अक्षर आकार:

श्रीदेवीनवरत्नमालिकास्तोत्रम्

Shri Devinavaratnamalikastotram

श्रीदेवीनवरत्नमालिकास्तोत्रम्

बालायाश्चरणद्वन्द्वमाश्रयेऽभीष्टसिद्धये । लोलायाः कुमुदानन्दबालचुम्बितमस्तके ॥ १॥ बालाम्बिकां नौमि पिनाकपाणेर्वामार्थरूपां परमार्थदात्रीम् । संसारपाथोनिधिपारमाशु नतान्नयन्तीं नवभानुरूपाम् ॥ २॥ मूकोऽपि काव्यं प्रकरोति यस्याः कारुण्यतश्चित्रपदार्थरम्यम् । सा मे प्रसीदत्वगराजकन्या मान्या सुराणां कवितावदान्या ॥ ३॥ कम्बुकण्ठि करुणामृतराशे शङ्खधृङ्मुखसुराग्र्यनिषेव्ये । अम्बुजप्रतिमकेशसमूहे शम्बरार्यहितकामिनि पाहि ॥ ४॥ यशःपूगदात्रीं तमःपारदात्रीं रहःपूजनेष्टां तपःपूर्णचित्ताम् । गिरीन्द्रस्य पुत्रीं जवात्कालहन्त्रीं नमस्यामि कारुण्यपूर्णेक्षणां त्वाम् ॥ ५॥ विध्यण्डमण्डलविनिर्मितिदक्षलीलां विध्वर्भकप्रविलसन्मकुटैकलोलाम् । शुभ्राभ्रदुग्धपरिहाससमर्थचेलां शुद्धान्तरङ्गविदितां प्रणतोऽस्मि बालाम् ॥ ६॥ मातर्बाधिर्यमूकीभवनमुखमहारोगसम्पीडिताङ्गा भूताविष्टाश्च तत्तत्प्रशमनमचिरात्काङ्क्षमाणाः सुदूरात् । आगत्याश्वेव तत्तत्प्रशमनपटुतां मन्यमाना जनेऽस्मि- न्याचन्ते किं प्रकुर्यां वद तुहिनगिरीशानपुत्रीन्दुमौले ॥ ७॥ भक्तानामतिशीघ्रमिष्टफलदां सक्तां गिरीशे मुदा मुक्ताहारविभूषितस्तनयुगां त्यक्ताभिलाषैर्नुताम् । शक्तां कौतुकतः प्रपञ्चजनने रक्ताम्बरां भावये सिक्तां कुम्भिकराग्रकुम्भसलिलैर्युक्तां गजास्यादिभिः ॥ ८॥ कल्याणानि करोतु कापि तरुणी कामारिसम्मोहिनी कल्याणाचलमध्यश‍ृङ्गवसतिः कल्या प्रणम्रावने । प्रालेयाचलवर्यमात्मजननस्याधारमातन्वतीं नैजान्तःकरणार्द्रतां प्रणमतां प्रख्यापयत्याशु या ॥ ९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीदेवीनवरत्नमालिकास्तोत्रं सम्पूर्णम् ।