अक्षर आकार:

श्रीदेवीपूजाविधानम्

shrIdevIpUjAvidhAnam

श्रीदेवीपूजाविधानम्

तत्रादौ राधिकामन्त्रं श‍ृणु नारद भक्तितः ॥ ब्रह्मविष्ण्वादिभिर्नित्यं सेवितो यः परात्परः । श्रीराधेति चतुर्थ्यन्तं वह्नेर्जाया ततः परम् ॥ १॥ षडक्षरो महामन्त्रो धर्माद्यर्थप्रकाशकः । मायाबीजादिकश्चायं वाञ्छाचिन्तामणिः स्मृतः ॥ २॥ वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि । एतन्मन्त्रस्य माहात्म्यं वर्णितुं नैव शक्यते ॥ ३॥ जग्राह प्रथमं मन्त्रं श्रीकृष्णो भक्तितत्परः । उपदेशान्मूलदेव्या गोलोके रासमण्डले ॥ ४॥ विष्णुस्तेनोपदिष्टस्तु तेन ब्रह्मा विराट् तथा । तेन धर्मस्तेन चाहमित्येषा हि परम्परा ॥ ५॥ अहं जपामि तं मन्त्रं तेनाहमृषिरीडितः । ब्रह्माद्याः सकला देवा नित्यं ध्यायन्ति तां मुदा ॥ ६॥ कृष्णार्चायां नाधिकारो यतो राधार्चनं विना । वैष्णवैः सकलैस्तस्मात्कर्तव्यं राधिकार्चनम् ॥ ७॥ कृष्णप्राणाधिदेवी सा तदधीनो विभुर्यतः । रासेश्वरी तस्य नित्यं तया हीनो न तिष्ठति ॥ ८॥ राध्नोति सकलात्कामांस्तस्माद्राधेति कीर्तिता । अत्रोक्तानां मनूनां च ऋषिरस्याहमेव च ॥ ९॥ छन्दश्च देवी गायत्री देवतात्र च राधिका । तारो बीजं शक्तिबीजं शक्तिस्तु परिकीर्तिता ॥ १०॥ मूलावृत्या षडङ्गानि कर्तव्यानीतरत्र च । अथ ध्यायेन्महादेवीं राधिकां रासनायिकाम् ॥ ११॥ पूर्वोक्तरीत्या तु मुने सामवेदे विगीतया । श्वेतचम्पकवर्णाभां शरदिन्दुसमाननाम् ॥ १२॥ कोटिचन्द्रप्रतीकाशां शरदम्भोजलोचनाम् । बिम्बाधरां पृथुश्रोणीं काञ्चीयुतनितम्बिनीम् ॥ १३॥ कुन्दपङ्क्तिसमानाभदन्तपङ्क्तिविराजिताम् । क्षौमाम्बरपरीधानां वह्निशुद्धांशुकान्विताम् ॥ १४॥ ईषद्धास्यप्रसन्नास्यां करिकुम्भयुगस्तनीम् । सदा द्वादशवर्षीयां रत्नभुषणभूषिताम् ॥ १५॥ श‍ृङ्गारसिन्धुलहरीं भक्तानुग्रहकातराम् । मल्लिकामालतीमालाकेशपाशविराजिताम् ॥ १६॥ सुकुमाराङ्गलतिकां रासमण्डलमध्यागाम् । वराभयकरां शान्तां शश्वत्सुस्थिरयौवनाम् ॥ १७॥ रत्नसिंहासनासीनां गोपीमण्डलनायिकाम् । कृष्णप्राणाधिकां वेदबोधितां परमेश्वरीम् ॥ १८॥ एवं ध्यात्वा ततो बाह्ये शालग्रामे घटेऽथवा । यन्त्रे वाऽष्टदले देवीं पूजयेत्तु विधानतः ॥ १९॥ आवाह्य देवीं तत्पश्चादासनादि प्रदीयताम् । मूलमन्त्रं समुच्चार्य चासनादीनि कल्पयेत् ॥ २०॥ पाद्यं तु पादयोर्दद्यान्मस्तकेऽर्घ्यं समीरितम् । मुखे त्वाचमनीयं स्यात्त्रिवारं मूलविद्यया ॥ २१॥ मधुपर्कं ततो दद्यादेकां गां च पयस्विनीम् । ततो नयेत्स्नानशालां तां च तत्रैव भावयेत् ॥ २२॥ अभ्यङ्गादिस्नानविधिं कल्पयित्वाथ वाससी । ततश्च चन्दनं दद्यान्नानालङ्कारपूर्वकम् ॥ २३॥ पुष्पमाला बहुविधास्तुलसीमञ्जरीयुताः । पारिजातप्रसूनानि शतपत्रादिकानि च ॥ २४॥ ततः कुर्यात्पवित्रं तत्परिवारार्चनं विभोः । अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् ॥ २५॥ कृत्वा पश्चादष्टदले दक्षिणावर्ततोऽग्रतः । मालावतीमग्रदले वह्निकोणे च माधवीम् ॥ २६॥ रत्नमालां दक्षिणे च नैरृत्ये तु सुशीलकाम् । पश्चाद्दले शशिकलां पूजयेन्मतिमान्नरः ॥ २७॥ मारुते पारिजातां चाप्युत्तरे च परावतीम् । ईशानकोणे सम्पूज्या सुन्दरी प्रियकारिणी ॥ २८॥ ब्राह्म्यादयस्तु तद्बाह्येऽप्याशापालांस्तु भूपुरे । वज्रादिकान्यायुधानि देवीमित्थं प्रपूजयेत् ॥ २९॥ ततो देवीं सावरणां गन्धाद्यैरूपचारकैः । राजोपचारसहितैः पूजयेन्मतिमान्नरः ॥ ३०॥ ततः स्तुवीत देवेशीं स्तोत्रैर्नामसहस्रकैः । सहस्रसङ्ख्यं च जपं नित्यं कुर्यात्प्रयत्नतः ॥ ३१॥ य एवं पूजयेद्देवीं राधां रासेश्वरीं पराम् । स भवेद्विष्णुतुल्यस्तु गोलोकं याति सन्ततम् ॥ ३२॥ यः कार्तिक्यां पौर्णमास्यां राधाजन्मोत्सवं बुधः । कुरुते तस्य सान्निध्यं दद्याद्रासेश्वरी परा ॥ ३३॥ केनचित्कारणेनैव राधा वृन्दावने वने । वृषभानुसुता जाता गोलोकस्थायिनी सदा ॥ ३४॥ अत्रोक्तानां तु मन्त्राणां वर्णसङ्ख्याविधानतः । पुरश्चरणकर्मोक्तं दशांशं होममाचरेत् ॥ ३५॥ तिलैस्त्रिस्वादुसंयुक्तैर्जुहुयाद्भक्तिभावतः । नारद उवाच स्तोत्रं वद मुने सम्यग्येन देवी प्रसीदति ॥ ३६॥ श्रीनारायण उवाच नमस्ते परमेशानि रासमण्डलवासिनि । रासेश्वरि नमस्तेऽस्तु कृष्णप्राणाधिकप्रिये ॥ ३७॥ नमस्त्रैलोक्यजननि प्रसीद करुणार्णवे । ब्रह्मविष्ण्वादिभिर्देवैर्वन्द्यमानपदाम्बुजे ॥ ३८॥ नमः सरस्वतीरूपे नमः सावित्रि शङ्करि । गङ्गापद्मावतीरूपे षष्ठि मङ्गलचण्डिके ॥ ३९॥ नमस्ते तुलसीरूपे नमो लक्ष्मीस्वरूपिणि । नमो दुर्गे भगवति नमस्ते सर्वरूपिणि ॥ ४०॥ मूलप्रकृतिरूपां त्वां भजामः करुणार्णवाम् । संसारसागरादस्मानुद्धराम्ब दयां कुरु ॥ ४१॥ इदं स्तोत्रं त्रिसन्ध्यं यः पठेद्राधां स्मरन्नरः । न तस्य दुर्लभं किञ्चित्कदाचिच्च भविष्यति ॥ ४२॥ देहान्ते च वसेन्नित्यं गोलोके रासमण्डले । इदं रहस्यं परमं न चाख्येयं तु कस्यचित् ॥ ४३॥ इति श्रीदेवीभागवते नवमस्कन्धे पञ्चाशत्तमेऽध्याये देवी पूजाविधानं समाप्तम् ॥ From kalyANamanjarI, dvitIya bhAgaH rAdhAkalyaNam saNgrahItaM rA. dattagopAlakRRiShNaH, svarNaprakAshanam