अक्षर आकार:

दशाक्षरलक्ष्मीमन्त्रम्

dashAkSharalakShmImantram

दशाक्षरलक्ष्मीमन्त्रम्

अस्य श्रीदशाक्षरीमहामन्त्रस्य - दक्ष ऋषिः - विराट् छन्दः - श्रीलक्ष्मीः देवता - सर्वेष्टसिद्ध्यर्थे जपे विनियोगः । ऋष्यादि न्यासः दक्ष ऋषये नमः शिरसि - विराट् छन्दसे नमः मुखे श्रियै देवतायै नमः हृदि - विनियोगाय नमः सर्वाङ्गे करन्यासः ॐ देव्यै नमः अङ्गुष्टाभ्यां नमः । ॐ पद्मिन्यै नमः तर्जनीभ्यां नमः । ॐ विष्णुपत्न्यैनमः मध्यमाभ्यां नमः । ॐ वरदायैनमः अनामिकाभ्यां नमः । ॐ कमलायै नमः कनिष्ठिकाभ्यां नमः । ॐ कमलवासिन्यै नमः । ॐ करतलकरपृष्ठाभ्यां नमः ॥ नेत्रहीनहृदयादि पञ्चाङ्गन्यासः ॐ देव्यै नमः हृदयाय नमः । ॐ पद्मिन्यै नमः शिरसे स्वाहा । ॐ विष्णुपत्न्यैनमः शिखायै वषट् । ॐ वरदायै नमः कवचाय हुं । ॐ कमलवासिन्यै नमः अस्त्राय फट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् । आसीना सरसीरुहे स्मितमुखी हस्ताम्बुजैर्बिभ्रति दानं पद्मयुगाभये च वपुषा सौदामिनीसन्निभा । मुक्ताहारविराजमानपृथुलोत्तुङ्गस्तनोद्भासिनी पायाद्वः कमला कटाक्षविभवैरानन्दयन्ती हरिम् ॥ (एवं ध्यात्वा पीठशक्तिभिः पीठपूजां कृत्वा स्वर्णादि निर्मितं यन्त्रं अस्त्रमन्त्रेण आसनं दत्वा पीठमध्ये संस्थाप्य पुनर्ध्यात्वा मूलेन मूर्तिं प्रकल्प्य, आवाहनादि पुष्पाक्षतैः उपचारैः सम्पूज्य देव्याज्ञां गृहीत्वा आवरणपूजां कुर्यात् ।) षट्कोण केसरेषु - आग्नेयकोणे ॐ देव्यै नमः हृदयाय नमः । निरृतिकोणे ॐ पद्मिन्यै नमः शिरसे स्वाहा । वायव्यकोणे ॐ विष्णुपत्न्यै नमः शिखायै वषट् । ईशान्यकोणे ॐ वरदायै नमः कवचाय हुं । देवी पश्चिमे कोणे ॐ कमलवासिन्यै नमः अस्त्राय फट् । इति पञ्चाङ्गानि पूजयेत् ततः पुष्पाञ्जलिं आदाय मूलमन्त्रं उच्चार्य, ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ इति पुष्पाञ्जलिं विकीर्य विशेषार्घ्यात् बिन्दुं निक्षिप्य पूजिताः तर्पिताः सन्तु इति वदेत् - ततः अष्टदलपद्मेषु - पूर्वे ॐ बलाक्यै नमः । आग्नेये ॐ विमलायै नमः । दक्षिणे ॐ कमलायै नमः । नैरृत्यै ॐ विभीषिकायै नमः । पश्चिमे ॐ मालिकायै नमः । वायव्ये ॐ शाङ्कर्यै नमः । उदीच्यां ॐ वसुमालिकायै नमः । ईशान्ये ॐ वनमालिकायै नमः । इति भक्त्या पूजयित्वा पुष्पाञ्जलिं गृहीत्वा, ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ ततः भूपुरे क्रमेण - पूर्वे ॐ वं वज्राय नमः ॐ इन्द्राय नमः । आग्नेये ॐ शं शक्तये नमः ॐ अग्नये नमः । दक्षिणे ॐ दं दण्डाय नमः ॐ यमाय नमः । नैरृत्ये ॐ खं खड्गाय नमः ॐ निरृतये नमः । पश्चिमे ॐ पं पाशाय नमः ॐ वरुणाय नमः । वायव्ये ॐ अं अङ्कुशाय नम ॐ वायवे नमः । उत्तरे ॐ गं गदायै नमः ॐ कुबेराय नमः । ईशान्ये ॐ त्रिं त्रिशूलाय नमः ॐ ईशानाय नमः । (इति भक्त्या पूजां कृत्वा धूपादि नीराजनानन्तरं पूज्य हस्ते पुष्पाञ्जलिं गृहीत्वा -) ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ अथ दशाक्षरलक्ष्मी मन्त्रः । ॐ नमः कमलवासिन्यै स्वाहा । जपप्रकारः दशलक्षं जपेन्मन्त्रं मन्त्रविद्विजितेन्द्रियः । दशांशं जुहुयान्मन्त्री मधुनाऽऽक्तैः सरोरुहैः ॥ इति सम्पूजयेद्देवीं सम्पदामालयं भवेत् । समुद्रकन्यां सरिति कण्ठमात्रे जले स्थितः ॥ त्रिलक्षं प्रजपेन्मन्त्री साक्षाद्वैश्रवणो भवेत् । आराध्योत्तरनक्षत्रे देवीं स्रक्चन्दनादिभिः ॥ नन्द्यावर्त्तभवैः पुष्पैः सहस्रं जुहुयात्ततः । पूर्णमास्यां फलैः चित्रैः जुहुयान्मधुराप्लुतैः ॥ पञ्चम्यां विशदाम्भोजैः शुक्रवारे सुगन्धिभिः । अन्यैर्वा विशदैः पुष्पैः प्रतिमासं फलावतीः ॥ स भवेदब्दमात्रेण सर्वदा सम्पदां निधिः ॥ इति दशाक्षरलक्ष्मीमन्त्रं सम्पूर्णम् ।