अक्षर आकार:

श्रीचक्रेश्वरीस्तोत्रम्

Shri Chakreshvaristotram

श्रीचक्रेश्वरीस्तोत्रम्

श्रीजीनदत्तसूरिविरचितं श्रीचक्रेश्वरि चक्रचुम्बितकरे चञ्चच्चलत्कुण्डला- लङ्कारे कृतमस्तकोरुमुकुटे ग्रैवेयकालङ्कृते । स्फारोदारभुजाग्रभूषणकरे सन्नूपुरैर्बन्धुरे मातर्मन्ति नयं स्वमिष्टविनयं त्रायस्व सन्त्रासतः ॥ १॥ श्रीचकेश्वरी चन्द्रमण्डलमिव ध्वस्तान्धकारोत्करं भव्यप्राणिचकोरचुम्बितकरं सन्तापसम्पद्धरम् । सम्यग्दृष्टिसुखप्रदं सुविशदं कान्त्यास्पदं सम्पदां पात्रं जीवमनःप्रसादजनकं भाति त्वदीयं मुखम् ॥ २॥ श्रीचकेश्वरी युष्मदाननरविं पश्यन्ति नैवोदितं ध्वस्तध्वान्तततिं प्रदत्तसुगतिं संप्राप्तमार्गस्थितिम् । ते ज्ञेया इह कौशिका इव जना हेयाः सतां सर्वथा नादेयाः कुदृशो भवन्ति भगवन्युच्चैःशिव वाञ्छताम् ॥ ३॥ श्रीचक्रेश्वरी युष्मदङ्घ्रिचरितं सर्वत्र तद्विश्रुतं कस्याज्ञस्य मनोमुदे भवति नो निष्पुण्यचूडामणेः । कारुण्यान्वितमङ्गिसम्मतमतिभ्रान्तिप्रशान्तप्रियं श्रीसङ्केतगृहं सदास्तविरहं पुण्यानुबन्धि स्फुटम् ॥ ४॥ श्रीचकेश्वरि ये स्तुवन्ति भवतीं भव्या भवद्भक्तयः श्रीसर्वज्ञपदारविन्दयुगले विश्राममातन्वतीम् । भृङ्गीवत्सदृशां सुखं त्वसदृशं संप्रार्थयन्तो जना- स्ते स्युर्ध्वस्तविपत्तयः सुमतयः स्पष्टं जितारातयः ॥ ५॥ श्रीचक्रेश्वरि नित्यमेव भवतीनामाऽपि ये सादरं सन्तः सत्यशमाश्रिताः प्रतिपदं सम्यक् स्मरन्ति स्फुरत् । तेषां किं दुरितानि यान्ति निकटे नायाति किं श्रीर्गृहे नोपैति द्विषतां गणोऽपि विलयं नाऽभीष्टसिद्धिर्भवेत् ॥ ६॥ श्रीचक्रेश्वरि ये भवन्ति भवतीपादारान्वेन्दाश्रिता- स्ते भृङ्गा इव कामितार्थमधुनः पात्रं सदैवाङ्गिनः । जायन्ते जगति प्रतीतिभवनं भव्याः स्फुरत्कीर्त्तय- स्तेषां क्वापि कदापि सा भवति नो दारिद्र्यमुद्रा गृहे ॥ ७॥ श्रीचक्रेश्वरि यः स्तवं तव करोत्युच्चैः स किं मानवः कस्मादन्यजनाच्च याचत इह क्लेशैर्विमुक्ताशयः । कासश्वासशिरोगलग्रहकटीवातातिसारज्वर- स्रोतोनेत्रगतामयैरपि न स श्रेयानिह प्रार्थते ॥ ८॥ श्रीचक्रेश्वरि शासनं जिनपतेस्तद्रक्षसि त्वं मुदा ये केचिज्जिनभाषितान्यवितथात्युच्चैः प्रजल्पन्ति च । भव्यानां पुरतो हितानि कुरुषे तेषां तु तुष्टिं सदा क्षुद्रोपद्रवविद्रवं प्रतिपदं कृत्वा कृतान्तादपि ॥ ९॥ श्रीचक्रेश्वरि विश्वविस्मयकरी त्वं कल्पवृक्षोपमा धत्सेऽभीष्टफलानि वस्तुनिकृतिं दत्से विना संशयम् । तेन त्वं विनुता मयाऽपि भवती मत्वेति मन्निश्चयं कुर्याः श्रीजनदत्तभक्तिषु मनो मे सर्वदा सर्वथा ॥ १०॥ इति श्रीजीनदत्तसूरिविरचितं श्रीचक्रेश्वरीस्तोत्रं सम्पूर्णम् ।