अक्षर आकार:

श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम्

shrIbhuvaneshvaryaShTottarashatanAmastotram

श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम्

अथ श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम् । ईश्वर उवाच महासम्मोहिनी देवी सुन्दरी भुवनेश्वरी । एकाक्षरी एकमन्त्री एकाकी लोकनायिका ॥ १॥ एकरूपा महारूपा स्थूलसूक्ष्मशरीरिणी । बीजरूपा महाशक्तिः सङ्ग्रामे जयवर्धिनी ॥ २॥ महारतिर्महाशक्तिर्योगिनी पापनाशिनी । अष्टसिद्धिः कलारूपा वैष्णवी भद्रकालिका ॥ ३॥ भक्तिप्रिया महादेवी हरिब्रह्मादिरूपिणी । शिवरूपी विष्णुरूपी कालरूपी सुखासिनी ॥ ४॥ पुराणी पुण्यरूपा च पार्वती पुण्यवर्धिनी । रुद्राणी पार्वतीन्द्राणी शङ्करार्धशरीरिणी ॥ ५॥ नारायणी महादेवी महिषी सर्वमङ्गला । अकारादिक्षकारान्ता ह्यष्टात्रिंशत्कलाधरी ॥ ६॥ सप्तमा त्रिगुणा नारी शरीरोत्पत्तिकारिणी । आकल्पान्तकलाव्यापिसृष्टिसंहारकारिणी ॥ ७॥ सर्वशक्तिर्महाशक्तिः शर्वाणी परमेश्वरी । हृल्लेखा भुवना देवी महाकविपरायणा ॥ ८॥ इच्छाज्ञानक्रियारूपा अणिमादिगुणाष्टका । नमः शिवायै शान्तायै शाङ्करि भुवनेश्वरि ॥ ९॥ वेदवेदाङ्गरूपा च अतिसूक्ष्मा शरीरिणी । कालज्ञानी शिवज्ञानी शैवधर्मपरायणा ॥ १०॥ कालान्तरी कालरूपी संज्ञाना प्राणधारिणी । खड्गश्रेष्ठा च खट्वाङ्गी त्रिशूलवरधारिणी ॥ ११॥ अरूपा बहुरूपा च नायिका लोकवश्यगा । अभया लोकरक्षा च पिनाकी नागधारिणी ॥ १२॥ वज्रशक्तिर्महाशक्तिः पाशतोमरधारिणी । अष्टादशभुजा देवी हृल्लेखा भुवना तथा ॥ १३॥ खड्गधारी महारूपा सोमसूर्याग्निमध्यगा । एवं शताष्टकं नाम स्तोत्रं रमणभाषितम् ॥ १४॥ सर्वपापप्रशमनं सर्वारिष्टनिवारणम् । सर्वशत्रुक्षयकरं सदा विजयवर्धनम् ॥ १५॥ आयुष्करं पुष्टिकरं रक्षाकरं यशस्करम् । अमरादिपदैश्वर्यममत्वांशकलापहम् ॥ १६॥ इति श्रीरुद्रयामले तन्त्रे भुवनेश्वर्यष्टोत्तरशतनाम समाप्तम् ।