अक्षर आकार:

श्रीदेवी मङ्गलाष्टकम्

Shridevi Mangalashtakam

श्रीदेवी मङ्गलाष्टकम्

श्रीविद्या शिवनामभागनिलया कामेश्वरी सुन्दरी सूक्ष्मस्थूलदशाविशेषितजगद्रूपेण विद्योतिनी । स्वांशीभूतसमस्तभूतहृदयाकाशस्वरूपा शिवा लोकातीत मदाश्रया शिवसती कुर्यात्सदा मङ्गलम् ॥ १॥ दुर्गा भर्गमनोहरा सुरनरैः संसेव्यमाना सदा दैत्यानां सुविनाशिनी च महतां साक्षात् फलादायिनी । स्वप्ने दर्शनदायिनी परमुदं सन्धायिनी शाङ्करी पापघ्नी शुभकारिणी सुमुदिता कुर्यात्सदा मङ्गलम् ॥ २॥ बाला बालार्कवर्णाढ्या सौवर्णाम्बरधारिणी । चण्डिका लोककल्याणी कुर्यान्मे मङ्गलं सदा ॥ ३॥ कालिका भीकराकारा कलिदोषनिवारिणी । काम्यप्रदायिनी शैवी कुर्यान्मे मङ्गलं सदा ॥ ४॥ हिमवत्पुत्रिका गौरी कैलासाद्रिविहारिणी । पार्वती शिववामाङ्गी कुर्यान्मे मङ्गलं सदा ॥ ५॥ वाणी वीणागानलोला विधिपत्नी स्मितानना । ज्ञानमुद्राङ्कितकरा कुर्यान्मे मङ्गलं सदा ॥ ६॥ महालक्ष्मी प्रसन्नास्या धनधान्यविवर्धिनी । वैष्णवी पद्मजा देवी कुर्यान्मे मङ्गलं सदा ॥ ७॥ शम्भुप्रिया चन्द्ररेखा संशोभितललाटका । नानारूपधरा चैका कुर्यान्मे मङ्गलं सदा ॥ ८॥ मङ्गलाष्टकमेतद्धि पठतां श‍ृण्वतां सदा । दद्याद्देवी शुभं शीघ्रमायुरारोग्यभाग्यकम् ॥ ९॥ इति श्रीदेवी मङ्गलाष्टकं सम्पूर्णम् ।