अक्षर आकार:

श्रीदीपलक्ष्मीस्तोत्रम्

shrIdIpalakShmIstotram

श्रीदीपलक्ष्मीस्तोत्रम्

दीपस्त्वमेव जगतां दयिता रुचिस्ते, दीर्घं तमः प्रतिनिवृत्यमितं युवाभ्याम् । स्तव्यं स्तवप्रियमतः शरणोक्तिवश्यं स्तोतुं भवन्तमभिलष्यति जन्तुरेषः ॥ दीपः पापहरो नॄणां दीप आपन्निवारकः दीपो विधत्ते सुकृतिं दीपस्सम्पत्प्रदायकः । देवानां तुष्टिदो दीपः पितॄणां प्रीतिदायकः दीपज्योतिः परम्ब्रह्म दीपज्योतिर्जनार्दनः ॥ दीपो हरतु मे पापं सन्ध्यादीप नमोऽस्तु ते ॥ फलश्रुतिः या स्त्री पतिव्रता लोके गृहे दीपं तु पूरयेत् । दीपप्रदक्षिणं कुर्यात् सा भवेद्वै सुमङ्गला ॥ इति श्रीदीपलक्ष्मीस्तोत्रं सम्पूर्णम् ।