस्यावहतु श्रियै वः सेनावधानं दयिता हरस्य ॥ ३१॥ सुरा जिता भावितदेवराजद्विपक्षमा यात रणादभीतम् । स्वापं न वो धाम हितं न नाम सदैवसेना भवतोहितानाम् ॥ ३२॥ सुराजिता भावितदेवराजद्विपक्षमाया तरणादभीतम् । स्वापन्नबोधामहितं ननाम सदैव सेना भवतो हितानाम् ॥ ३३॥ सुरानिति द्वेषिजनैरभिद्रुतानुदाहरद्या स्वयमाहवोद्यता । शिवोऽद्य तापप्रशमस्तया तव प्रशस्तया तत्त्वदृशा विधीयताम् ॥ ३४॥ वक्रं बिभ्रत्युपहितचन्द्रायासं या संमोहप्रशमनसूर्याकारा । कारानीतामरमरिमाचिक्षेप क्षेपत्यक्ता रणभुवि सा वः पायात् ॥ ३५॥ हिते हितेऽस्तु ते स्तुते जिताजितामितामिता । जयाजया जनोऽजनो यया ययावलं बलम् ॥ ३६॥ सक्तिं वः सुकृतार्जने विदधती सत्रां यतां त्रायतां दुर्गा दुर्ग्रहदूषितोद्धतधियामायासदा या सदा । साधूत्साहविधानसक्तमनसां मुख्या ततो ख्याततां संस्मृत्यैव - - - मत्सरभरस्फीतापदां तापदाम् ॥ ३७॥ या मूर्तिं किमपि स्मरारिवपुषा धत्ते समायोजितां यां दृष्ट्वैव विनाशमाप सहसा शुम्भः समायोऽजिताम् । या नम्रैः सुरसिद्धिकिं‍नरनरैः खेदं विना शस्यते सा हेतुर्भवतां त्रिलोचनवधूरश्रीविनाशस्य ते ॥ ३८॥ सायासायास्त्रिलोक्याः शरणमकरुणक्षुण्णदैत्यप्रवीरा स्वैरं स्वैरंशसर्गैर्गहनतममहामोहहार्दं हरन्ती । शस्याशस्यादधाना सकलमभिहितं भक्तिभाजः स्मृतैव स्तादस्तादभ्रदोषा द्विषदुपशमनी सर्वतः पार्वती वः ॥ ३९॥ सुरसुरचितचितनवनवभवभवनानादरादरायेथे । लयलयचरणौ चरणौ न न मामि नतेन नमामि न ते ॥ ४०॥ या विस्मयं स्मरभिदा चक्रेऽङ्कारोपिता नवं नारीणाम् । विदधे यच्चापस्य न च क्रेङ्कारोऽपि तानवं नारीणाम् ॥ ४१॥ या हन्तां च प्रयाता विहाथसा कंसमाह तारातिबलेन । कृष्णस्तव परमाया विहाय साकं समाहतारातिबलेन ॥ ४२॥ तां नमत या च समरेष्वनेकशो भाति भद्रकाली नतया । ख्याति यया जनतोज्ज्वलविवेकशोभातिभद्राकालीनतया ॥ ४३॥ तां स्मरत था स्मृतैव हि मानवतामरसमानता राति बलात् । यत्प्रणतं श्रीः श्रयते मानवतामरसमान ताराति बलात् ॥ ४४॥ अनवरागसमुद्भवदेहतामुपगता ददृशे गिरिशेन या । अनवरागसमुद्भवदेह तामवनतोऽस्मि जगात्प्रियतां सतीम् ॥ ४५॥ मेने नूनमनेन माननमुमानाम्ना नु मेनोन्मना नुन्नेनोनमने निमानममुना नो नाम नानानुमे । मौनेनामममाननिम्नमननान्नानामिनानूनिमे सुन्मिन्नाननमा नमी मुनिमनोमानाननोन्नामिनि ॥ ४६॥ तां वन्देऽहं नवं देहं ज्ञानरूपं विधाय या । सुघीरस्यति धीरस्य महामोहमयीं त्वचम् ॥ ४७॥ यां नुत्वा यान्ति हृद्यार्थसज्जायां गिरि शस्यताम् । नौम्यहं भक्तिमास्थाय सज्जायां गिरिशस्य ताम् ॥ ४८॥ यदानतोऽयदानतो न यात्ययं नयात्ययम् । शिवे हितां शिवेहितां स्मरामितां स्मरामि ताम् ॥ ४९॥ सरस्वतिप्रसादं मे स्थिति चित्तसरस्वति । सरस्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥ ५०॥ त्वद्भक्तिभावितधियो जगतामत्र ये त्रये । जन्मवत्तामहं मन्ये तेषामेवानृणां नृणाम् ॥ ५१॥ जगतः सातिरेका त्वं गतिरस्य स्थिराधिका । तरस्यत्रासतारारेः सास्यत्रासरसस्थिति ॥ ५२॥ त्वन्नामस्मरणादेव न लक्ष्मीश्चपलायते । सर्वतः पार्वति क्षिप्रमलक्ष्मीश्च पलायते ॥ ५३॥ जयन्ति भक्ता वित्तेशसमरायस्तबाहवे । तुभ्यन्नमस्त्रिलोक्यर्थसमरायस्तबाहवे ॥ ५४॥ सत्त्वं सम्यक्त्वमुन्मील्य हृदि भासि विराजसे । द्विषामरीणा त्वं सेनां वाहिनीमुदकम्पयः ॥ ५५॥ दूरागतरसा धन्यः सेवतेयस्तव स्तुतीः । दूरागत रसाधन्यः कल्पन्ते तस्य सिद्धयः ॥ ५६॥ मोहं हत्वास्पदं यासि सात्त्वमम्बरवासिना । या न संस्तूयसे केन सा त्वम्बरवसिना ॥ ५७॥ प्रकाश्य गृह्यपुंसस्यखेदच्छेदाम्बुदावली । प्रज्ञात्मनेनविमला स्मिता दृश्यसि विद्वताम् ॥ ५८॥ भवानि ये निरन्तरं तव प्रणामलालसाः । मनस्तमोमलालसा भवन्ति नैय तु क्वचित् ॥ ५९॥ विभावनाकुला त्वयि क्रमेण देवि भावना । वपुष्पतिस्थिरेतरे नितान्तमेव पुष्यति ॥ ६०॥ महोऽदयानामवधी रणेन महोदयानामवधीरणेन । महोदयानामव धीरणेजमहोदयानामवधीरणेन ॥ ६१॥ न मज्जनेन तीर्थानां तदिह प्राप्यते शुभम् । नमज्जनेन तीर्थानां सेवया यत्तवाम्बिके ॥ ६२॥ प्रयाति मोहे निःसारभारतीव्रतमेत्ययम् । त्वात्प्रासादाज्जनः सारभारतीव्रतमेत्ययम् ॥ ६३॥ शास्त्रप्रभावहसिताः सतां या निर्मला गिरः । शास्त्रप्रभावहसितास्त्वमम्बतिमिरच्छिदः ॥ ६४॥ शमीह ते समानतो विभावितोऽत्रसन्न यः । विभावितोऽत्र सन्नयः शमीहते स मानतः ॥ ६५॥ मातरं त्वा पदं सद्य आश्रितास्ते कथं जनाः । मा तरन्त्वापदं सद्य आद्यं श्रेयः समाश्रिताः ॥ ६६॥ भाति त्वत्तनुसंश्लेषे सत्यम्ब वपुरनुत्तरम् । संसाराब्धौ सदाहुस्ते सत्यं वपुरनुत्तरम् ॥ ६७॥ यच्छ मे नित्यसंसङ्गि यच्छमे तदिदं मनः । स्वच्छलो भक्तियोगस्ते स्वच्छलोकविवेकसूः ॥ ६८॥ के वलन्ते वितन्वन्तकृतस्त्वत्प्रणता भवे । केवलं ते वितन्वन्त आसते विमलां धियम् ॥ ६९॥ देवि निर्दग्धकामस्य त्वं निरावरणात्मनः । हरस्य शुभसन्तानं तेनासौ भ्राजते तथा ॥ ७०॥ द्विषद्भिया सपदि विमुच्यते यतस्तवानतो जननि जयाशया न कः । स्तवानतो जननिजया शयानकः करोति ते युधि मधुसूदनस्वसः ॥ ७१॥ ज्यायोनिष्ठारिवर्याधिनियमनवरस्वैरदत्तायताज्ञा स्वाराधत्वासमध्यानियजनजननि ज्ञेयसुस्थावभासा । नानापुण्यागमस्था जननमनमयज्ञाननन्द्या वरा धी- र्याता नव्या विभुत्वं नुतसरलमनस्तामसस्यावहास्ये ॥ ७२॥ स्येहाव स्या समस्तानमलरसतनु त्वं भुवि व्यानतार्या धीरा वन्द्या न न ज्ञा यमनमननजस्थामगण्या पुनाना । सा भावस्था सुयज्ञेऽनिनजनजयनि ध्यामसत्त्वाधरास्वा ज्ञातायत्तादरस्वैरवनमनिधिर्या वरिष्ठानियोज्या ॥ ७३॥ अलोलकमले चित्तललामकमलालये । पाहि चण्डि महामोहभङ्गभीमबलामले ॥ ७४॥ दुर्गापि मातः सुलभासि भक्त्या भवानुकूलापि भवं क्षिणोषि । अध्येयतां यासि सदैव देवि ध्येयासि चित्रं चरितं तवैतत् ॥ ७५॥ महदेसुरसन्धम्मे तमवसमासङ्गमागमाहरणे । हरबहुसरणं तं चित्तमोहमवसर उमे सहसा ॥ ७६॥ वन्द्या प्रभातसन्ध्येव सूर्यालोकप्रवर्तिनी । निवर्तयसि देवि त्वं महामोहमयीं निशाम् ॥ ७७॥ संवादिसारसम्पत्तीसदागोरिजयेसुदे । तवसत्तीरदे सन्तु संसारे सुसमानदे ॥ ७८॥ आगममणिसुदमहिमसमसंमदकृदपरजस्सु । किर सविभयवदितो समय उज्जलभावसहस्सु ॥ ७९॥ त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः । तवादेशास्त्रसंस्काराज्जयन्ति वरदे द्विषः ॥ ८०॥ सदाव्याजवशिध्याताः सदात्तजपशिक्षिताः । ददास्यजस्रं शिवताः सूदात्ताजदिशि स्थिताः ॥ ८१॥ हरेः स्वसारं देवि त्वा जनताश्रित्य तत्त्वतः । वेत्ति स्वसारं देवित्वा योगेन क्षपिताशुभा ॥ ८२॥ सदाप्नोति यतिर्ज्योतिस्तादृशं स्वत्प्रभावतः । प्रभावतः समो येन कल्पते मोहनुत्तितः ॥ ८३॥ त्वं सद्गतिः सितापारा परा विद्योत्तितीर्षतः । संसारादत्र चाम्ब त्वं सत्त्वं पासि विपत्तितः ॥ ८४॥ परमा या तपोवृत्तिरार्यायास्तं स्मृतिं जनाः । परमायात पोषाय धियां शरणमादृताः ॥ ८५॥ प्रवादिमतभेदेषु दृश्यस्ते महिमाश्रयः । भान्ति त्वत्त्रिशिखस्येव शिखानामसमाश्रयः ॥ ८६॥ यच्चेष्टया तव स्फीतमुदारवसु धामतः । यच्चेतो यात्यवहितमुदा रवसुधामतः ॥ ८७॥ सुरदेशस्य ते कीर्तिं मण्डनत्वं नयन्ति यैः । वरदे शस्यते धीरैर्भवती भुवि देवता ॥ ८८॥ तत्त्वं वीतावतततुत्तत्वं ततवती ततः । वित्तं वित्तव वित्तत्वं वीतावीतवतां बत ॥ ८९॥ तारे शरणमुद्यन्ती सुरेशरणमुद्यमैः । त्वं दोषापासिनोदग्रस्वदोषा पासि नोदने ॥ ९०॥ सुमातरक्षयालोक रक्षयात्तमहामनाः । त्वं धैर्यजननी पासि जननीतिगुणस्थितीः ॥ ९१॥ ख्यातिकल्पनदक्षैका त्वं सामर्ग्यजुषामितः । सदा सरक्षसांमुख्यदानवानामसुस्थितिः ॥ ९२॥ सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः । ततास्तितैत्ति तस्तेति सूतिः सूतिस्ततोऽसि सा ॥ ९३॥ त्वदाज्ञया जगत्सर्वं भासितं मलनुद्यतः । सदा त्वया सगन्धर्वं समिद्धमरिनुत्तितः ॥ ९४॥ यतो याति ततोऽत्येति यया तां तायतां यतैः । मातामितोत्तमतमा तमोतीतां मतिं मम ॥ ९५॥ महत्तां त्वं श्रिता दासजनं मोहच्छिदा वस । यच्छद्धत्वं गतः पापमन्यस्य प्रसभं जय ॥ ९६॥ त्वां साज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु । प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥ ९७॥ आज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु प्रज्ञा । भासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ॥ ९८॥ हन्त्र्यो रुषः क्षमा एता सन्दक्षोभास्तमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ॥ ९९॥ करोषि तात्स्त्वमुत्खातमोहस्थाने स्थिरा मतीः । पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥ १००॥ देव्या स्वप्नोद्गमादिष्टदेवीशतकसंज्ञया । देशितानुपमामाधादतो नोणसुतो नुतिम् ॥ १०१॥ हार्दध्वान्तनियन्तृभास्वरवपुः स्वर्वासिनां सर्वतो दुर्वारारिपरिक्षयं विदधती ध्यातैव लर्वाणसूः । देहार्धे निहिता भवेन भुवनत्राणैकतानात्मना देवि त्वं त्वमिवापरा जगति का सत्केसरीन्द्रस्थितिः ॥ १०२॥ क्लेशोन्माथकरी सतां भवहरानन्दैकहेतो गुरु- र्माता त्वं जगतां भवन्ति विधवाः सर्वे तवानुग्रहात् । दुर्गे न क्वचिदेव सीदति जनस्त्वद्भक्तिपूताशयः स्तुत्या भर्तुरभिन्नयेति विबुधैस्त्वं स्तूयसे श्रीरिव ॥ १०३॥ येनानन्दकथायां त्रिदशानन्दे च लालिता वाणी । तेन सुदुष्करमेतत्स्तोत्रं देव्याः कृतं भक्त्या ॥ १०४॥ इति श्रीमदानन्दवर्धनाचार्यविरचितं देवीशतकं सम्पूर्णम् ॥