अक्षर आकार:

श्रीभुवनेश्वरीत्रिशतीनामावलिः

Shri Bhuvaneshvari Trishati Namavali

श्रीभुवनेश्वरीत्रिशतीनामावलिः

अस्य श्रीभुवनेश्वरी त्रिशतीमालामहामन्त्रस्य सदाशिवऋषिः, अनुष्टुप्छन्दः, भुवनेश्वरी देवता, लज्जा बीजम्, कमला शक्तिः वाग्भवं कीलकं सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः - ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतल-कर पृष्ठाभ्यां नमः ॥ अङ्गन्यासः - ॐ ह्रां हृदयाय नमः । ह्रीं शिरसे स्वाहा । ह्रूं शिखायै वषट् । ह्रैं कवचाय हुं । ह्रौं नेत्रत्रयाय वौषट् । ह्रः अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानं - आद्यामशेषजननीमरविन्दयोनेः विष्णोः शिवस्य वपुः प्रतिपादयित्रीं सृष्टि स्थिति । क्षयकरीं जगतां त्रयाणां ध्याये हृदा विमलयान्वहमम्बिके त्वाम् ॥ पञ्चपूजा - ॐ लं पृथिव्यात्मने गन्धान् धारयामि । अं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपं आग्रपयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ अथ श्रीभुवनेश्वरीत्रिशतीनामावलिः । ॐ ह्रीङ्कार प्रणवाकारायै नमः । ॐ ह्रीङ्कार प्रणवात्मिकायै नमः । ॐ ह्रीङ्कार पीठमध्यस्थायै नमः । ॐ ह्रीङ्कार प्रणवार्थदायै नमः । ॐ ह्रीङ्कार पद्मनिलयायै नमः । ॐ ह्रीङ्कारार्णव नाडिकायै नमः । ॐ ह्रीङ्कार फालतिलकायै नमः । ॐ ह्रीङ्कार मुखलोचनायै नमः । ॐ ह्रीङ्कार लोचनान्तस्थायै नमः । ॐ ह्रीङ्कार गृहदीपिकायै नमः । ॐ ह्रीङ्कार वक्त्ररसनायै नमः । ॐ ह्रीङ्कार तरुकोमळायै नमः । ॐ ह्रीङ्कार दन्तिनिलयायै नमः । ॐ ह्रीङ्कार शशिशीतलायै नमः । ॐ ह्रीङ्कार तुरगारूढायै नमः । ॐ ह्रीङ्कार पुरवासिन्यै नमः । ॐ ह्रीङ्कार वनमध्यस्थायै नमः । ॐ ह्रीङ्कार वनकेसरिण्यै नमः । ॐ ह्रीङ्कार वनसञ्चारिण्यै नमः । ॐ ह्रीङ्कार वनकुञ्जर्यै नमः । २० ॐ ह्रीङ्कार शैलनिलयायै नमः । ॐ ह्रीङ्कार गृहवासिन्यै नमः । ॐ ह्रीङ्कार रससारज्ञायै नमः । ॐ ह्रीङ्कार कुचकञ्चुकायै नमः । ॐ ह्रीङ्कार नासाभरणायै नमः । ॐ ह्रीङ्काराम्बुजचञ्चलायै नमः । ॐ ह्रीङ्कार नासिकाश्वासायै नमः । ॐ ह्रीङ्कार करकङ्कणायै नमः । ॐ ह्रीङ्कार वृक्षकुसुमायै नमः । ॐ ह्रीङ्कार तरुपल्लवायै नमः । ॐ ह्रीङ्कार पुष्पसौरभ्यायै नमः । ॐ ह्रीङ्कार मणिभूषणायै नमः । ॐ ह्रीङ्कार मन्त्रफलदायै नमः । ॐ ह्रीङ्कार फलरूपिण्यै नमः । ॐ ह्रीङ्कार फलसारज्ञायै नमः । ॐ ह्रीङ्कार गृहमङ्गळायै नमः । ॐ ह्रीङ्कार मेघसलिलायै नमः । ॐ ह्रीङ्काराम्बरनिर्मलायै नमः । ॐ ह्रीङ्कार मेरुनिलयायै नमः । ॐ ह्रीङ्कार जपमालिकायै नमः । ४० ॐ ह्रीङ्कार हारपदकायै नमः । ॐ ह्रीङ्कार हारभूषणायै नमः । ॐ ह्रीङ्कार हृदयान्तस्थायै नमः । ॐ ह्रीङ्कारार्णवमौक्तिकायै नमः । ॐ ह्रीङ्कार यज्ञनिलयायै नमः । ॐ ह्रीङ्कार हिमशैलजायै नमः । ॐ ह्रीङ्कार मधुमाधुर्यायै नमः । ॐ ह्रीङ्कार भुविसंस्थितायै नमः । ॐ ह्रीङ्कार दर्पणान्तस्थायै नमः । ॐ ह्रीङ्कार द्रुमवासिन्यै नमः । ॐ ह्रीङ्कार विद्रुमलतायै नमः । ॐ ह्रीङ्कार गृहवासिन्यै नमः । ॐ ह्रीङ्कार हृदयानन्दायै नमः । ॐ ह्रीङ्कार रससंस्थितायै नमः । ॐ ह्रीङ्कार मुखलावण्यायै नमः । ॐ ह्रीङ्कार पदनूपुरायै नमः । ॐ ह्रीङ्कार मञ्चशयनायै नमः । ॐ ह्रीङ्कार पदसञ्चारायै नमः । ॐ ह्रीङ्कार नादश्रवणायै नमः । ॐ ह्रीङ्कार शुकभाषिण्यै नमः । ६० ॐ ह्रीङ्कार पादुकाऽऽरूढायै नमः । ॐ ह्रीङ्कार मृगलोचनायै नमः । ॐ ह्रीङ्कार रथशिखरायै नमः । ॐ ह्रीङ्कार पयसां निधये नमः । ॐ ह्रीङ्कार बिन्दुनादज्ञायै नमः । ॐ ह्रीङ्कार रथपट्टिकायै नमः । ॐ ह्रीङ्कार रथसारथ्यै नमः । ॐ ह्रीङ्कार रथनिर्मितायै नमः । ॐ ह्रीङ्कार पादविजयायै नमः । ॐ ह्रीङ्कारानल संस्थितायै नमः । ॐ ह्रीङ्कार जगदाधारायै नमः । ॐ ह्रीङ्कार क्षितरक्षणायै नमः । ॐ ह्रीङ्कार हेमप्रतिमायै नमः । ॐ ह्रीङ्कार करपङ्कजायै नमः । ॐ ह्रीङ्कार ज्ञानविज्ञानायै नमः । ॐ ह्रीङ्कार शुकवाहनायै नमः । ॐ ह्रीङ्कार गात्रालङ्कारायै नमः । ॐ ह्रीङ्कार मनुसिद्धिदायै नमः । ॐ ह्रीङ्कार पञ्जरशुकायै नमः । ॐ ह्रीङ्कार परतत्परायै नमः । ८० ॐ ह्रीङ्कार जपसुप्रीतायै नमः । ॐ ह्रीङ्कार सदसिस्थितायै नमः । ॐ ह्रीङ्कार कूपसलिलायै नमः । ॐ ह्रीङ्कार मृगवाहनायै नमः । ॐ ह्रीङ्कार स्वर्गसोपानायै नमः । ॐ ह्रीङ्कार भ्रूसुमध्यकायै नमः । ॐ ह्रीङ्कार मुक्ताफलदायै नमः । ॐ ह्रीङ्कारोदकनिर्मलायै नमः । ॐ ह्रीङ्कार किङ्किणीनादायै नमः । ॐ ह्रीङ्कार कुसुमार्चितायै नमः । ॐ ह्रीङ्कार कर्णिकासक्तायै नमः । ॐ ह्रीङ्काराङ्गकयौवनायै नमः । ॐ ह्रीङ्कार मन्दिरान्तस्थायै नमः । ॐ ह्रीङ्कार मनुनिश्चलाय यै नमः । ॐ ह्रीङ्कार पुष्पभ्रमरायै नमः । ॐ ह्रीङ्कार तरुशारिकायै नमः । ॐ ह्रीङ्कार कण्ठाभरणायै नमः । ॐ ह्रीङ्कार ज्ञानलोचनायै नमः । ॐ ह्रीङ्कार हंसगमनायै नमः । ॐ ह्रीङ्कार मणिदीधितिकायै नमः । १०० ॐ ह्रीङ्कार कनकशोभायै नमः । ॐ ह्रीङ्कार कमलार्चितायै नमः । ॐ ह्रीङ्कार हिमशैलस्थायै नमः । ॐ ह्रीङ्कार क्षितिपालिन्यै नमः । ॐ ह्रीङ्कार तरुमूलस्थायै नमः । ॐ ह्रीङ्कार कमलेन्दिरायै नमः । ॐ ह्रीङ्कार मन्त्रसामर्थ्यायै नमः । ॐ ह्रीङ्कार गुणनिर्मलायै नमः । ॐ ह्रीङ्कार विद्याप्रकटायै नमः । ॐ ह्रीङ्कार ध्यानधारिण्यै नमः । ॐ ह्रीङ्कार गीतश्रवणायै नमः । ॐ ह्रीङ्कार गिरिसंस्थितायै नमः । ॐ ह्रीङ्कार विद्यासुभगायै नमः । ॐ ह्रीङ्कार ललनाशुभायै नमः । ॐ ह्रीङ्कार विद्याश्रवणायै नमः । ॐ ह्रीङ्कार विधिबोधनायै नमः । ॐ ह्रीङ्कार हस्तिगमनायै नमः । ॐ ह्रीङ्कार गजवाहनायै नमः । ॐ ह्रीङ्कार विद्यानिपुणायै नमः । ॐ ह्रीङ्कार श्रुतिभाषिण्यै नमः । १२० ॐ ह्रीङ्कार जयविजयायै नमः । ॐ ह्रीङ्कार जयकारिण्यै नमः । ॐ ह्रीङ्कार जङ्गमारूढायै नमः । ॐ ह्रीङ्कार जयदायिन्यै नमः । ॐ ह्रीङ्कार परतत्वज्ञायै नमः । ॐ ह्रीङ्कार परबोधिन्यै नमः । ॐ ह्रीङ्कारेन्द्रजालज्ञायै नमः । ॐ ह्रीङ्कार कुतुकप्रियायै नमः । ॐ ह्रीङ्कारागमशास्त्रज्ञायै नमः । ॐ ह्रीङ्कार छान्दसस्वरायै नमः । ॐ ह्रीङ्कार परमानन्दायै नमः । ॐ ह्रीङ्कार पटचित्रिकायै नमः । ॐ ह्रीङ्कार कर्णताटङ्कायै नमः । ॐ ह्रीङ्कार करुणार्णवायै नमः । ॐ ह्रीङ्कार क्रियासामर्थ्यायै नमः । ॐ ह्रीङ्कार क्रियाकारिण्यै नमः । ॐ ह्रीङ्कार तन्त्रचतुरायै नमः । ॐ ह्रीङ्कारार्ध्वरदक्षिणायै नमः । ॐ ह्रीङ्कार मालिकाहारायै नमः । ॐ ह्रीङ्कार सुमुखस्मितायै नमः । १४० ॐ ह्रीङ्कार देहनिलयायै नमः । ॐ ह्रीङ्कार स्तनमण्डितायै नमः । ॐ ह्रीङ्कार बीजस्मरणायै नमः । ॐ ह्रीङ्कार भ्रूविलासिन्यै नमः । ॐ ह्रीङ्कार पुस्तककरायै नमः । ॐ ह्रीङ्कार धनवर्धिन्यै नमः । ॐ ह्रीङ्कार क्रियासन्तुष्टायै नमः । ॐ ह्रीङ्कार क्रियासाक्षिण्यै नमः । ॐ ह्रीङ्कार वेदिकान्तस्थायै नमः । ॐ ह्रीङ्कार मकुटोज्वलायै नमः । ॐ ह्रीङ्कार पवनावेगायै नमः । ॐ ह्रीङ्कार पदरञ्जकायै नमः । ॐ ह्रीङ्कार धान्यविभवायै नमः । ॐ ह्रीङ्कार भववैभवायै नमः । ॐ ह्रीङ्कार वैभवोत्साहायै नमः । ॐ ह्रीङ्कार भवरञ्जकायै नमः । ॐ ह्रीङ्कार योगसन्तुष्टायै नमः । ॐ ह्रीङ्कार योगसंस्थितायै नमः । ॐ ह्रीङ्कार भाग्यनिलयायै नमः । ॐ ह्रीङ्कार भाग्यदायिन्यै नमः । १६० ॐ ह्रीङ्कार रत्नसौवर्णायै नमः । ॐ ह्रीङ्कार स्वर्णश‍ृङ्खलायै नमः । ॐ ह्रीङ्कार शङ्खनादज्ञायै नमः । ॐ ह्रीङ्कार शिखिवाहनायै नमः । ॐ ह्रीङ्कार पर्वतारूढायै नमः । ॐ ह्रीङ्कार प्राणसाक्षिण्यै नमः । ॐ ह्रीङ्कार पर्वतान्तस्थायै नमः । ॐ ह्रीङ्कार पुरमध्यगायै नमः । ॐ ह्रीङ्कार रविमध्यस्थायै नमः । ॐ ह्रीङ्काराम्बरचन्द्रिकायै नमः । ॐ ह्रीङ्कार गगनाकारायै नमः । ॐ ह्रीङ्कार व्योमतारकायै नमः । ॐ ह्रीङ्कार विश्वजनन्यै नमः । ॐ ह्रीङ्कार पुरपालिन्यै नमः । ॐ ह्रीङ्कार विश्वनिलयायै नमः । ॐ ह्रीङ्कारेक्षु रसप्रियायै नमः । ॐ ह्रीङ्कार विश्वमध्यस्थायै नमः । ॐ ह्रीङ्कार क्षितिमर्षिण्यै नमः । ॐ ह्रीङ्कार विश्वसान्निध्यायै नमः । ॐ ह्रीङ्कार स्वर्गवासिन्यै नमः । १८० ॐ ह्रीङ्कार विश्वसारज्ञायै नमः । ॐ ह्रीङ्कार लोकनिर्मात्रे नमः । ॐ ह्रीङ्कार विश्वसामर्थ्यायै नमः । ॐ ह्रीङ्कार वटवासिन्यै नमः । ॐ ह्रीङ्कार कुलसन्तुष्टायै नमः । ॐ ह्रीङ्कार कुलनायिकायै नमः । ॐ ह्रीङ्कार कुलसान्निध्यायै नमः । ॐ ह्रीङ्कार कुलमोहिन्यै नमः । ॐ ह्रीङ्कार कुलतन्त्रज्ञायै नमः । ॐ ह्रीङ्कार कुलरूपिण्यै नमः । ॐ ह्रीङ्कार कालिफलदायै नमः । ॐ ह्रीङ्कार कुलसाक्षिण्यै नमः । ॐ ह्रीङ्कारालिकापूर्णायै नमः । ॐ ह्रीङ्कार कुलनिर्मितायै नमः । ॐ ह्रीङ्कार कुलकर्मज्ञायै नमः । ॐ ह्रीङ्कार नटनप्रियायै नमः । ॐ ह्रीङ्कार मेघनिनादायै नमः । ॐ ह्रीङ्कार कटिमेखलायै नमः । ॐ ह्रीङ्कार सच्चिदानन्दायै नमः । ॐ ह्रीङ्कारात्मस्वरूपिण्यै नमः । २०० ॐ ह्रीङ्कार निष्कलाकारायै नमः । ॐ ह्रीङ्कार परमात्मिकायै नमः । ॐ ह्रीङ्कार ब्रह्मनिलयायै नमः । ॐ ह्रीङ्कार ब्रह्मरूपिण्यै नमः । ॐ ह्रीङ्कार चित्तविमलायै नमः । ॐ ह्रीङ्कार श्रीमनोहरायै नमः । ॐ ह्रीङ्कार परमानन्दायै नमः । ॐ ह्रीङ्कार ज्ञानरूपिण्यै नमः । ॐ ह्रीङ्कार वेदपठनायै नमः । ॐ ह्रीङ्काराम्बोधिचन्द्रिकायै नमः । ॐ ह्रीङ्कार विहगावेगायै नमः । ॐ ह्रीङ्काराचलनिश्चलायै नमः । ॐ ह्रीङ्कार द्वन्द्वनिर्द्वन्द्वायै नमः । ॐ ह्रीङ्कारागमनिर्मलायै नमः । ॐ ह्रीङ्कार सङ्गनिस्सङ्गायै नमः । ॐ ह्रीङ्काराचित्स्वरूपिण्यै नमः । ॐ ह्रीङ्कार सुगुणाकरायै नमः । ॐ ह्रीङ्कार सुगुणोत्तमायै नमः । ॐ ह्रीङ्कारागमसन्तुष्टायै नमः । ॐ ह्रीङ्कारागमपूजितायै नमः । २२० ॐ ह्रीङ्कारागमनैपुण्यायै नमः । ॐ ह्रीङ्कारागमसाक्षिण्यै नमः । ॐ ह्रीङ्कारागमतत्त्वज्ञायै नमः । ॐ ह्रीङ्कारागमवर्धिन्यै नमः । ॐ ह्रीङ्कारागममन्त्रस्थायै नमः । ॐ ह्रीङ्कारागमदायिन्यै नमः । ॐ ह्रीङ्कार वामनिलयायै नमः । ॐ ह्रीङ्कार निधिदायिन्यै नमः । ॐ ह्रीङ्कार वृक्षविहगायै नमः । ॐ ह्रीङ्कार वृषवाहिन्यै नमः । ॐ ह्रीङ्कार जीवसायुज्यायै नमः । ॐ ह्रीङ्कार शरपञ्जरायै नमः । ॐ ह्रीङ्कार मुक्तिसाम्राज्यायै नमः । ॐ ह्रीङ्कारेन्दुसमप्रभायै नमः । ॐ ह्रीङ्कार तारकाहारायै नमः । ॐ ह्रीङ्कार तरुवासिन्यै नमः । ॐ ह्रीङ्कार वेदतत्त्वज्ञायै नमः । ॐ ह्रीङ्काराद्भुतवैभवायै नमः । ॐ ह्रीङ्कारोपनिषद्वाक्यायै नमः । ॐ ह्रीङ्कारोपनिषद्श्रुतायै नमः । २४० ॐ ह्रीङ्कारोपनिषद्सारायै नमः । ॐ ह्रीङ्कारोपनिषद्स्तुतायै नमः । ॐ ह्रीङ्कार क्षेत्रनिलयायै नमः । ॐ ह्रीङ्कार क्षेत्रनिर्मितायै नमः । ॐ ह्रीङ्कार क्षेत्रालङ्कारायै नमः । ॐ ह्रीङ्कार क्षेत्रपालिन्यै नमः । ॐ ह्रीङ्कार स्वर्णबिम्बस्थायै नमः । ॐ ह्रीङ्कार स्वर्णभूषणायै नमः । ॐ ह्रीङ्कार स्वर्णमकुटायै नमः । ॐ ह्रीङ्कार स्वर्णविग्रहायै नमः । ॐ ह्रीङ्कारान्दोलिकारूढायै नमः । ॐ ह्रीङ्कारान्दोलिकाप्रियायै नमः । ॐ ह्रीङ्कार शशिबिम्बस्थायै नमः । ॐ ह्रीङ्कार शशिभूषणायै नमः । ॐ ह्रीङ्कार बिन्दुसन्तुष्टायै नमः । ॐ ह्रीङ्कारामृतदायिन्यै नमः । ॐ ह्रीङ्कार बिन्दुनिलयायै नमः । ॐ ह्रीङ्कारामृतरूपिण्यै नमः । ॐ ह्रीङ्कार त्रिगुणाकारायै नमः । ॐ ह्रीङ्कार त्रयलोचनायै नमः । २६० ॐ ह्रीङ्कार त्रयनामस्थायै नमः । ॐ ह्रीङ्कार त्रिदिवेश्वर्यै नमः । ॐ ह्रीङ्कार मध्यनिलयायै नमः । ॐ ह्रीङ्काराक्षरनिर्मितायै नमः । ॐ ह्रीङ्काराक्षरमन्त्रज्ञायै नमः । ॐ ह्रीङ्काराक्षरसाक्षिण्यै नमः । ॐ ह्रीङ्काराक्षरसंयुक्तायै नमः । ॐ ह्रीङ्काराक्षररूपिण्यै नमः । ॐ ह्रीङ्काराक्षरसारज्ञायै नमः । ॐ ह्रीङ्काराक्षरवर्द्धिन्यै नमः । ॐ ह्रीङ्काराक्षरनामान्तस्थायै नमः । ॐ ह्रीङ्काराक्षरकारिण्यै नमः । ॐ ह्रीङ्काराक्षरसन्तुष्टायै नमः । ॐ ह्रीङ्काराक्षरमालिकायै नमः । ॐ ह्रीङ्कार ज्योतिषप्रज्ञायै नमः । ॐ ह्रीङ्कार ज्योतिरूपिण्यै नमः । ॐ ह्रीङ्कार ऋक्स्वरूपज्ञायै नमः । ॐ ह्रीङ्कार यजुषिप्रियायै नमः । ॐ ह्रीङ्कार सामश्रवणायै नमः । ॐ ह्रीङ्काराथर्वणात्मिकायै नमः । २८० ॐ ह्रीङ्कारोत्पलवेदज्ञायै नमः । ॐ ह्रीङ्कार प्रणवात्मिकायै नमः । ॐ ह्रीङ्कार कोशनिलयायै नमः । ॐ ह्रीङ्कारादर्शबिम्बिकायै नमः । ॐ ह्रीङ्कार मणिदीप्तार्चिषे नमः । ॐ ह्रीङ्कार मधुरेश्वर्यै नमः । ॐ ह्रीङ्कार शब्दश्रवणायै नमः । ॐ ह्रीङ्कारार्थविचारिण्यै नमः । ॐ ह्रीङ्कार तर्कवादज्ञायै नमः । ॐ ह्रीङ्कार कवचान्वितायै नमः । ॐ ह्रीङ्कार योगसारज्ञायै नमः । ॐ ह्रीङ्कार प्राणनायिकायै नमः । ॐ ह्रीङ्कार प्रळयाकारायै नमः । ॐ ह्रीङ्कार परमुक्तिदायै नमः । ॐ ह्रीङ्कार राजमातङ्ग्यै नमः । ॐ ह्रीङ्कार ललिताम्बिकायै नमः । ॐ ह्रीङ्कार तारकब्रह्मणे नमः । ॐ ह्रीङ्कार परसौख्यदायै नमः । ॐ ह्रीङ्कार भुवनाम्बिकायै नमः । ॐ ह्रीङ्कार भुवनेश्वर्यै नमः । ३०० इति श्रीभुवनेश्वरीत्रिशतीनामावलिः समाप्ता ।