अक्षर आकार:

दशमयीबालात्रिपुरसुन्दरीस्तोत्रम्

dashamayIbAlAtripurasundarIstotram

दशमयीबालात्रिपुरसुन्दरीस्तोत्रम्

श्रीकाली बगलामुखी च ललिता धूमावती भैरवी मातङ्गी भुवनेश्वरी च कमला श्रीवज्रवैरोचनी । तारा पूर्वमहापदेन कथिता विद्या स्वयं शम्भुना लीलारूपमयी च देशदशधा बाला तु मां पातु सा ॥ १॥ श्यामां श्यामघनावभासरुचिरां नीलालकालङ्कृतां बिम्बोष्ठीं बलशत्रुवन्दितपदां बालार्ककोटिप्रभाम् । त्रासत्राणकृपाणमुण्डदधतीं भक्ताय दानोद्यतां वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं कालिकाम् ॥ २॥ ब्रह्मास्त्रां सुमुखीं बकारविभवां बालां बलाकीनिभां हस्तन्यस्तसमस्तवैरिरसनामन्ये दधानां गदाम् । पीतां भूषणगन्धमाल्यरुचिरां पीताम्बराङ्गां वरां वन्दे सङ्कटनाशिनीं भगवतीं बालां च बगलामुखीम् ॥ ३॥ बालार्कश्रुतिभस्करां त्रिनयनां मन्दस्मितां सन्मुखीं वामे पाशधनुर्धरां सुविभवां बाणं तथा दक्षिणे । पारावारविहारिणीं परमयीं पद्मासने संस्थितां वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं षोडशीम् ॥ ४॥ दीर्घां दीर्घकुचामुदग्रदशनां दुष्टच्छिदां देवतां क्रव्यादां कुटिलेक्षणां च कुटिलां काकध्वजां क्षुत्कृशाम् । देवीं शूर्पकरां मलीनवसनां तां पिप्पलादार्चिताम् । बालां सङ्कटनाशिनीं भगवतीं ध्यायामि धूमावतीम् ॥ ५॥ उद्यत्कोटिदिवाकरप्रतिभटां बालार्कभाकर्पटां मालापुस्तकपाशमङ्कुशधरां दैत्येन्द्रमुण्डस्रजाम् । पीनोत्तुङ्गपयोधरां त्रिनयनां ब्रह्मादिभिः संस्तुतां बालां सङ्कटनाशिनीं भगवतीं श्रीभैरवीं धीमहि ॥ ६॥ वीणावादनतत्परां त्रिनयनां मन्दस्मितां सन्मुखीं वामे पाशधनुर्धरां तु निकरे बाणं तथा दक्षिणे । पारापारविहारिणीं परमयीं ब्रह्मासने संस्थितां वन्दे सङ्कटनाशिनीं भगवतीं मातङ्गिनीं बालिकाम् ॥ ७॥ उद्यत्सूर्यनिभां च इन्दुमुकुटामिन्दीवरे संस्थितां हस्ते चारुवराभयं च दधतीं पाशं तथा चाङ्कुशम् । चित्रालङ्कृतमस्तकां त्रिनयनां ब्रह्मादिभिः सेवितां वन्दे सङ्कटनाशिनीं च भुवनेशीमादिबालां भजे ॥ ८॥ देवीं काञ्चनसन्निभां त्रिनयनां फुल्लारविन्दस्थितां विभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलाम् । प्रालेयाचलसन्निभैश्च करिभिरासिञ्च्यमानां सदा बालां सङ्कटनाशिनीं भगवतीं लक्ष्मीम्भजे चेन्दिराम् ॥ ९॥ सच्छिन्नां स्वशिरोविकीर्णकुटिलां वामे करे विभ्रतीं तृप्तास्यस्वशरीरजैश्च रुधिरैः सन्तर्पयन्तीं सखीम् । सद्भक्ताय वरप्रदाननिरतां प्रेतासनाध्यासिनीं बालां सङ्कटनाशिनीं भगवतीं श्रीछिन्नमस्तां भजे ॥ १०॥ उग्रामेकजटामनन्तसुखदां दूर्वादलाभामजां कर्त्रीखड्गकपालनीलकमलान् हस्तैर्वहन्तीं शिवाम् । कण्ठे मुण्डस्रजां करालवदनां कञ्जासने संस्थितां वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं तारिणीम् ॥ ११॥ मुखे श्रीमातङ्गी तदनु किल तारा च नयने तदन्तरगा काली भृकुटिसदने भैरवि परा । कटौ छिन्ना धूमावती जय कुचेन्दौ कमलजा पदांशे ब्रह्मास्त्रा जयति किल बाला दशमयी ॥ १२॥ विराजन् मन्दारद्रुमकुसुमहारस्तनतटी परित्रासत्राणास्फटिकगुटिकापुस्तकवरा । गले रेखास्तिस्रो गमकगतिगीतैकनिपुणा सदापीलाहाला जयति किल बाला दशमयी ॥ १३॥ इति श्रीमेरुतन्त्रे दशमयीबालात्रिपुरसुन्दरीस्तोत्रं सम्पूर्णम् ॥