अक्षर आकार:

दीपलक्ष्मीस्तवम्

dIpalakShmIstavam

दीपलक्ष्मीस्तवम्

अन्तर्गृहे हेमसुवेदिकायां सम्मार्जनालेपनकर्म कृत्वा । विधानधूपातुलपञ्चवर्णं चूर्णप्रयुक्ताद्भुतरङ्गवल्याम् ॥ अगाधसम्पूर्णसरस्समाने, गोसर्पिषाऽऽपूरितमध्यदेशे । मृणालतन्तुकृतवर्त्तियुक्ते पुष्पावतंसे तिलकाभिरामे ॥ परिष्कृतस्थापितरत्नदीपे ज्योतिर्मयीं प्रज्ज्वलयामि देवीम् । नमाम्यहं मत्कुलवृद्धिदात्रीं, सौदादि सर्वाङ्गणशोभमानाम् ॥ भो दीपलक्ष्मि प्रथितं यशो मे प्रदेहि माङ्गल्यममोघशीले । भर्तृप्रियां धर्मविशिष्टशीलां, कुरुष्व कल्याण्यनुकम्पया माम् ॥ यान्तर्बहिश्चापि तमोऽपहन्त्री, सन्ध्यामुखाराधितपादपद्मा । त्रयीसमुद्घोषितवैभवा सा, ह्यनन्यकामे हृदये विभातु ॥ भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः । आरोग्यं देहि पुत्रांश्च अवैधव्यं प्रयच्छ मे ॥ सन्ध्यादीपस्तवमिदं नित्यं नारी पठेत्तु या । सर्वसौभाग्ययुक्ता स्याल्लक्ष्म्यनुग्रहतस्सदा ॥ शरीरारोग्यमैश्वर्यमरिपक्षक्षयस्सुखम् । देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ इति दीपलक्ष्मी स्तवं सम्पूर्णम् ।