अक्षर आकार:

श्री देवीध्यानरत्नमाला

Shri Devi Dhyana Ratnamala

श्री देवीध्यानरत्नमाला

ॐ नमो भवान्यै ॥ भक्तानुग्रहकारिणी भगवती देवाधिदेवेश्वरी दीनानाथ कृपावती स्वजननी भक्तानुरक्ता सती । ॐ काराक्षरवासिनी सुरनुता सर्वेश्वरी सर्वदा भूयान्नो वरदा सदा ह्यभयदा कामेश्वरी कामदा ॥ १॥ वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् । बालार्ककोटिप्रतिभां त्रिनेत्रां भजेहमाद्यां भुवनेश्वरीं ताम् ॥ २॥ माता भवानी च पिता भवानी बन्धुर्भवानी च गुरुर्भवानी । विद्या भवानी द्रविणं भवानी यतो यतो यामि ततो भवानी ॥ ३॥ श्रीशङ्खचक्रमुसलाम्बुजयुग्महस्तां नागेन्द्रहारबलयाङ्कितकण्ठमालाम् । सिन्दूरकुङ्कुमसहस्रमरीचिदीप्तां श्रीशारिकां त्रिनयनां हृदये स्मरामि ॥ ४॥ बालार्ककोटिद्युतिमिन्दुचूडां वरासिचक्राभयबाह्यमाद्याम् । सिंहाधिरूढां शिववामदेहलीनां भजे चेतसि शारिकेशीम् ॥ ५॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रान्विता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ६॥ या श्रीर्वेदमुखी तपःफलमुखी, नित्यं च निद्रामुखी नानारूपधरी सदा जयकरी, विद्याधरी शङ्करी । गौरी पीनपयोधरी रिपुहरी मालास्थिमालाधरी सा मां पातु सरस्वती भगवती, निशेषजाड्यापहा ॥ ७॥ या देवी शिवकेशवादिजननी यावैजगद्रूपिणी या ब्रह्मादिपिपीलिकान्तजनतानन्दैकसन्दायिनी । या पञ्चप्रणमन्निलिम्पनयनी या चित्कलामालिनी सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ ८॥ या माया मधुकैटभप्रमथिनी या माहिषोन्मूलिनी या धूम्रेक्षणचण्डमुण्डमथिनी या रक्तबीजाशनी । शक्तिः शुम्भनिशुम्भदैत्यदलिनी या सिद्धलक्ष्मीः परा सा देवी नवकोटिमूर्तिसहिता मां पातु माहेश्वरी ॥ ९॥ या खड्गं डमरुं त्रिशूलपरशू खट्वाङ्गपाशौ गदां चक्रं मुद्गरचापबाणावरदाभीतीः कपालाङ्कुशौ । धत्ते तोमरपुस्तके च मुसुलं दोर्भिर्दशात्ताष्टभि- र्देवीभिः परिवारिता शशिधरा सा शारिका पातु नः ॥ १०॥ बीजैः सप्तभिरुज्ज्वलाकृतिरसौ या सप्तसप्तिद्युतिः सप्तर्षिप्रणताङ्घ्रिपङ्कजयुगा या सप्तलोकार्तिहृत् । काश्मीरप्रवरेशमध्यनगरीप्रद्यमन्पीठे स्थिता देवीसप्तकसंयुता भगवती श्रीशारिका पातु नः ॥ ११॥ ब्रह्माणं च पुरन्दरं शिवहरी देवान्समस्तान्मुनीन् या द्रष्ट्या दयया विलोकयति सा देव्यम्बिका पार्वती । चक्रस्था निजबोधभासितजगच्छान्तात्मिका सर्वगा सान्द्रानन्दप्रदा परा भगवती पायात्सदाशारिका ॥ १२॥ भक्तानां सिद्धिदात्री नलिनयुगकरा श्वेतपद्मासनस्था लक्ष्मीरूपा त्रिनेत्रा हिमकरवदना सर्वदैत्येन्द्रहर्त्री । वागीशी सिद्धिकर्त्री सकलमुनिजनैः सेविता या भवानी नौम्यहं नौम्यहं त्वां हरिहरप्रणतां शारिकां नौमि नौमि ॥ १३॥ आरक्ताभां त्रिनेत्रां मणिमुकुटवतीं रत्नताटङ्करम्यां हस्ताम्भोजैः सपाशाङ्कुशमदनधनुःसायकैर्विस्फुरन्तीम् । आपीनोत्तुङ्गवक्षोरुहतटविलुठत्तारहारोज्ज्वलाङ्गीम् । ध्यायाम्यम्भोरुहस्थामरुणविवसनामीश्वरीमीश्वरानाम ॥ १४॥ ज्वालापर्वतसंस्थितां त्रिनयनां पीठत्रयाधिष्ठितां ज्वालाडम्बरभूषितां सुवदनां नित्यामदृश्यां जनैः । षट्चक्राम्बुजमध्यगां वरगदाम्भोजाभयान्बिभ्रतीं चिद्रूपां सकलार्थदीपनकरीं ज्वालामुखीं नौम्यहम् ॥ १५॥ ( Next five from jvAlAmukhIstotram) दैत्यानां भटकोटिकोटिमुकुटा टोपानधः कुर्वतीं विघ्नानां कटकान्यतीव कटुकान्यापाटयन्तीं स्फुटम् । भक्तानामभयं वरं च दधतीं शान्तात्मनां सर्वदा षड्वक्त्रेण जितां क्रिया विरहतो ज्वालामुखीं नौम्यहम् ॥ १६॥ ब्रह्माणं मधुकैटभौ वधपरो सन्त्रासयन्तौ परं नानारूपधरावतीव भयदौ स्थूलोन्नतो संयुगे । तौ हत्वा विनि वर्तितां कृतवतीं तन्मेदस मेदिनीं सर्वेषां शुभदायिनीं भगवतीं ज्वालामुखीं नौम्यहम् ॥ १७॥ सैन्यानां महिषासुरस्य मृतिदां सिंहाधिरूढामुमां नानाकारविशेषसौख्यजननीं देहान्तरैः संस्थिताम् । बालामध्यमवृद्धरूपरमणीं श्रीसुन्दरीं वैष्णवीं स्त्रीरूपेण जगद्विमोहनकरीं ज्वालामुखीं नौम्यहम् ॥ १८॥ देवानां भयदायकौसुकठिनौ शुम्भौ निशुम्भस्तथा नानाशस्त्रधरो रिपु धृतिहरौ तौ चण्डमुण्डाङ्कितौ । सङ्ग्रामेऽप्यपराजितौ विकसितौ द्वौ रक्तबीजान्वितौ हत्वैवं सुबलां प्रसन्नवदनां ज्वालामुखीं नौम्यहम् ॥ १९॥ संसारार्णवतारिणीं रविशशिकोटिप्रभां सुप्रभां पापातङ्कनिवारिणीं हरिहरब्रह्मादिभिः संस्तुताम् । दारिद्र्यस्य विनाशिनीं सुकृतिनां जाड्यं हरन्तीं भृशम- ज्ञानान्धमतेः कवित्वजननीं ज्वालामुखीं नौम्यहम् ॥ २०॥ ज्वालामुखि महाज्वाले ज्वालापिङ्गललोचने । ज्वालातेजे महातेजे ज्वालामुखि नमोस्तुते ॥ २१॥ नमो भगवति ज्वाले कालि त्रिपुरसुन्दरि । सर्वबीजपालयत्रि ज्वालामुखि नमोस्तुते ॥ २२॥ आकाशे चण्डिका देवी पाताले भुवनेश्वरी । मर्त्यलोके जयादेवी पायात्त्रिपुरसुन्दरी ॥ २३॥ श्री श्रीशैले स्थिता या प्रहसितवदना पार्वती शूलहस्ता । वह्निसूर्येन्दुनेत्रा त्रिभुवनजननी षड्भुजा सर्वशक्तिः । शाण्डिल्येनोपनीता, जयति भगवती भक्तिगम्यानुयाता सा नः सिंहासनस्था, ह्यभिमतफलदा शरदा शं करोतु ॥ २४॥ मूलाधाराद्भुतवहकलामिश्रितं भूर्भुवःस्व- र्ब्रह्मस्थानात्परमगहनात्तत्सवितुर्वरेण्यम् । भर्गोदेवः शशिकलमयी धीमहीत्येकरूपं धियो योनः परमममृतं चोदयान्नः परं तत् ॥ २५॥ प्रातःकाले कुमारी कुमुदकलिकया जप्यमालां जपन्ती मध्याह्ने प्रौढरूपा विकसितवदना चारूनेत्रा विशाला । सन्ध्यायां वृद्धरूपा गलितकुचयुगे मुण्डमालां वहन्ती सा देवी दिव्यदेहा, हरिहरनमिता पातु नो ह्यादिमुद्रा ॥ २६॥ चतुर्भुजामर्कसहस्रकोटिभां त्रिलोचनां हारकिरीटशोभिताम् । चतुर्मुखाङकोपगतां महोज्ज्वलां वेदेश्वरीं पञ्चमुखीं नमाम्यहम् ॥ २७॥ वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । न पुण्यपापे ममनास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ॥ २८॥ पद्मासनस्थां करपङ्कजाभ्यां रक्तोत्पले सन्दधतीं त्रिनेत्राम् । सम्बिभ्रतीमाभरणानि रक्तां पद्मावतीं पद्ममुखीं नमामि ॥ २९॥ पद्मेशपद्मोदभवपद्मबन्धुमुखाः सुराः पादरजोपि यस्याः । चिन्वन्त आप्ता न गताश्च पारं पद्मावती सा मम सद्यम्गास्तात् ॥ ३०॥ देवीं शुद्धस्फटिकधवलां पञ्चवक्त्रां त्रिनेत्रां दोर्भिर्युक्तां दशभिरभितः शोभितां रत्नहारैः । काद्यं मुण्डं सृणिममसृणं शूलमच्छाच्छधारं सारात्सारं वरमनवरं दक्षहस्तैर्वहन्तीम् ॥ ३१॥ उत्खट्वाङ्गं कठिनविकटं टङ्कमूर्जस्वदङ्कं पाशं ज्ञानामृतरसमयं पुस्तकं चाभयं च । कामं वामैः शुभकरतलैर्बिभ्रतीं विश्ववन्द्यां पद्मां प्रेतोपरिकृतपदां सिद्धलक्ष्मीं नमामि ॥ ३२॥ इच्छाशक्तिप्रथमलहरीमम्बरान्तः प्रवाह- गर्भीभूतां त्रिविधमुदितां पञ्चधा प्रस्फुरन्तीम् । सम्यग्देवीं स्फटिकधवलां, शुद्धकुन्देन्दुवर्णां रुद्रारूढां दशभुजयुतां क्षामगात्रीं नमामि ॥ ३३॥ उद्यद्भास्वत्समाभाविहितरविजयां मुण्डखण्डावनद्धाम् । ज्योतिर्मौलिं त्रिनेत्रां विविधमणिलसत्कुण्डलामण्डिताङ्गीम् । हारग्रैवेयकाञ्चीगुणमणिनिलयामेक चित्राम्बराढ्या- मम्बां पाशाङ्कुशाढ्याभयवरदकरां सिद्धिदात्रीं नमामि ॥ ३४॥ सन्तःशंसन्त्यमुत्र त्रिजगति जगतीमण्डलं सारभूतं तत्रापि क्ष्माधरं तं त्रिभुवनजननी जन्मने यं प्रपेदे । तत्राप्याहुः शुभानां विघटितविपदां वेश्म काश्मीरदेशं त्वं तत्रानुग्रहार्थं प्रवहसि भविनामों नमस्ते वितस्ते ॥ ३५॥ गङ्गे त्रैलोक्यसारे सकलसुर वधू धौतविस्तीर्णतोये पुण्ये ब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे । प्रायश्चित्तं परं नस्तव जलकणिका ब्रह्महत्याद्यघाना कस्त्वां स्तोतुं समर्थस्त्रिजगदघहरे देवि गङ्गे प्रसीद ॥ ३६॥ दृष्टा जन्मशताधर्मं स्पृष्टा जन्मशतत्रयम् । स्नाता जन्मशतोत्थाघं हन्ति गङ्गा कलौ युगे ॥ ३७॥ हरतीयं महापापं गङ्गेश्वरसमुद्भवा । मातृपितृहिते गङ्गे हरिगङ्गे नमोस्तु ते ॥ ३८॥ अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे । ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि नमोस्तु ते ॥ ३९॥ नमः कल्याणदे देवि नमः शङ्करवल्लभे । नमो भक्तिप्रेदे देवि अन्नपूर्णे नमोऽस्तु ते ॥ ४०॥ नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी । प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ४१॥ उर्वी सर्वजनेश्वरी हिमवतः पुत्री कृपासागरी नारी नीलसमानकुन्तलधरी नित्यान्नदानेश्वरी । सर्वत्राणकरी सदा सुखकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ४२॥ इति देवीध्यानरत्नमाला समाप्ता ।