अक्षर आकार:

दशमहाविद्यास्तोत्रम्

DashamahavidyAstotram

दशमहाविद्यास्तोत्रम्

शिव उवाच - दुर्लभ तारिणी मार्ग दुर्लभं तारिणी ओअदम् । मन्त्रार्थ मन्त्रचैतन्यं दुर्लभं शवसाधनम् ॥ श्मशानसाधनं योनि साधनं ब्रह्मसाधनम् । क्रिया साधनक भक्तिसाधनं मुक्तिसाधनम् ॥ स्तवप्रसादाद्देवेशि सर्वाः सिद्ध्यन्ति सिद्धयः । ॐ नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनि । नमस्ते कालिके कालमहाभयविनाशिनि ॥ १॥ शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे । प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ॥ २॥ जगत् क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम् । करालां विकटां घोरां मुण्डमालाविभूषिताम् ॥ ३॥ हरार्चितां हराराध्यां नमामि हरवल्लभाम् । गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् ॥ ४॥ हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् । सिद्धां सिद्धेश्वरीं सिद्धविद्याधरङ्गणैर्युताम् ॥ ५॥ मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् । प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् ॥ ६॥ उग्रामुग्रमयीमुग्रतारामुग्रगणैर्युताम् । नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ॥ ७॥ श्यामाङ्गीं श्यामघटितां श्यामवर्णविभूषिताम् । प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ॥ ८॥ विश्वेश्वरीं महाघोरां विकटां घोरनादिनीम् । आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् ॥ ९॥ श्रीं दुर्गां धनदामन्नपूर्णां पद्मां सुरेश्वरीम् । प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् ॥ १०॥ त्रिपुरां सुन्दरीं बालामबलागणभूषिताम् । शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ॥ ११॥ सुन्दरीं तारिणीं सर्वशिवागणविभूषिताम् । नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् ॥ १२॥ सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम् । सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् ॥ १३॥ विद्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम् । महेशभक्तां माहेशीं महाकालप्रपूजिताम् ॥ १४॥ प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम् । रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् ॥ १५॥ भैरवीं भुवनां देवीं लोलजिव्हां सुरेश्वरीम् । चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ॥ १६॥ त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम् । अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् ॥ १७॥ कमलां छिन्नभालाञ्च मातङ्गीं सुरसुन्दरीम् । षोडशीं विजयां भीमां धूमाञ्च वगलामुखीम् ॥ १८॥ सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम् । प्रणमामि जगत्तारां साराञ्च मन्त्रसिद्धये ॥ १९॥ इत्येवञ्च वरारोहे स्तोत्रं सिद्धिकरं परम् । पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ॥ २०॥ कुजवारे चतुर्दश्याममायां जीववासरे । शुक्रे निशिगते स्तोत्रं पठित्वा मोक्षमाप्नुयात् ॥ त्रिपक्षे मन्त्रसिद्धिस्यात्स्तोत्रपाठाद्धि शंकरि । चतुर्दश्यां निशाभागे शनि भौम दिने तथा ॥ निशामुखे पठेत्स्तोत्रं मन्त्र सिद्धिमवाप्नुयात् । केवलं स्तोत्रपाठाद्धि मन्त्र सिद्धिरनुत्तमा । जागर्ति सततं चण्डी स्तोत्र पाठाभुजङ्गिनी ॥ इति मुण्डमालातन्त्रोक्त दशमहाविद्यास्तोत्रं सम्पूर्णम् ॥