अक्षर आकार:

दक्षिणास्तोत्रम्

dakShiNAstotram

दक्षिणास्तोत्रम्

यज्ञपुरुष उवाच पुरा गोलोकगोपी त्वं गोपीनां प्रवरा परा । राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिये ॥ १॥ कार्तिकीपूर्णिमायां तु रासे राधामहोत्सवे । आविर्भूता दक्षिणांशात्कृष्णस्य तेन दक्षिणा ॥ २॥ पुरा त्वं हि सुशीलाऽऽख्या शीलेन शोभनेन च । कृष्णदक्षांशवासाच्च राधाशापाच्च दक्षिणा ॥ ३॥ गोलोकात्त्वं परिध्वस्ता मम भाग्यादुपस्थिता । कृपां कुरु त्वमेवाद्य स्वामिनं कुरु मां प्रिये ॥ ४॥ कर्मिणां कर्मणां देवी त्वमेव फलदा सदा । त्वया विना च सर्वेषां सर्वं कर्म च निष्फलम् ॥ ५॥ फलशाखाविहीनश्च यथा वृक्षो महीतले । त्वया विना तथा कर्म कर्मिणां च न शोभते ॥ ६॥ ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च । कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना ॥ ७॥ कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः । यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी ॥ ८॥ फलदाता परं ब्रह्म निर्गुणः प्रकृतेः परः । स्वयं कृष्णश्च भगवान्न च शक्तस्त्वया विना ॥ ९॥ त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि । सर्वकर्मणि शक्तोऽहं त्वया सह वरानने ॥ १०॥ इत्युक्त्वा तत्पुरस्तस्थौ यज्ञाधिष्ठातृदेवकः । तुष्टा बभूव सा देवी भजे तं कमला कला ॥ ११॥ इदं च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् । फलं च सर्वयज्ञानां लभते नात्र संशयः ॥ १२॥ इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे यज्ञपुरुषकृतं दक्षिणास्तोत्रं सम्पूर्णम् ॥