अक्षर आकार:

श्रीछिन्नमस्तासहस्रनामस्तोत्रम्

shrI ChinnamastA sahasranAma stotram

श्रीछिन्नमस्तासहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीदेव्युवाच । देवदेव महादेव सर्वशास्त्रविदांवर । कृपां कुरु जगन्नाथ कथयस्व मम प्रभो ॥ १॥ प्रचण्डचण्डिका देवी सर्वलोकहितैषिणी । तस्याश्च कथितं सर्वं स्तवं च कवचादिकम् ॥ २॥ इदानीं छिन्नमस्ताया नाम्नां साहस्रकं शुभम् । त्वं प्रकाशय मे देव कृपया भक्तवत्सल ॥ ३॥ श्रीशिव उवाच । श‍ृणु देवि प्रवक्ष्यामि च्छिन्नायाः सुमनोहरम् । गोपनीयं प्रयत्नेन यदीच्छेदात्मनो हितम् ॥ ४॥ न वक्तव्यं च कुत्रापि प्राणैः कण्ठगतैरपि । तच्छृणुष्व महेशानि सर्वं तत्कथयामि ते ॥ ५॥ विना पूजां विना ध्यानं विना जाप्येन सिद्ध्यति । विना ध्यानं तथा देवि विना भूतादिशोधनम् ॥ ६॥ पठनादेव सिद्धिः स्यात्सत्यं सत्यं वरानने । पुरा कैलासशिखरे सर्वदेवसभालये ॥ ७॥ परिपप्रच्छ कथितं तथा श‍ृणु वरानने । ॐ अस्य श्रीप्रचण्डचण्डिकासहस्रनामस्तोत्रस्य भैरव ऋषिः , सम्राट् छन्दः , प्रचण्डचण्डिका देवता , धर्मार्थकाममोक्षार्थे पाठे विनियोगः ॥ ८॥ ॐ प्रचण्डचण्डिका चण्डा चण्डदैत्यविनाशिनी । चामुण्डा च सचण्डा च चपला चारुदेहिनी ॥ ९॥ ललजिह्वा चलद्रक्ता चारुचन्द्रनिभानना । चकोराक्षी चण्डनादा चञ्चला च मनोन्मदा ॥ १०॥ चेतना चितिसंस्था च चित्कला ज्ञानरूपिणी । महाभयङ्करी देवी वरदाभयधारिणी ॥ ११॥ भवाढ्या भवरूपा च भवबन्धविमोचिनी । भवानी भुवनेशी च भवसंसारतारिणी ॥ १२॥ भवाब्धिर्भवमोक्षा च भवबन्धविघातिनी । भागीरथी भगस्था च भाग्यभोगप्रदायिनी ॥ १३॥ कमला कामदा दुर्गा दुर्गबन्धविमोचिनी । दुर्द्दर्शना दुर्गरूपा दुर्ज्ञेया दुर्गनाशिनी ॥ १४॥ दीनदुःखहरा नित्या नित्यशोकविनाशिनी । नित्यानन्दमया देवी नित्यं कल्याणकारिणी ॥ १५॥ सर्वार्थसाधनकरी सर्वसिद्धिस्वरूपिणी । सर्वक्षोभणशक्तिश्च सर्वविद्राविणी परा ॥ १६॥ सर्वरञ्जनशक्तिश्च सर्वोन्मादस्वरूपिणी । सर्वदा सिद्धिदात्री च सिद्धविद्यास्वरूपिणी ॥ १७॥ सकला निष्कला सिद्धा कलातीता कलामयी । कुलज्ञा कुलरूपा च चक्षुरानन्ददायिनी ॥ १८॥ कुलीना सामरूपा च कामरूपा मनोहरा । कमलस्था कञ्जमुखी कुञ्जरेश्वरगामिनी ॥ १९॥ कुलरूपा कोटराक्षी कमलैश्वर्यदायिनी । कुन्ती ककुद्मिनी कुल्ला कुरुकुल्ला करालिका ॥ २०॥ कामेश्वरी काममाता कामतापविमोचिनी । कामरूपा कामसत्वा कामकौतुककारिणी ॥ २१॥ कारुण्यहृदया क्रींक्रींमन्त्ररूपा च कोटरा । कौमोदकी कुमुदिनी कैवल्या कुलवासिनी ॥ २२॥ केशवी केशवाराध्या केशिदैत्यनिषूदिनी । क्लेशहा क्लेशरहिता क्लेशसङ्घविनाशिनी ॥ २३॥ कराली च करालास्या करालासुरनाशिनी । करालचर्मासिधरा करालकलनाशिनी ॥ २४॥ कङ्किनी कङ्कनिरता कपालवरधारिणी । खड्गहस्ता त्रिनेत्रा च खण्डमुण्डासिधारिणी ॥ २५॥ खलहा खलहन्त्री च क्षरन्ती खगता सदा । गङ्गागौतमपूज्या च गौरी गन्धर्ववासिनी ॥ २६॥ गन्धर्वा गगणाराध्या गणा गन्धर्वसेविता । गणत्कारगणा देवी निर्गुणा च गुणात्मिका ॥ २७॥ गुणता गुणदात्री च गुणगौरवदायिनी । गणेशमाता गम्भीरा गगणा ज्योतिकारिणी ॥ २८॥ गौराङ्गी च गया गम्या गौतमस्थानवासिनी । गदाधरप्रिया ज्ञेया ज्ञानगम्या गुहेश्वरी ॥ २९॥ गायत्री च गुणवती गुणातीता गुणेश्वरी । गणेशजननी देवी गणेशवरदायिनी ॥ ३०॥ गणाध्यक्षनुता नित्या गणाध्यक्षप्रपूजिता । गिरीशरमणी देवी गिरीशपरिवन्दिता ॥ ३१॥ गतिदा गतिहा गीता गौतमी गुरुसेविता । गुरुपूज्या गुरुयुता गुरुसेवनतत्परा ॥ ३२॥ गन्धद्वारा च गन्धाढ्या गन्धात्मा गन्धकारिणी । गीर्वाणपतिसम्पूज्या गीर्वाणपतितुष्टिदा ॥ ३३॥ गीर्वाणाधिशरमणी गीर्वाणाधिशवन्दिता । गीर्वाणाधिशसंसेव्या गीर्वाणाधिशहर्षदा ॥ ३४॥ गानशक्तिर्गानगम्या गानशक्तिप्रदायिनी । गानविद्या गानसिद्धा गानसन्तुष्टमानसा ॥ ३५॥ गानातीता गानगीता गानहर्षप्रपूरिता । गन्धर्वपतिसंहृष्टा गन्धर्वगुणमण्डिता ॥ ३६॥ गन्धर्वगणसंसेव्या गन्धर्वगणमध्यगा । गन्धर्वगणकुशला गन्धर्वगणपूजिता ॥ ३७॥ गन्धर्वगणनिरता गन्धर्वगणभूषिता । घर्घरा घोररूपा च घोरघुर्घुरनादिनी ॥ ३८॥ घर्मबिन्दुसमुद्भूता घर्मबिन्दुस्वरूपिणी । घण्टारवा घनरवा घनरूपा घनोदरी ॥ ३९॥ घोरसत्वा च घनदा घण्टानादविनोदनी । घोरचाण्डालिनी घोरा घोरचण्डविनाशिनी ॥ ४०॥ घोरदानवदमनी घोरदानवनाशिनी । घोरकर्मादिरहिता घोरकर्मनिषेविता ॥ ४१॥ घोरतत्वमयी देवी घोरतत्वविमोचनी । घोरकर्मादिरहिता घोरकर्मादिपूरिता ॥ ४२॥ घोरकर्मादिनिरता घोरकर्मप्रवर्द्धिनी । घोरभूतप्रमथिनी घोरवेतालनाशिनी ॥ ४३॥ घोरदावाग्निदमनी घोरशत्रुनिषूदिनी । घोरमन्त्रयुता चैव घोरमन्त्रप्रपूजिता ॥ ४४॥ घोरमन्त्रमनोभिज्ञा घोरमन्त्रफलप्रदा । घोरमन्त्रनिधिश्चैव घोरमन्त्रकृतास्पदा ॥ ४५॥ घोरमन्त्रेश्वरी देवी घोरमन्त्रार्थमानसा । घोरमन्त्रार्थतत्वज्ञा घोरमन्त्रार्थपारगा ॥ ४६॥ घोरमन्त्रार्थविभवा घोरमन्त्रार्थबोधिनी । घोरमन्त्रार्थनिचया घोरमन्त्रार्थजन्मभूः ॥ ४७॥ घोरमन्त्रजपरता घोरमन्त्रजपोद्यता । ङकारवर्णानिलया ङकाराक्षरमण्डिता ॥ ४८॥ ङकारापररूपा ङकाराक्षररूपिणी । चित्ररूपा चित्रनाडी चारुकेशी चयप्रभा ॥ ४९॥ चञ्चला चञ्चलाकारा चारुरूपा च चण्डिका । चतुर्वेदमयी चण्डा चण्डालगणमण्डिता ॥ ५०॥ चाण्डालच्छेदिनी चण्डतपोनिर्मूलकारिणी । चतुर्भुजा चण्डरूपा चण्डमुण्डविनाशिनी ॥ ५१॥ चन्द्रिका चन्द्रकीर्तिश्च चन्द्रकान्तिस्तथैव च । चन्द्रास्या चन्द्ररूपा च चन्द्रमौलिस्वरूपिणी ॥ ५२॥ चन्द्रमौलिप्रिया चन्द्रमौलिसन्तुष्टमानसा । चकोरबन्धुरमणी चकोरबन्धुपूजिता ॥ ५३॥ चक्ररूपा चक्रमयी चक्राकारस्वरूपिणी । चक्रपाणिप्रिया चक्रपाणिप्रीतिदायिनी ॥ ५४॥ चक्रपाणिरसाभिज्ञा चक्रपाणिवरप्रदा । चक्रपाणिवरोन्मत्ता चक्रपाणिस्वरूपिणी ॥ ५५॥ चक्रपाणिश्वरी नित्यं चक्रपाणिनमस्कृता । चक्रपाणिसमुद्भूता चक्रपाणिगुणास्पदा ॥ ५६॥ चन्द्रावली चन्द्रवती चन्द्रकोटिसमप्रभा । चन्दनार्चितपादाब्जा चन्दनान्वितमस्तका ॥ ५७॥ चारुकीर्तिश्चारुनेत्रा चारुचन्द्रविभूषणा । चारुभूषा चारुवेषा चारुवेषप्रदायिनी ॥ ५८॥ चारुभूषाभूषिताङ्गी चतुर्वक्त्रवरप्रदा । चतुर्वक्त्रसमाराध्या चतुर्वक्त्रसमाश्रिता ॥ ५९॥ चतुर्वक्त्रचतुर्वाहा चतुर्थी च चतुर्दशी । चित्रा चर्मण्वती चैत्री चन्द्रभागा च चम्पका ॥ ६०॥ चतुर्द्दशयमाकारा चतुर्दशयमानुगा । चतुर्दशयमप्रीता चतुर्दशयमप्रिया ॥ ६१॥ छलस्था च्छिद्ररूपा च च्छद्मदा च्छद्मराजिका । छिन्नमस्ता तथा च्छिन्ना च्छिन्नमुण्डविधारिणी ॥ ६२॥ जयदा जयरूपा च जयन्ती जयमोहिनी । जया जीवनसंस्था च जालन्धरनिवासिनी ॥ ६३॥ ज्वालामुखी ज्वालदात्री जाज्वल्यदहनोपमा । जगद्वन्द्या जगत्पूज्या जगत्त्राणपरायणा ॥ ६४॥ जगती जगताधारा जन्ममृत्युजरापहा । जननी जन्मभूमिश्चजन्मदा जयशालिनी ॥ ६५॥ ज्वररोगहरा ज्वाला ज्वालामालाप्रपूरिता । जम्भारातीश्वरी जम्भारातिवैभवकारिणी ॥ ६६॥ जम्भारातिस्तुता जम्भारातिशत्रुनिषूदिनी । जयदुर्गा जयाराध्या जयकाली जयेश्वरी ॥ ६७॥ जयतारा जयातीता जयशङ्करवल्लभा । जयदा जह्नुतनया जलधित्रासकारिणी ॥ ६८॥ जलधिव्याधिदमनी जलधिज्वरनाशिनी । जङ्गमेशी जाड्यहरा जाड्यसङ्घनिवारिणी ॥ ६९॥ जाड्यग्रस्तजनातीता जाड्यरोगनिवारिणी । जन्मदात्री जन्महर्त्री जयघोषसमन्विता ॥ ७०॥ जपयोगसमायुक्ता जपयोगविनोदिनी । जपयोगप्रिया जाप्या जपातीता जयस्वना ॥ ७१॥ जायाभावस्थिता जाया जायाभावप्रपूरणी । जपाकुसुमसङ्काशा जपाकुसुमपूजिता ॥ ७२॥ जपाकुसुमसम्प्रीता जपाकुसुममण्डिता । जपाकुसुमवद्भासा जपाकुसुमरूपिणी ॥ ७३॥ जमदग्निस्वरूपा च जानकी जनकात्मजा । झञ्झावातप्रमुक्ताङ्गी झोरझङ्कारवासिनी ॥ ७४॥ झङ्कारकारिणी झञ्झावातरूपा च झङ्करी । ञकाराणुस्वरूपा च टनटङ्कारनादिनी ॥ ७५॥ टङ्कारी टकुवाणी च ठकाराक्षररूपिणी । डिण्डिमा च तथा डिम्भा डिण्डुडिण्डिमनादिनी ॥ ७६॥ ढक्कामयी ढिलमयी नृत्यशब्दा विलासिनी । ढक्का ढक्केश्वरी ढक्काशब्दरूपा तथैव च ॥ ७७॥ ढक्कानादप्रिया ढक्कानादसन्तुष्टमानसा । णङ्कारा णाक्षरमयी णाक्षरादिस्वरूपिणी ॥ ७८॥ त्रिपुरा त्रिपुरमयी चैव त्रिशक्तिस्त्रिगुणात्मिका । तामसी च त्रिलोकेशी त्रिपुरा च त्रयीश्वरी ॥ ७९॥ त्रिविद्या च त्रिरूपा च त्रिनेत्रा च त्रिरूपिणी । तारिणी तरला तारा तारकारिप्रपूजिता ॥ ८०॥ तारकारिसमाराध्या तारकारिवरप्रदा । तारकारिप्रसूस्तन्वी तरुणी तरलप्रभा ॥ ८१॥ त्रिरूपा च त्रिपुरगा त्रिशूलवरधारिणी । त्रिशूलिनी तन्त्रमयी तन्त्रशास्त्रविशारदा ॥ ८२॥ तन्त्ररूपा तपोमूर्तिस्तन्त्रमन्त्रस्वरूपिणी । तडित्तडिल्लताकारा तत्वज्ञानप्रदायिनी ॥ ८३॥ तत्वज्ञानेश्वरी देवी तत्वज्ञानप्रबोधिनी । त्रयीमयी त्रयीसेव्या त्र्यक्षरी त्र्यक्षरेश्वरी ॥ ८४॥ तापविध्वंसिनी तापसङ्घनिर्मूलकारिणी । त्रासकर्त्री त्रासहर्त्री त्रासदात्री च त्रासहा ॥ ८५॥ तिथीशा तिथिरूपा च तिथिस्था तिथिपूजिता । तिलोत्तमा च तिलदा तिलप्रिता तिलेश्वरी ॥ ८६॥ त्रिगुणा त्रिगुणाकारा त्रिपुरी त्रिपुरात्मिका । त्रिकुटा त्रिकुटाकारा त्रिकुटाचलमध्यगा ॥ ८७॥ त्रिजटा च त्रिनेत्रा च त्रिनेत्रवरसुन्दरी । तृतीया च त्रिवर्षा च त्रिविधा त्रिमतेश्वरी ॥ ८८॥ त्रिकोणस्था त्रिकोणेशी त्रिकोणयन्त्रमध्यगा । त्रिसन्ध्या च त्रिसन्ध्यार्च्या त्रिपदा त्रिपदास्पदा ॥ ८९॥ स्थानस्थिता स्थलस्था च धन्यस्थलनिवासिनी । थकाराक्षररूपा च स्थलरूपा तथैव च ॥ ९०॥ स्थूलहस्ता तथा स्थूला स्थैर्यरूपप्रकाशिनी । दुर्गा दुर्गार्तिहन्त्री च दुर्गबन्धविमोचिनी ॥ ९१॥ देवी दानवसंहन्त्री दनुज्येष्ठनिषूदिनी । दारापत्यप्रदा नित्या शङ्करार्द्धाङ्गधारिणी ॥ ९२॥ दिव्याङ्गी देवमाता च देवदुष्टविनाशिनी । दीनदुःखहरा दीनतापनिर्मूलकारिणी ॥ ९३॥ दीनमाता दीनसेव्या दीनदम्भविनाशिनी । दनुजध्वंसिनी देवी देवकी देववल्लभा ॥ ९४॥ दानवारिप्रिया दीर्घा दानवारिप्रपूजिता । दीर्घस्वरा दीर्घतनुर्द्दीर्घदुर्गतिनाशिनी ॥ ९५॥ दीर्घनेत्रा दीर्घचक्षुर्द्दीर्घकेशी दिगम्बरा । दिगम्बरप्रिया दान्ता दिगम्बरस्वरूपिणी ॥ ९६॥ दुःखहीना दुःखहरा दुःखसागरतारिणी । दुःखदारिद्र्यशमनी दुःखदारिद्र्यकारिणी ॥ ९७॥ दुःखदा दुस्सहा दुष्टखण्डनैकस्वरूपिणी । देववामा देवसेव्या देवशक्तिप्रदायिनी ॥ ९८॥ दामिनी दामिनीप्रीता दामिनीशतसुन्दरी । दामिनीशतसंसेव्या दामिनीदामभूषिता ॥ ९९॥ देवताभावसन्तुष्टा देवताशतमध्यगा । दयार्द्दरा च दयारूपा दयादानपरायणा ॥ १००॥ दयाशीला दयासारा दयासागरसंस्थिता । दशविद्यात्मिका देवी दशविद्यास्वरूपिणी ॥ १०१॥ धरणी धनदा धात्री धन्या धन्यपरा शिवा । धर्मरूपा धनिष्ठा च धेया च धीरगोचरा ॥ १०२॥ धर्मराजेश्वरी धर्मकर्मरूपा धनेश्वरी । धनुर्विद्या धनुर्गम्या धनुर्द्धरवरप्रदा ॥ १०३॥ धर्मशीला धर्मलीला धर्मकर्मविवर्जिता । धर्मदा धर्मनिरता धर्मपाखण्डखण्डिनी ॥ १०४॥ धर्मेशी धर्मरूपा च धर्मराजवरप्रदा । धर्मिणी धर्मगेहस्था धर्माधर्मस्वरूपिणी ॥ १०५॥ धनदा धनदप्रीता धनधान्यसमृद्धिदा । धनधान्यसमृद्धिस्था धनधान्यविनाशिनी ॥ १०६॥ धर्मनिष्ठा धर्मधीरा धर्ममार्गरता सदा । धर्मबीजकृतस्थाना धर्मबीजसुरक्षिणी ॥ १०७॥ धर्मबीजेश्वरी धर्मबीजरूपा च धर्मगा । धर्मबीजसमुद्भूता धर्मबीजसमाश्रिता ॥ १०८॥ धराधरपतिप्राणा धराधरपतिस्तुता । धराधरेन्द्रतनुजा धराधरेन्द्रवन्दिता ॥ १०९॥ धराधरेन्द्रगेहस्था धराधरेन्द्रपालिनी । धराधरेन्द्रसर्वार्तिनाशिनी धर्मपालिनी ॥ ११०॥ नवीना निर्म्मला नित्या नागराजप्रपूजिता । नागेश्वरी नागमाता नागकन्या च नग्निका ॥ १११॥ निर्लेपा निर्विकल्पा च निर्लोमा निरुपद्रवा । निराहारा निराकारा निरञ्जनस्वरूपिणी ॥ ११२॥ नागिनी नागविभवा नागराजपरिस्तुता । नागराजगुणज्ञा च नागराजसुखप्रदा ॥ ११३॥ नागलोकगता नित्यं नागलोकनिवासिनी । नागलोकेश्वरी नागभागिनी नागपूजिता ॥ ११४॥ नागमध्यस्थिता नागमोहसंक्षोभदायिनी । नृत्यप्रिया नृत्यवती नृत्यगीतपरायणा ॥ ११५॥ नृत्येश्वरी नर्तकी च नृत्यरूपा निराश्रया । नारायणी नरेन्द्रस्था नरमुण्डास्थिमालिनी ॥ ११६॥ नरमांसप्रिया नित्या नररक्तप्रिया सदा । नरराजेश्वरी नारीरूपा नारीस्वरूपिणी ॥ ११७॥ नारीगणार्चिता नारीमध्यगा नूतनाम्बरा । नर्मदा च नदीरूपा नदीसङ्गमसंस्थिता ॥ ११८॥ नर्मदेश्वरसम्प्रीता नर्मदेश्वररूपिणी । पद्मावती पद्ममुखी पद्मकिञ्जल्कवासिनी ॥ ११९॥ पट्टवस्त्रपरीधाना पद्मरागविभूषिता । परमा प्रीतिदा नित्यं प्रेतासननिवासिनी ॥ १२०॥ परिपूर्णरसोन्मत्ता प्रेमविह्वलवल्लभा । पवित्रासवनिष्पूता प्रेयसी परमात्मिका ॥ १२१॥ प्रियव्रतपरा नित्यं परमप्रेमदायिनी । पुष्पप्रिया पद्मकोशा पद्मधर्मनिवासिनी ॥ १२२॥ फेत्कारिणी तन्त्ररूपा फेरुफेरवनादिनी । वंशिनी वंशरूपा च बगला वामरूपिणी ॥ १२३॥ वाङ्मयी वसुधा धृष्या वाग्भवाख्या वरा नरा । बुद्धिदा बुद्धिरूपा च विद्या वादस्वरूपिणी ॥ १२४॥ बाला वृद्धमयीरूपा वाणी वाक्यनिवासिनी । वरुणा वाग्वती वीरा वीरभूषणभूषिता ॥ १२५॥ वीरभद्रार्चितपदा वीरभद्रप्रसूरपि । वेदमार्गरता वेदमन्त्ररूपा वषट् प्रिया ॥ १२६॥ वीणावाद्यसमायुक्ता वीणावाद्यपरायणा । वीणारवा तथा वीणाशब्दरूपा च वैष्णवी ॥ १२७॥ वैष्णवाचारनिरता वैष्णवाचारतत्परा । विष्णुसेव्या विष्णुपत्नी विष्णुरूपा वरानना ॥ १२८॥ विश्वेश्वरी विश्वमाता विश्वनिर्माणकारिणी । विश्वरूपा च विश्वेशी विश्वसंहारकारिणी ॥ १२९॥ भैरवी भैरवाराध्या भूतभैरवसेविता । भैरवेशी तथा भीमा भैरवेश्वरतुष्टिदा ॥ १३०॥ भैरवाधिशरमणी भैरवाधिशपालिनी । भीमेश्वरी भीममाता भीमशब्दपरायणा ॥ १३१॥ भीमरूपा च भीमेशी भीमा भीमवरप्रदा । भीमपूजितपादाब्जा भीमभैरवपालिनी ॥ १३२॥ भीमासुरध्वंसकरी भीमदुष्टविनाशिनी । भुवना भुवनाराध्या भवानी भूतिदा सदा ॥ १३३॥ भयदा भयहन्त्री च अभया भयरूपिणी । भीमनादा विह्वला च भयभीतिविनाशिनी ॥ १३४॥ मत्ता प्रमत्तरूपा च मदोन्मत्तस्वरूपिणी । मान्या मनोज्ञा माना च मङ्गला च मनोहरा ॥ १३५॥ माननीया महापूज्या महामहिषमर्द्दिनी । महिषासुरहन्त्री च मातङ्गी मयवासिनी ॥ १३६॥ माध्वी मधुमयी मुद्रा मुद्रिका मन्त्ररूपिणी । महाविश्वेश्वरी दूती मौलिचन्द्रप्रकाशिनी ॥ १३७॥ यशःस्वरूपिणी देवी योगमार्गप्रदायिनी । योगिनी योगगम्या च याम्येशी योगरूपिणी ॥ १३८॥ यज्ञाङ्गी च योगमयी जपरूपा जपात्मिका । युगाख्या च युगान्ता च योनिमण्डलवासिनी ॥ १३९॥ अयोनिजा योगनिद्रा योगानन्दप्रदायिनी । रमा रतिप्रिया नित्यं रतिरागविवर्द्धिनी ॥ १४०॥ रमणी राससम्भूता रम्या रासप्रिया रसा । रणोत्कण्ठा रणस्था च वरा रङ्गप्रदायिनी ॥ १४१॥ रेवती रणजैत्री च रसोद्भूता रणोत्सवा । लता लावण्यरूपा च लवणाब्धिस्वरूपिणी ॥ १४२॥ लवङ्गकुसुमाराध्या लोलजिह्वा च लेलिहा । वशिनी वनसंस्था च वनपुष्पप्रिया वरा ॥ १४३॥ प्राणेश्वरी बुद्धिरूपा बुद्धिदात्री बुधात्मिका । शमनी श्वेतवर्णा च शाङ्करी शिवभाषिणी ॥ १४४॥ श्याम्यरूपा शक्तिरूपा शक्तिबिन्दुनिवासिनी । सर्वेश्वरी सर्वदात्री सर्वमाता च शर्वरी ॥ १४५॥ शाम्भवी सिद्धिदा सिद्धा सुषुम्ना सुरभासिनी । सहस्रदलमध्यस्था सहस्रदलवर्त्तिनी ॥ १४६॥ हरप्रिया हरध्येया हूँकारबीजरूपिणी । लङ्केश्वरी च तरला लोममांसप्रपूजिता ॥ १४७॥ क्षेम्या क्षेमकरी क्षामा क्षीरबिन्दुस्वरूपिणी । क्षिप्तचित्तप्रदा नित्यं क्षौमवस्त्रविलासिनी ॥ १४८॥ छिन्ना च च्छिन्नरूपा च क्षुधा क्षौत्काररूपिणी । सर्ववर्णमयी देवी सर्वसम्पत्प्रदायिनी ॥ १४९॥ सर्वसम्पत्प्रदात्री च सम्पदापद्विभूषिता । सत्त्वरूपा च सर्वार्था सर्वदेवप्रपूजिता ॥ १५०॥ सर्वेश्वरी सर्वमाता सर्वज्ञा सुरसृत्मिका । सिन्धुर्मन्दाकिनी गङ्गा नदीसागररूपिणी ॥ १५१॥ सुकेशी मुक्तकेशी च डाकिनी वरवर्णिनी । ज्ञानदा ज्ञानगगना सोममण्डलवासिनी ॥ १५२॥ आकाशनिलया नित्या परमाकाशरूपिणी । अन्नपूर्णा महानित्या महादेवरसोद्भवा ॥ १५३॥ मङ्गला कालिका चण्डा चण्डनादातिभीषणा । चण्डासुरस्य मथिनी चामुण्डा चपलात्मिका ॥ १५४॥ चण्डी चामरकेशी च चलत्कुण्डलधारिणी । मुण्डमालाधरा नित्या खण्डमुण्डविलासिनी ॥ १५५॥ खड्गहस्ता मुण्डहस्ता वरहस्ता वरप्रदा । असिचर्मधरा नित्या पाशाङ्कुशधरा परा ॥ १५६॥ शूलहस्ता शिवहस्ता घण्टानादविलासिनी । धनुर्बाणधराऽऽदित्या नागहस्ता नगात्मजा ॥ १५७॥ महिषासुरहन्त्री च रक्तबीजविनाशिनी । रक्तरूपा रक्तगा च रक्तहस्ता भयप्रदा ॥ १५८॥ असिता च धर्मधरा पाशाङ्कुशधरा परा । धनुर्बाणधरा नित्या धूम्रलोचननाशिनी ॥ १५९॥ परस्था देवतामूर्तिः शर्वाणी शारदा परा । नानावर्णविभूषाङ्गी नानारागसमापिनी ॥ १६०॥ पशुवस्त्रपरीधाना पुष्पायुधधरा परा । मुक्तरञ्जितमालाढ्या मुक्ताहारविलासिनी ॥ १६१॥ स्वर्णकुण्डलभूषा च स्वर्णसिंहासनस्थिता । सुन्दराङ्गी सुवर्णाभा शाम्भवी शकटात्मिका ॥ १६२॥ सर्वलोकेशविद्या च मोहसम्मोहकारिणी । श्रेयसी सृष्टिरूपा च च्छिन्नच्छद्ममयी च्छला ॥ १६३॥ छिन्नमुण्डधरा नित्या नित्यानन्दविधायिनी । नन्दा पूर्णा च रिक्ता च तिथयः पूर्णषोडशी ॥ १६४॥ कुहूः सङ्क्रान्तिरूपा च पञ्चपर्वविलासिनी । पञ्चबाणधरा नित्या पञ्चमप्रीतिदा परा ॥ १६५॥ पञ्चपत्राभिलाषा च पञ्चामृतविलासिनी । पञ्चाली पञ्चमी देवी पञ्चरक्तप्रसारिणी ॥ १६६॥ पञ्चबाणधरा नित्या नित्यदात्री दयापरा । पललादिप्रिया नित्याऽपशुगम्या परेशिता ॥ १६७॥ परा पररहस्या च परमप्रेमविह्वला । कुलिना केशिमार्गस्था कुलमार्गप्रकाशिनी ॥ १६८॥ कुलाकुलस्वरूपा च कुलार्णवमयी कुला । रुक्मा च कालरूपा च कालकम्पनकारिणी ॥ १६९॥ विलासरूपिणी भद्रा कुलाकुलनमस्कृता । कुबेरवित्तधात्री च कुमारजननी परा ॥ १७०॥ कुमारीरूपसंस्था च कुमारीपूजनाम्बिका । कुरङ्गनयना देवी दिनेशास्याऽपराजिता ॥ १७१॥ कुण्डलीकदली सेना कुमार्गरहिता वरा । अनतरूपाऽनन्तस्था आनन्दसिन्धुवासिनी ॥ १७२॥ इलास्वरूपिणी देवी इईभेदभयङ्करी । इडा च पिङ्गला नाडी इकाराक्षररूपिणी ॥ १७३॥ उमा चोत्पत्तिरूपा च उच्चभावविनाशिनी । ऋग्वेदा च निराराध्या यजुर्वेदप्रपूजिता ॥ १७४॥ सामवेदेन सङ्गीता अथर्ववेदभाषिणी । ऋकाररूपिणी ऋक्षा निरक्षरस्वरूपिणी ॥ १७५॥ अहिदुर्गासमाचारा इकारार्णस्वरूपिणी । ॐकारा प्रणवस्था च ॐकारादिस्वरूपिणी ॥ १७६॥ अनुलोमविलोमस्था थकारवर्णसम्भवा । पञ्चाशद्वर्णबीजाढ्या पञ्चाशन्मुण्डमालिका ॥ १७७॥ प्रत्येका दशसंख्या च षोडशी च्छिन्नमस्तका । षडङ्गयुवतीपूज्या षडङ्गरूपवर्जिता ॥ १७८॥ षड्वक्त्रसंश्रिता नित्या विश्वेशी खड्गदालया । मालामन्त्रमयी मन्त्रजपमाता मदालसा ॥ १७९॥ सर्वविश्वेश्वरी शक्तिः सर्वानन्दप्रदायिनी । इति श्रीच्छिन्नमस्ताया नामसहस्रमुत्तमम् ॥ १८०॥ पूजाक्रमेण कथितं साधकानां सुखावहम् । गोपनीयं गोपनीयं गोपनीयं न संशयः ॥ १८१॥ अर्द्धरात्रे मुक्तकेशो भक्तियुक्तो भवेन्नरः । जपित्वा पूजयित्वा च पठेन्नामसहस्रकम् ॥ १८२॥ विद्यासिद्धिर्भवेत्तस्य षण्मासाभ्यासयोगतः । येन केन प्रकारेण देवीभक्तिपरो भवेत् ॥ १८३॥ अखिलान्स्तम्भयेल्लोकांराज्ञोऽपि मोहयेत्सदा । आकर्षयेद्देवशक्तिं मारयेद्देवि विद्विषम् ॥ १८४॥ शत्रवो दासतां यान्ति यान्ति पापानि संक्षयम् । मृत्युश्च क्षयतां याति पठनाद्भाषणात्प्रिये ॥ १८५॥ प्रशस्तायाः प्रसादेन किं न सिद्ध्यति भूतले । इदं रहस्यं परमं परं स्वस्त्ययनं महत् ॥ १८६॥ धृत्वा बाहौ महासिद्धिः प्राप्यते नात्र संशयः । अनया सदृशी विद्या विद्यते न महेश्वरि ॥ १८७॥ वारमेकं तु योऽधीते सर्वसिद्धीश्वरो भवेत् । कुलवारे कुलाष्टम्यां कुहूसङ्क्रान्तिपर्वसु ॥ १८८॥ यश्चेमं पठते विद्यां तस्य सम्यक्फलं श‍ृणु । अष्टोत्तरशतं जप्त्वा पठेन्नामसहस्रकम् ॥ १८९॥ भक्त्या स्तुत्वा महादेवि सर्वपापात्प्रमुच्यते । सर्वपापैर्विनिर्मुक्तः सर्वसिद्धीश्वरो भवेत् ॥ १९०॥ अष्टम्यां वा निशीथे च चतुष्पथगतो नरः । माषभक्तबलिं दत्वा पठेन्नामसहस्रकम् ॥ १९१॥ सुदर्शवामवेद्यां तु मासत्रयविधानतः । दुर्जयः कामरूपश्च महाबलपराक्रमः ॥ १९२॥ कुमारीपूजनं नाम मन्त्रमात्रं पठेन्नरः । एतन्मन्त्रस्य पठनात्सर्वसिद्धीश्वरो भवेत् ॥ १९३॥ इति ते कथितं देवि सर्वसिद्धिपरं नरः । जप्त्वा स्तुत्वा महादेवीं सर्वपापैः प्रमुच्यते ॥ १९४॥ न प्रकाश्यमिदं देवि सर्वदेवनमस्कृतम् । इदं रहस्यं परमं गोप्तव्यं पशुसङ्कटे ॥ १९५॥ इति सकलविभूतेर्हेतुभूतं प्रशस्तं पठति य इह मर्त्त्यश्छिन्नमस्तास्तवं च । धनद इव धनाढ्यो माननीयो नृपाणां स भवति च जनानामाश्रयः सिद्धिवेत्ता ॥ १९६॥ ॥ इति श्रीविश्वसारतन्त्रे शिवपार्वतीसंवादे श्रीच्छिन्नमस्तासहस्रनामस्तोत्रं सम्पूर्णम् ॥