अक्षर आकार:

देवीपञ्चरत्नस्तुती

devIpancharatnastutiH

देवीपञ्चरत्नस्तुती

जंभाराति-मुखादितेय-परिषत्संभाव्यमाना सदा कुंभाकार-पयोधराद्रितनया शुम्भासुर-द्वेषिणी । रम्भाभोरुमती सुधानिभ-वचोगुम्भावहा पज्जुषां शं भामा त्रिपुरद्विषो वितनुयाद्दम्भापहा दुर्हृताम् ॥ १॥ जम्भरिपु-नीलरुचिदृग्जनितमारा कुम्भमदलोपकृदुरोजयुगभारा । शुम्भमुख-देवरिपु-बृन्दजयितसारा गुम्पयितु मे गिरमुमा विधृतकीरा ॥ २॥ शम्बरसपत्नरिपवे कलितमोदे बिम्बनिभ-दन्तपटि धूतनत-खेदे । अम्ब धिषणां वितर दैत्यकुल-भीदे शम्बधरमुख्य-सुरबृन्द-नुतपादे ॥ ३॥ पूरित-पदाब्ज-नतिकृन्नखिल-कामा दारित-निशाचरकुलाऽघहरनामा । ईरितगुणा श्रुतिभिरद्रिशयभामा सारिततिमर्दयतु मौलिधृत-सोमा ॥ ४॥ कज्जल-कनक-हिमरुचः पत्युर्वामाङ्क-हृदय-वदन-स्थाः । बल-धन-विद्या-दात्रीः दुर्गा-लक्ष्मी-सरस्वतीर्वन्दे ॥ ५॥ पञ्चरत्नाभिधा सेयं पञ्चास्य-प्रेयसी-स्तुतिः । श्रीरामशर्म-कलिता प्रीयतां पार्वती ततः ॥ ६॥ ॥ देवी पञ्चरत्नस्तुतिः समाप्त ॥