अक्षर आकार:

श्रीदशविद्यामयीबालास्तोत्रम्

Shri Dashavidyamayi Bala Stotram

श्रीदशविद्यामयीबालास्तोत्रम्

श्रीकाली बगलामुखी च ललिता धूम्रावती भैरवी मातङ्गी भुवनेश्वरी च कमला श्रीर्वज्रवैरोचनी । तारापूर्वमहापदेन कथिता विद्या स्वयं शम्भुना लीला रूपमयी च देशदशधा बाला तु मां पातु सा ॥ १॥ श्यामां श्यामघनावभासरुचिरां नीलालकालङ्कृतां बिम्बोष्ठीं बलिशत्रुवन्दितपदां बालार्ककोटिप्रभाम् । त्रासत्रासकृपाणमुण्डदधतीं भक्ताय दानोद्यतां वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं कालिकाम् ॥ २॥ ब्रह्मास्त्रां सुमुखीं बकारविभवां बालां बलाकीनिभां हस्तन्यस्तसमस्तवैरिरसनामन्ये दधानां गदाम् । पीतां भूषणगन्धमाल्यरुचिरां पीताम्बराङ्गां वरां वन्दे सङ्कटनाशिनीं भगवतीं बालां च बगलामुखीम् ॥ ३॥ बालार्कद्युतिभास्करां त्रिनयनां मन्दस्मितां सन्मुखीं वामे पाशधनुर्धरां सुविभवां बाणं तथा दक्षिणे । पारावारविहारिणीं परमयीं पद्मासने संस्थितां वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं षोडशीम् ॥ ४॥ दीर्घां दीर्घकुचामुदग्रदशनां दुष्टच्छिदां देवतां क्रव्यादां कुटिलेक्षणां च कुटिलां काकध्वजां क्षुत्कृशाम् । देवीं शूर्पकरां मलीनवसनां तां पिप्पलादार्चितां बालां सङ्कटनाशिनीं भगवतीं ध्यायामि धूमावतीम् ॥ ५॥ उद्यत् कोटिदिवाकरप्रतिभटां बालार्कभाकर्पटां मालापुस्तकपाशमङ्कुशवरां दैत्येन्द्रमुण्डस्रजाम् । पीनोत्तुङ्गपयोधरां त्रिनयनां ब्रह्मादिभिः संस्तुतां बालां सङ्कटनाशिनीं भगवतीं श्रीभैरवीं धीमहि ॥ ६॥ वीणावादनत्परां त्रिनयनां मन्दस्मितां सन्मुखीं वामे पाशधनुर्धरां तु निकरे बाणं तथा दक्षिणे । पारावारविहारिणीं परमयीं ब्रह्मासने संस्थितां वन्दे सङ्कटनाशिनीं भगवतीं मातङ्गिनीं बालिकाम् ॥ ७॥ उद्यत्सूर्यनिभां च इन्दुमुकुटामिन्दीवरे संस्थितां हस्ते चारुवराभयं च दधतीं पाशं तथा चाङ्कुशम् । चित्रालङ्कृतमस्तकां त्रिनयनां ब्रह्मादिभिः सेवितां वन्दे सङ्कटनाशिनीं च भुवनेशीमादिबालां भजे ॥ ८॥ देवीं काञ्चनसन्निभां त्रिनयनां फुल्लारविन्दस्थितां बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलाम् । प्रालेयाचलसन्निभैश्च करिभिरासिञ्च्यमानां सदा बालां सङ्कटनाशिनीं भगवतीं लक्ष्मीं भजे चेन्दिराम् ॥ ९॥ सञ्छिन्नं स्वशिरो विकीर्णकुटिलं वामे करे बिभ्रतीं तृप्तास्यां स्वशरीरजैश्च रुधिरैः सन्तर्पयन्तीं सखीम् । सद्भक्ताय वरप्रदाननिरतां प्रेतासनाध्यासिनीं बालां सङ्कटनाशिनीं भगवतीं श्रीच्छिन्नमस्तां भजे ॥ १०॥ उग्रामेकजटामनन्तसुखदां दूर्वादलाभामजां कर्त्रीखड्गकपालनीलकमलान् हस्तैर्वहन्तीं शिवाम् । कण्ठे मुण्डस्रजं करालवदनां कञ्जासने संस्थितां वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं तारिणीम् ॥ ११॥ मुखे श्रीमातङ्गी तदनु किल तारा च नयने तदन्तङ्गा काली भ्रुकुटिसदने भैरविपरा । कटौ छिन्ना धूमावति जय कुचे श्रीकमलजा पदांशे ब्रह्मास्त्रा जयति किल बाला दशमयी ॥ १२॥ विराजन्मन्दारद्रुमकुसुमहारस्तनतटी परित्रासत्राणस्फटिकगुटिकापुस्तकवरा । गले रेखास्तिस्रो गमकगतिगीतैकनिपुणा सदा पीता हाला जयति किल बाला दशमयी ॥ १३॥ (मेरुतन्त्रे) इति मेरुतन्त्रान्तर्गतं श्रीदशविद्यामयीबालास्तोत्रं सम्पूर्णम् ।