अक्षर आकार:

देवीगीतिशतकम्

devIgItishatakam

देवीगीतिशतकम्

श्रीगणेशाय नमः ॥ किं देवैः किं जीवैः किं भावैस्तेऽपि येन जीवन्ति । तव चरणं शरणं मे दरहणं देवि कान्तिमत्यम्ब ॥ १॥ अरुणाम्बुदनिभकान्ते करुणारसपूरपूर्णनेत्रान्ते । शरणं भव शशिबिम्बद्युतिमुखि जगदम्ब कान्तिमत्यम्ब ॥ २॥ कलिहरणं भवतरणं शुभभरणं ज्ञानसम्पदां करणम् । नतशरणं तव चरणं करोतु मे देवि कान्तिमत्यम्ब ॥ ३॥ अमितां समतां मम तां तनु तां तनुतां गतां पदाब्जं ते । कृपया विदितो विहितो यया तवाहं हि कान्तिमत्यम्ब ॥ ४॥ मम चरितं विदितं चेदुदयेन्न दया कदापि ते सत्यम् । तदपि वदाम्ययि कुरु तां निर्हेतुकमाशु कान्तिमत्यम्ब ॥ ५॥ न बुधत्वं न विधुत्वं न विधित्वं नौमि किं तु भृङ्गत्वम् । असकृत्प्रणम्य याचे त्वच्चरणाब्जस्य कान्तिमत्यम्ब ॥ ६॥ अभजमहं किं सारे कंसारे वीपदेऽपि संसारे । रुचिमत्तां शुचिमत्तामहह त्वं पाहि कान्तिमत्यम्ब ॥ ७॥ मामसकृदप्रसादाद्दुष्कृतकारीति माऽवमन्यस्व । स्मर किं न मया सुकृतं वर्धितमिदमद्य कान्तिमत्यम्ब ॥ ८॥ करुणाविषयं यदि मां न तनोषि यथा तथापि वर्तेऽहम् । भवति कृपालुत्वं ते सीदामि मृषेति कान्तिमत्यम्ब ॥ ९॥ अतुलितभवानुरागिणि दुर्वर्णाचलविहारिणि मयि त्वम् । समतेर्ष्यया प्रसादं न विधत्से किं नु कान्तिमत्यम्ब ॥ १०॥ द्यां गां वाभ्यपतं यदि जीवातुस्त्वामृतेऽन्ततः को मे । हित्वा पयोदपङ्क्तिं स्तोकस्य गतिः क्व कान्तिमत्यम्ब ॥ ११॥ कं वा कटाक्षलक्ष्यं न करोष्येवं मयि त्वमासीः किम् । किं त्वामुपालभेऽहं विधिर्गरीयान् हि कान्तिमत्यम्ब ॥ १२॥ तनुजे जननी जनयत्यहितेऽपि प्रेम हीति तन्मिथ्या । यदुपेक्षसे त्रिलोकीं मातर्मां देवि कान्तिमत्यम्ब ॥ १३॥ निन्दामि साधुवर्गं स्तौमि पुनः क्षीणषड्गसंसर्गम् । वन्दे किं ते चरणे किं स्यात्प्रीतिस्तु कान्तिमत्यम्ब ॥ १४॥ गीर्वाणवृन्दजिह्वारसायनस्वीयमाननीयगुणे । निगमान्तपञ्जरान्तरमरालिके पाहि कान्तिमत्यम्ब ॥ १५॥ त्रिनयनकान्ते शान्ते तान्ते स्वान्ते ममास्तु वद दान्ते । कृपया मुनिजनचिन्तितचरणे निवसाद्य कान्तिमत्यम्ब ॥ १६॥ धुतकदने कृतमदने भृशमदने योगिशर्वभक्तानाम् । मणिसदने शुभरदने शशिवदने पाहि कान्तिमत्यम्ब ॥ १७॥ गिरितनुजे हतदनुजे वरमनुजेद्धाभिधे च हर्यनुजे । गुहतनुजेऽवितमनुजे कुरु करुणां देवि कान्तिमत्यम्ब ॥ १८॥ गजगमने रिपुदमने हरकमने कॢप्तपापकृच्छमने । कलिजनने मयि दयया प्रसीद हे देवि कान्तिमत्यम्ब ॥ १९॥ यन्मानसे पदाब्जं तव संविद्भास्वदाभयाऽऽभाति । तत्पाददासदासकदासत्वं नौमि कान्तिमत्यम्ब ॥ २०॥ दुष्करदुष्कृतराशेर्न बिभेमि शिवे यदि प्रसादस्ते । दलने दृषदां टङ्कः कल्पेत न किं नु कान्तिमत्यम्ब ॥ २१॥ कोमलदेहं किमपि श्यामलशोभं शरन्मृगाङ्कमुखम् । रूपं तव हृदये मम दीपश्रियमेतु कान्तिमत्यम्ब ॥ २२॥ किञ्चनवञ्चनदक्षं पञ्चशरारेः प्रपञ्चजीवातुम् । चञ्चलमञ्चलमक्ष्णोरयि मयि कुरु देवि कान्तिमत्यम्ब ॥ २३॥ अञ्चति यं त्वदपाङ्गः किञ्चित्तस्यैव कुम्भदासत्वे । अहमहमिकया विबुधाः कलहं कलयन्ति कान्तिमत्यम्ब ॥ २४॥ किमिदं वदाद्भुतं ते कस्मिंश्चिल्लक्षिते कटाक्षेण । बृंहादीनां हृदयं दीनत्वं याति कान्तिमत्यम्ब ॥ २५॥ प्रायो रायोपचिते मायोपायोल्बणासुरक्षपणे । गेयो जायोरुबले श्रेयो भूयोऽस्तु कान्तिमत्यम्ब ॥ २६॥ करणं शरणं तव लसदलकं कुलकं गिरीशभाग्यानाम् । सरलं विरलं जयति सकरुणं तरुणां हि कान्तिमत्यम्ब ॥ २७॥ शङ्करि नमांसि वाणी किङ्करि दैतेयराड्भयङ्करि ते । करवै मुरवैर्यनुजे पुरवैर्यभिकेऽद्य कान्तिमत्यम्ब ॥ २८॥ तव सेवां भुवि के वा नाकाङ्क्षन्ते क्षमाभृतस्तनये । त्वमिव भवेयुर्यदि ते भजन्ति ये यां हि कान्तिमत्यम्ब ॥ २९॥ भवदवशिखाभिवीतं शीतलयेर्मां कटाक्षविक्षेपैः । कादम्बिनीव सलिलैः शिखण्डिनं देवि कान्तिमत्यम्ब ॥ ३०॥ त्वद्गुणपयःकणं मे निपीय मुक्तेरलङ्क्रियां गिरतु । चेतःशुक्तिर्मुक्तां भक्तिमिषां देवि कान्तिमत्यम्ब ॥ ३१॥ गुणगणमहामणीनामागमपाथोधिजन्मभाजां ते । गुणतां कदा नु भजतां मम धिषणा देवि कान्तिमत्यम्ब ॥ ३२॥ पाटीरचर्चितस्तनि कोटीरकृतक्षपाधिराट्कलिके । वीटीरसेन कविताधाटीं कुरु मेऽद्य कान्तिमत्यम्ब ॥ ३३॥ तव करुणां किं ब्रूमस्त्वामप्येषानवेक्ष्य तूष्णीकाम् । ऊरीकरोति पापिनमपि विनतं देवि कान्तिमत्यम्ब ॥ ३४॥ ईशोऽपि विना भवतीं न चलितुमपि किं पुनर्वयं शक्ताः । किमुपेक्षसे प्रसीद क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ ३५॥ मन्मानसाम्रशाखी पल्लवितः पुष्पितोऽनुरागेण । हर्षेण च प्रसादाल्लघु तव फलिनोऽस्तु कान्तिमत्यम्ब ॥ ३६॥ ध्यानाम्बरवसतेर्मम मानसमेघस्य दैन्यवर्षस्य । पदयुगली तव शम्पा लक्ष्मीं विदधातु कान्तिमत्यम्ब ॥ ३७॥ कलितपनभानुतप्तं चित्तचकोरं ममातिशीताभिः । जीवय कटाक्षदम्भज्योत्स्नाभिर्देवि कान्तिमत्यम्ब ॥ ३८॥ ज्योत्स्नासध्रीचीभिर्दुग्धश्रीभिः कटाक्षवीचीभिः । शीतलयानीचीभिः कृपया मां देवि कान्तिमत्यम्ब ॥ ३९॥ रुष्टा त्वमागसा यदि तर्जय दृष्ट्यापि नेक्षसे यदि माम् । बाल इव लोलचक्षुः कं शरणं यामि कान्तिमत्यम्ब ॥ ४०॥ विभवः के किं कर्तुं प्रभवः करुणा न चेत्तवान्तेऽपि । नोच्छ्वसितुं कृतमेभिस्त्वामीश्वरि नौमि कान्तिमत्यम्व ॥ ४१॥ जित्वा मदमुखरिपुगणमित्वा त्वद्भक्तभावसाम्राज्यम् । गत्वा सुखं जनोऽयं वर्तेत कदा नु कान्तिमत्यम्ब ॥ ४२॥ अखिलदिविषदालम्बे पदयुग्मं देवि ते सदाऽऽलम्बे । जगतां गोमत्यम्ब क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ ४३॥ अत्रैव कल्पवल्लीचिन्तामणिरस्ति कामधेनुरपि । वेद्मि न किं यदि बुधता पुंसा लभ्येत कान्तिमत्यम्ब ॥ ४४॥ नाहं भजामि दैवं मनसाप्यन्यत्त्वमेव दैवं मे । न मृषा भणामि शोधय मानसमाविश्य कान्तिमत्यम्ब ॥ ४५॥ खेदयसि मां मृगं किं मृगतृष्णेव प्रसीद नौमि शिवे । मोदय कृपया नो चेत्क्व नु यायां देवि कान्तिमत्यम्ब ॥ ४६॥ कार्यं स्वेन स्वहितं को नाम वदेदयं जनो वेत्ति । त्वं वा वदसि किमस्माद्गतिस्त्वमेवास्य कान्तिमत्यम्ब ॥ ४७॥ धन्योऽस्ति को मदन्यो दिवि वा भुवि वा करोषि चेत्करुणाम् । इदमपि विश्वं विश्वं मम हस्ते किं च कान्तिमत्यम्ब ॥ ४८॥ तरुणेन्दुचूडजाये त्वां मनुजा ये भजन्ति तेषां ते । भूतिः पदाब्जधूलिर्धूलिर्भूतिस्तु कान्तिमत्यम्ब ॥ ४९॥ त्वामत्र सेवते यस्त्वत्सारूप्यं समेत्य सोऽमुत्र । हरकेल्यां त्वदसूयापात्रति चित्राङ्गि कान्तिमत्यम्ब ॥ ५०॥ चित्रीयते मनस्त्वां दृष्ट्वा भाग्यावतारमूर्तिं मे । किञ्च सुधाब्धेर्लहरीविहारितामेति कान्तिमत्यम्ब ॥ ५१॥ किरतु भवती कटाक्षाञ्जलजसदृक्षान् रसेन तादृक्षान् । कृतसुररक्षान्मोहनदक्षान्भीमस्य कान्तिमत्यम्ब ॥ ५२॥ मानसवार्धिनिलीनौ रागद्वेषौ प्रवोधवेदमुषौ । मधुकैटभौ तवेक्षणमीनो मे हरतु कान्तिमत्यम्ब ॥ ५३॥ मञ्जुलभाषिणि वञ्जुलकुड्मलललितालके लसत्तिलके । पालय कुवलयनयने बालं मां देवि कान्तिमत्यम्व ॥ ५४॥ पुरमथनविलोलाभिः पटुलीलाभिः कटाक्षमालाभिः । शुभशीलाभिः कुवलयनीलाभिः पश्य कान्तिमत्यम्ब ॥ ५५॥ करुणारसार्द्रनयने शरणागतपालनैककृतदीक्षे । प्रगुणाभरणे पालय दीनं मां देवि कान्तिमत्यम्ब ॥ ५६॥ नरजन्मैव वरं त्वद्भजनं येन क्रियेत चेदस्मात् । किमवरमेवं नो चेदतस्तदेवास्तु कान्तिमत्यम्ब ॥ ५७॥ यद्दुर्लभं सुरैरपि तन्नरजन्मादिशो नमाम्येतत् । सार्थय दानाद्भक्तेर्व्यर्थय मान्येन कान्तिमत्यम्ब ॥ ५८॥ जीवति पञ्चभिरेभिर्न विनाऽस्त्येभिर्जनस्तनुं भजते । तदपि तदासीनां त्वां दरमपि नो वेत्ति कान्तिमत्यम्ब ॥ ५९॥ यत्प्रेमद्विपवदने षड्वदने वा कुरुष्व तन्मयि ते । जात्वपि मा भूद्भेदः स्तोकेष्वस्मासु कान्तिमत्यम्ब ॥ ६०॥ शम्बररुहरुचिवदने शम्बररिपुजीविके हिमाद्रिसुते । अम्बरमध्ये बम्बरडम्बरचिकुरेऽव कान्तिमत्यम्ब ॥ ६१॥ मन्मानसपाठीनं कलिपुलिने क्रोधभानुसन्तप्ते । सिञ्च परितो भ्रमन्तं कृपोर्मिभिर्देवि कान्तिमत्यम्ब ॥ ६२॥ यमिनः क्व वेद मुकुटान्यपि भवतीं भावयन्ति वा नो वा । यद्येवं मम हृदयं वेत्तु कथं ब्रूहि कान्तिमत्यम्ब ॥ ६३॥ क्लिश्यत्ययं जनो बत जननाद्यैरित्यहं श्रितो भवतीम् । तत्राप्येवं यदि वद तव किं महिमाऽत्र कान्तिमत्यम्ब ॥ ६४॥ वृजिनानि सन्तु किमतस्तेषां धूत्यै न किं भवेद्वद ते । स्मरणं दृषदुत्क्षेपणमिव काकगणस्य कान्तिमत्यम्ब ॥ ६५॥ प्रसरति तव प्रसादे किमलभ्यं व्यत्यये तु किं लभ्यम् । लभ्यमलभ्यं किं नस्तेन विना देवि कान्तिमत्यम्ब ॥ ६६॥ किं चिन्तयामि संविच्छरदुदयं त्वत्पदच्छलं कतकम् । घृष्टं यदि प्रसीदेद्धृदयजलं मेऽद्य कान्तिमत्यम्ब ॥ ६७॥ विभजतु तव पदयुगली हंसीयोगीन्द्रमानसैकचरी । संविदसंवित्पयसी मिलिते हृदि मेऽद्य कान्तिमत्यम्ब ॥ ६८॥ कियदायुस्तत्रार्धं स्वप्ने न हृतं कियच्च बाल्याद्यैः । कियदस्ति केन भजनं तृप्तिस्तव केन कान्तिमत्यम्ब ॥ ६९॥ वेद्मि न धर्ममधर्मं कायक्लेशोऽस्त्यदो विचारफलम् । जानाम्येकं भजनं तव शुभदं हीति कान्तिमत्यम्ब ॥ ७०॥ स्निह्यति भोगे द्रुह्यति योगायेदं वृथाऽद्य मुह्यति मे । हृदयं किमु स्वतो वा परतो वा वेत्ति कान्तिमत्यम्ब ॥ ७१॥ न बिभीमो भवजलधेर्दरमपि दनुजारिसोदरि शिवे ते । आस्ते कटाक्षवीक्षातरणिर्ननु देवि कान्तिमत्यम्ब ॥ ७२॥ चिन्तामणौ करस्थेऽप्यटनं वीथीषु किं ब्रुवे मातः । वद किं मे त्वयि सत्यामन्याश्रयणे न कान्तिमत्यम्ब ॥ ७३॥ नरवर्णनेन रसना परवनितावीक्षणेन नेत्रमपि । क्रौर्येण मनोऽपि हतं भाव्यं तु न वेद्मि कान्तिमत्यम्ब ॥ ७४॥ त्रासितसुरपतितप्तं तप्तं किं धर्ममेव वा कॢप्तम् । किमपि न सञ्चितममितं वृजिनमये किं तु कान्तिमत्यम्ब ॥ ७५॥ पापीत्युपेक्षसे चेत्पातुं काऽन्या भवेद्विना भवतीम् । किमिदं न वेद्मि सोऽयं बकमन्त्रः कस्य कान्तिमत्यम्ब ॥ ७६॥ वञ्चयितुं वृजिनाद्यैर्मुग्धान्भवतीं विनेतरान्नेक्षे । किमतः परं करिष्यसि विदितमिदं मेऽद्य कान्तिमत्यम्ब ॥ ७७॥ वञ्चयसि मां रुदन्तं बालमिव फलेन मां धनाढ्येन । मास्तु कदापि ममेदं कैवल्यं देहि कान्तिमत्यम्ब ॥ ७८॥ त्रय्या किं मेऽद्य गुणे तव विदिते यो यतस्तु सम्भवति । आस्तां मौक्तिकलाभे सति शुक्त्या किं नु कान्तिमत्यम्ब ॥ ७९॥ अद्भुतमिदं सकृद्येन ज्ञाता वा श्रियो दिशस्येभ्यः । ये खलु भक्तास्तेभ्यः कैवल्यं दिशसि कान्तिमत्यम्ब ॥ ८०॥ सुरनैचिकीव विबुधान्कादम्बिनिकेव नीलकण्ठमपि । प्रीणयसि मानसं मे शोभय हंसीव कान्तिमत्यम्ब ॥ ८१॥ कर्तुं मनःप्रसादं तव मयि चेत्किं करिष्यति वृजिनम् । जलजविकासे भानोः परिपन्थितमो नु कान्तिमत्यम्ब ॥ ८२॥ तव तु करुणा स्रवन्त्यां प्रवहन्त्यां स्तोकता गतेति मया । लुठति स्फुटति मनो मे नेदं जानासि कान्तिमत्यम्ब ॥ ८३॥ शोधयितुमुदासीना यदि मां पात्रं किमस्य पश्याहम् । मादृशि का वा वार्ता दासजने कान्तिमत्यम्ब ॥ ८४॥ अभजमनन्यगतिस्त्वां किं कुर्यास्त्वं न वेद्म्यतःप्रभृति । अवने वाऽनवने वा न विचारो मेऽस्ति कान्तिमत्यम्ब ॥ ८५॥ किं वर्तते ममास्मान्निखिलजगन्मस्तलालितं भाग्यम् । यमिहृदयपद्महंसीं यत्त्वां सेवेऽद्य कान्तिमत्यम्ब ॥ ८६॥ कर्तुं जगन्ति विधिवद्भर्तुं हरिवद्गिरीशवद्धर्तुम् । लीलावती त्वमेव प्रतीयसे देवि कान्तिमत्यम्ब ॥ ८७॥ केचिद्विदन्ति भवतीं केचिन्न विदन्ति देवि सर्वमिदम् । त्वत्कृत्यं वद सत्यं किं लब्धं तेन कान्तिमत्यम्ब ॥ ८८॥ शास्त्राणि कुक्षिपूर्त्यै स्फूर्त्यै निगमाश्च कर्मणा किं तैः । किं तव तत्त्वं ज्ञेयं यैस्त्वत्कृपयैव कान्तिमत्यम्ब ॥ ८९॥ किं प्रार्थये पुनः पुनरवने भवतीं विना विचारः स्यात् । कस्याः क इति विदन्नपि दूये मोहेन कान्तिमत्यम्ब ॥ ९०॥ विदुषस्त्वां शरणं मे शास्त्रश्रमलेशवार्तयापि कृतम् । करजुषि नवनीते किं दुग्धविचारेण कान्तिमत्यम्ब ॥ ९१॥ प्रणवोपनिषन्निगमागमयोगिमनःस्विवातितुङ्गेषु । भाहि प्रभेव तरणेर्मम हृदि निम्नेऽपि कान्तिमत्यम्ब ॥ ९२॥ स्फुटितारुणमणिशोभं त्रुटिताभिनवप्रवालमृदुलत्वम् । श्रुतिशिखरशेखरं ते चरणाब्जं स्तौमि कान्तिमत्यम्ब ॥ ९३॥ तव चरणाम्बुजभजनादमृतरसस्यन्दिनः कदाप्यन्यत् । स्वप्नेऽपि किञ्चिदपि मे मा स्म भवेद्देवि कान्तिमत्यम्ब ॥ ९४॥ विस्मापनं पुरारेरस्मादृग्जीविकां परात्परमम् । सुषमामयं स्वरूपं सदा निषेवेय कान्तिमत्यम्ब ॥ ९५॥ मङ्गलमस्त्विति पिष्टं पिनष्टि गीः सर्वमङ्गलायास्ते । वशितजयायाश्च तथा जयेति वादोऽपि कान्तिमत्यम्ब ॥ ९६॥ आशासितुर्विभूत्यै भवति भवत्यै हि मङ्गलाशास्तिः । स्वामिसमृद्ध्याशंसा भृत्योन्नत्यै हि कान्तिमत्यम्ब ॥ ९७॥ निगमैरपरिच्छेद्यं क्व वैभवं तेऽल्पधीः क्व चाहमिति । तूष्णीकं मां भक्तिस्तव मुखरयति स्म कान्तिमत्यम्ब ॥ ९८॥ अनुकम्पापरवशितं कम्पातटसीम्नि कल्पितावसथम् । उपनिषदां तात्पर्यं तव रूपं स्तौमि कान्तिमत्यम्ब ॥ ९९॥ जय धरणीधरतनये जय वेणुवनाधिराट्प्रिये देवि । जय जम्भभेदिविनुते जय जगतामम्ब कन्तिमत्यम्ब ॥ १००॥ गुणमञ्जरिपिञ्जरितं सुन्दररचितं विभूषणं सुदृशाम् । गीतिशतकं भवत्याः क्षयतु कटाक्षेण कान्तिमत्यम्ब ॥ १०१॥ वप्ता यस्य मनीषिहारतरलः श्रीवेङ्कटेशो महान्- माता यस्य पुनः सरोजनिलया साध्वीशिरोभूषणम् । श्रीवत्साभिजनामृताम्बुधिविधुः सोऽयं कविः सुन्दरो देव्या गीतिशतं व्यधत्त महितं श्रीकान्तिमत्या मुदे ॥ १०२॥ इति श्रीसुन्दराचार्यप्रणीतं देवीगीतिशतकं सम्पूर्णम् ॥