अक्षर आकार:

श्रीभुवनेश्वरीसहस्रनामस्तोत्रम्

Shri Bhuvaneshwari Sahasranamastotram

श्रीभुवनेश्वरीसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीदेव्युवाच - श्रीपार्वत्युवाच - देव देव महादेव सर्वशास्त्रविशारद ! । कपालखट्वाङ्गधर ! चिताभस्मानुलेपन ! ॥ १॥ या आद्या प्रकृतिर्नित्या सर्वशास्त्रेषु गोपिता । तस्याः श्रीभुवनेश्वर्या नाम्नां पुण्यं सहस्रकम् ॥ २॥ कथयस्व महादेव ! यथा देवी प्रसीदति । ईश्वर उवाच - श्रीमहेश्वर उवाच - साधु पृष्टं महादेवि ! साधकानां हिताय वै ॥ ३॥ साधु लोकहिताय च या आद्या प्रकृतिर्नित्या सर्वशास्त्रेषु गोपिता । यस्याः स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ४॥ आराधनाद्भवेद्यस्या जीवन्मुक्तो न संशयः । तस्या नामसहस्रं वै कथयामि समासतः ॥ ५॥ var तस्या नामसहस्राणि कथयामि श्रुणुष्व तत् विनियोगः - अस्य श्रीभुवनेश्वर्या सहस्रनामस्तोत्रस्य दक्षिणामूर्तिऋषिः, पङ्क्तिश्छन्दः, आद्या श्रीभुवनेश्वरीदेवता, ह्रीं बीजं, श्रीं शक्तिः, क्लीं कीलकं, मम श्रीधर्मार्थकाममोक्षार्थे जपे विनियोगः । ऋष्यादिन्यासः - श्रीदक्षिणामूर्तिऋषये नमः शिरसि । पङ्क्तिश्छन्दसे नमः मुखे । आद्या श्रीभुवनेश्वरीदेवतायै नमः हृदि । ह्रीं बीजाय नमः गुह्ये । श्रीं शक्तये नमः नाभौ । क्लीं कीलकाय नमः पादयोः । धर्मार्थकाममोक्षार्थे विनियोगाय नमः सर्वाङ्गे । अथ सहस्रनामस्तोत्रम् । आद्या माया परा शक्तिः श्रीं ह्रीं क्लीं भुवनेश्वरी । var आद्या कमला वाणी माया श्रीभुवनेश्वरी भुवना भावना भव्या भवानी भवभाविनी ॥ ६॥ भवमोचनी रुद्राणी रुद्रभक्ता च तथा रुद्रप्रिया सती । उमा कात्यायनी दुर्गा मङ्गला सर्वमङ्गला ॥ ७॥ उमा कामेश्वरी त्रिपुरा परमेशानी त्रिपुरा सुन्दरी प्रिया । रमणा रमणी रामा रामकार्यकरी शुभा ॥ ८॥ ब्राह्मी नारायणी चण्डी चामुण्डा मुण्डनायिका । माहेश्वरी च कौमारी वाराही चापराजिता ॥ ९॥ महामाया मुक्तकेशी महात्रिपुरसुन्दरी । सुन्दरी शोभना रक्ता रक्तवस्त्रापिधायिनी ॥ १०॥ रक्ताक्षी रक्तवस्त्रा च रक्तबीजातिसुन्दरी । रक्तचन्दनसिक्ताङ्गी रक्तपुष्पसदाप्रिया ॥ ११॥ कमला कामिनी कान्ता कामदेवसदाप्रिया । लक्ष्मी लोला चञ्चलाक्षी चञ्चला चपला प्रिया ॥ १२॥ भैरवी भयहर्त्री च महाभयविनाशिनी । भयङ्करी महाभीमा भयहा भयनाशिनी ॥ १३॥ श्मशाने प्रान्तरे दुर्गे संस्मृता भयनाशिनी । जया च विजया चैव जयपूर्णा जयप्रदा ॥ १४॥ यमुना यामुना याम्या यामुनजा यमप्रिया । सर्वेषां जनिका जन्या जनहा जनवर्धिनी ॥ १५॥ काली कपालिनी कुल्ला कालिका कालरात्रिका । महाकालहृदिस्था च कालभैरवरूपिणी ॥ १६॥ कपालखट्वाङ्गधरा पाशाङ्कुशविधारिणी । अभया च भया चैव तथा च भयनाशिनी ॥ १७॥ महाभयप्रदात्री च तथा च वरहस्तिनी । गौरी गौराङ्गिनी गौरा गौरवर्णा जयप्रदा ॥ १८॥ उग्रा उग्रप्रभा शान्तिः शान्तिदाऽशान्तिनाशिनी । उग्रतारा तथा चोग्रा नीला चैकजटा तथा ॥ १९॥ हां हां हूं हूं तथा तारा तथा च सिद्धिकालिका । तारा नीला च वागीशी तथा नीलसरस्वती ॥ २०॥ गङ्गा काशी सती सत्या सर्वतीर्थमयी तथा । तीर्थरूपा तीर्थपुण्या तीर्थदा तीर्थसेविका ॥ २१॥ पुण्यदा पुण्यरूपा च पुण्यकीर्तिप्रकाशिनी । पुण्यकाला पुण्यसंस्था तथा पुण्यजनप्रिया ॥ २२॥ तुलसी तोतुलास्तोत्रा राधिका राधनप्रिया । सत्यासत्या सत्यभामा रुक्मिणी कृष्णवल्लभा ॥ २३॥ देवकी कृष्णमाता च सुभद्रा भद्ररूपिणी । मनोहरा तथा सौम्या श्यामाङ्गी समदर्शना ॥ २४॥ घोररूपा घोरतेजा घोरवत्प्रियदर्शना । कुमारी बालिका क्षुद्रा कुमारीरूपधारिणी ॥ २५॥ युवती युवतीरूपा युवतीरसरञ्जका । पीनस्तनी क्षूद्रमध्या प्रौढा मध्या जरातुरा ॥ २६॥ अतिवृद्धा स्थाणुरूपा चलाङ्गी चञ्चला चला । देवमाता देवरूपा देवकार्यकरी शुभा ॥ २७॥ देवमाता दितिर्दक्षा सर्वमाता सनातनी । पानप्रिया पायनी च पालना पालनप्रिया ॥ २८॥ मत्स्याशी मांसभक्ष्या च सुधाशी जनवल्लभा । तपस्विनी तपी तप्या तपःसिद्धिप्रदायिनी ॥ २९॥ हविष्या च हविर्भोक्त्री हव्यकव्यनिवासिनी । यजुर्वेदा वश्यकरी यज्ञाङ्गी यज्ञवल्लभा ॥ ३०॥ दक्षा दाक्षायिणी दुर्गा दक्षयज्ञविनाशिनी । पार्वती पर्वतप्रीता तथा पर्वतवासिनी ॥ ३१॥ हैमी हर्म्या हेमरूपा मेना मान्या मनोरमा । कैलासवासिनी मुक्ता शर्वक्रीडाविलासिनी ॥ ३२॥ चार्वङ्गी चारुरूपा च सुवक्त्रा च शुभानना । चलत्कुण्डलगण्डश्रीर्लसत्कुण्डलधारिणी ॥ ३३॥ महासिंहासनस्था च हेमभूषणभूषिता । हेमाङ्गदा हेमभूषा च सूर्यकोटिसमप्रभा ॥ ३४॥ बालादित्यसमाकान्तिः सिन्दूरार्चितविग्रहा । यवा यावकरूपा च रक्तचन्दनरूपधृक् ॥ ३५॥ कोटरी कोटराक्षी च निर्लज्जा च दिगम्बरा । पूतना बालमाता च शून्यालयनिवासिनी ॥ ३६॥ श्मशानवासिनी शून्या हृद्या चतुरवासिनी । मधुकैटभहन्त्री च महिषासुरघातिनी ॥ ३७॥ निशुम्भशुम्भमथनी चण्डमुण्डविनाशिनी । शिवाख्या शिवरूपा च शिवदूती शिवप्रिया ॥ ३८॥ शिवदा शिववक्षःस्था शर्वाणी शिवकारिणी । इन्द्राणी चेन्द्रकन्या च राजकन्या सुरप्रिया ॥ ३९॥ लज्जाशीला साधुशीला कुलस्त्री कुलभूषिका । महाकुलीना निष्कामा निर्लज्जा कुलभूषणा ॥ ४०॥ कुलीना कुलकन्या च तथा च कुलभूषिता । अनन्तानन्तरूपा च अनन्तासुरनाशिनी ॥ ४१॥ हसन्ती शिवसङ्गेन वाञ्छितानन्ददायिनी । नागाङ्गी नागभूषा च नागहारविधारिणी ॥ ४२॥ धरिणी धारिणी धन्या महासिद्धिप्रदायिनी । डाकिनी शाकिनी चैव राकिनी हाकिनी तथा ॥ ४३॥ भूता प्रेता पिशाची च यक्षिणी धनदार्चिता । धृतिः कीर्तिः स्मृतिर्मेधा तुष्टिःपुष्टिरुमा रुषा ॥ ४४॥ शाङ्करी शाम्भवी मीना रतिः प्रीतिः स्मरातुरा । अनङ्गमदना देवी अनङ्गमदनातुरा ॥ ४५॥ भुवनेशी महामाया तथा भुवनपालिनी । ईश्वरी चेश्वरीप्रीता चन्द्रशेखरभूषणा ॥ ४६॥ चित्तानन्दकरी देवी चित्तसंस्था जनस्य च । अरूपा बहुरूपा च सर्वरूपा चिदात्मिका ॥ ४७॥ अनन्तरूपिणी नित्या तथानन्तप्रदायिनी । नन्दा चानन्दरूपा च तथाऽनन्दप्रकाशिनी ॥ ४८॥ सदानन्दा सदानित्या साधकानन्ददायिनी । वनिता तरुणी भव्या भविका च विभाविनी ॥ ४९॥ चन्द्रसूर्यसमा दीप्ता सूर्यवत्परिपालिनी । नारसिंही हयग्रीवा हिरण्याक्षविनाशिनी ॥ ५०॥ वैष्णवी विष्णुभक्ता च शालग्रामनिवासिनी । चतुर्भुजा चाष्टभुजा सहस्रभुजसंज्ञिता ॥ ५१॥ आद्या कात्यायनी नित्या सर्वाद्या सर्वदायिनी । सर्वचन्द्रमयी देवी सर्ववेदमयी शुभा ॥ ५२॥ सवदेवमयी देवी सर्वलोकमयी पुरा । सर्वसम्मोहिनी देवी सर्वलोकवशङ्करी ॥ ५३॥ राजिनी रञ्जिनी रागा देहलावण्यरञ्जिता । नटी नटप्रिया धूर्ता तथा धूर्तजनार्दिनी ॥ ५४॥ महामाया महामोहा महासत्त्वविमोहिता । बलिप्रिया मांसरुचिर्मधुमांसप्रिया सदा ॥ ५५॥ मधुमत्ता माधविका मधुमाधवरूपिका । दिवामयी रात्रिमयी सन्ध्या सन्धिस्वरूपिणी ॥ ५६॥ कालरूपा सूक्ष्मरूपा सूक्ष्मिणी चातिसूक्ष्मिणी । तिथिरूपा वाररूपा तथा नक्षत्ररूपिणी ॥ ५७॥ सर्वभूतमयी देवी पञ्चभूतनिवासिनी । शून्याकारा शून्यरूपा शून्यसंस्था च स्तम्भिनी ॥ ५८॥ आकाशगामिनी देवी ज्योतिश्चक्रनिवासिनी । ग्रहाणां स्थितिरूपा च रुद्राणी चक्रसम्भवा ॥ ५९॥ ऋषीणां ब्रह्मपुत्राणां तपःसिद्धिप्रदायिनी । अरुन्धती च गायत्री सावित्री सत्त्वरूपिणी ॥ ६०॥ चितासंस्था चितारूपा चित्तसिद्धिप्रदायिनी । शवस्था शवरूपा च शवशत्रुनिवासिनी ॥ ६१॥ योगिनी योगरूपा च योगिनां मलहारिणी । सुप्रसन्ना महादेवी यामुनी मुक्तिदायिनी ॥ ६२॥ निर्मला विमला शुद्धा शुद्धसत्वा जयप्रदा । महाविद्या महामाया मोहिनी विश्वमोहिनी ॥ ६३॥ कार्यसिद्धिकरी देवी सर्वकार्यनिवासिनी । कार्यकार्यकरी रौद्री महाप्रलयकारिणी ॥ ६४॥ स्त्रीपुंभेदाह्यभेद्या च भेदिनी भेदनाशिनी । सर्वरूपा सर्वमयी अद्वैतानन्दरूपिणी ॥ ६५॥ प्रचण्डा चण्डिका चण्डा चण्डासुरविनाशिनी । सुमस्ता बहुमस्ता च छिन्नमस्ताऽसुनाशिनी ॥ ६६॥ अरूपा च विरूपा च चित्ररूपा चिदात्मिका । बहुशस्त्रा अशस्त्रा च सर्वशस्त्रप्रहारिणी ॥ ६७॥ शास्त्रार्था शास्त्रवादा च नाना शास्त्रार्थवादिनी । काव्यशास्त्रप्रमोदा च काव्यालङ्कारवासिनी ॥ ६८॥ रसज्ञा रसना जिह्वा रसामोदा रसप्रिया । नानाकौतुकसंयुक्ता नानारसविलासिनी ॥ ६९॥ अरूपा च स्वरूपा च विरूपा च सुरूपिणी । रूपावस्या तथा जीवा वेश्याद्या वेशधारिणी ॥ ७०॥ नानावेशधरा देवी नानावेशेषु संस्थिता । कुरूपा कुटिला कृष्णा कृष्णारूपा च कालिका ॥ ७१॥ लक्ष्मीप्रदा महालक्ष्मीः सर्वलक्षणसंयुता । कुबेरगृहसंस्था च धनरूपा धनप्रदा ॥ ७२॥ नानारत्नप्रदा देवी रत्नखण्डेषु संस्थिता । वर्णसंस्था वर्णरूपा सर्ववर्णमयी सदा ॥ ७३॥ ओङ्काररूपिणी वाच्या आदित्यज्योतीरूपिणी । संसारमोचिनी देवी सङ्ग्रामे जयदायिनी ॥ ७४॥ जयरूपा जयाख्या च जयिनी जयदायिनी । मानिनी मानरूपा च मानभङ्गप्रणाशिनी ॥ ७५॥ मान्या मानप्रिया मेधा मानिनी मानदायिनी । साधकासाधकासाध्या साधिका साधनप्रिया ॥ ७६॥ स्थावरा जङ्गमा प्रोक्ता चपला चपलप्रिया । ऋद्धिदा ऋद्धिरूपा च सिद्धिदा सिद्धिदायिनी ॥ ७७॥ क्षेमङ्करी शङ्करी च सर्वसम्मोहकारिणी । रञ्जिता रञ्जिनी या च सर्ववाञ्छाप्रदायिनी ॥ ७८॥ भगलिङ्गप्रमोदा च भगलिङ्गनिवासिनी । भगरूपा भगाभाग्या लिङ्गरूपा च लिङ्गिनी ॥ ७९॥ भगगीतिर्महाप्रीतिर्लिङ्गगीतिर्महासुखा । स्वयम्भूः कुसुमाराध्या स्वयम्भूः कुसुमाकुला ॥ ८०॥ स्वयम्भूः पुष्परूपा च स्वयम्भूः कुसुमप्रिया । शुक्रकूपा महाकूपा शुक्रासवनिवासिनी ॥ ८१॥ शुक्रस्था शुक्रिणी शुक्रा शुक्रपूजकपूजिता । कामाक्षा कामरूपा च योगिनी पीठवासिनी ॥ ८२॥ सर्वपीठमयी देवी पीठपूजानिवासिनी । अक्षमालाधरा देवी पानपात्रविधारिणी ॥ ८३॥ शूलिनी शूलहस्ता च पाशिनी पाशरूपिणी । खड्गिनी गदिनी चैव तथा सर्वास्त्रधारिणी ॥ ८४॥ भाव्या भव्या भवानी सा भवमुक्तिप्रदायिनी । चतुरा चतुरप्रीता चतुराननपूजिता ॥ ८५॥ देवस्तव्या देवपूज्या सर्वपूज्या सुरेश्वरी । जननी जनरूपा च जनानां चित्तहारिणी ॥ ८६॥ जटिला केशबद्धा च सुकेशी केशबद्धिका । अहिंसा द्वेषिका द्वेष्या सर्वद्वेषविनाशिनी ॥ ८७॥ उच्चाटिनी द्वेषिनी च मोहिनी मधुराक्षरा । क्रीडा क्रीडकलेखाङ्ककारणाकारकारिका ॥ ८८॥ सर्वज्ञा सर्वकार्या च सर्वभक्षा सुरारिहा । सर्वरूपा सर्वशान्ता सर्वेषां प्राणरूपिणी ॥ ८९॥ सृष्टिस्थितिकरी देवी तथा प्रलयकारिणी । मुग्धा साध्वी तथा रौद्री नानामूर्तिविधारिणी ॥ ९०॥ उक्तानि यानि देवेशि अनुक्तानि महेश्वरि । यत् किञ्चिद् दृश्यते देवि तत् सर्वं भुवनेश्वरी ॥ ९१॥ इति श्रीभुवनेश्वर्या नामानि कथितानि ते । सहस्राणि महादेवि फलं तेषां निगद्यते ॥ ९२॥ यः पठेत् प्रातरुत्थाय चार्द्धरात्रे तथा प्रिये । प्रातःकाले तथा मध्ये सायाह्ने हरवल्लभे ॥ ९३॥ यत्र तत्र पठित्वा च भक्त्या सिद्धिर्न संशयः । पठेद् वा पाठयेद् वापि श‍ृणुयाच्छ्रावयेत्तथा ॥ ९४॥ तस्य सर्वं भवेत् सत्यं मनसा यच्च वाञ्छितम् । अष्टम्यां च चतुर्दश्यां नवम्यां वा विशेषतः ॥ ९५॥ सर्वमङ्गलसंयुक्ते सङ्क्रातौ शनिभौमयोः । यः पठेत् परया भक्त्या देव्या नामसहस्रकम् ॥ ९६॥ तस्य देहे च संस्थानं कुरुते भुवनेश्वरी । तस्य कार्यं भवेद् देवि अन्यथा न कथञ्चन ॥ ९७॥ श्मशाने प्रान्तरे वापि शून्यागारे चतुष्पथे । चतुष्पथे चैकलिङ्गे मेरुदेशे तथैव च ॥ ९८॥ जलमध्ये वह्निमध्ये सङ्ग्रामे ग्रामशान्तये । जपत्वा मन्त्रसहस्रं तु पठेन्नामसहस्रकम् ॥ ९९॥ धूपदीपादिभिश्चैव बलिदानादिकैस्तथा । नानाविधैस्तथा देवि नैवेद्यैर्भुवनेश्वरीम् ॥ १००॥ सम्पूज्य विधिवज्जप्त्वा स्तुत्वा नामसहस्रकैः । अचिरात् सिद्धिमाप्नोति साधको नात्र संशयः ॥ १०१॥ तस्य तुष्टा भवेद् देवी सर्वदा भुवनेश्वरी । भूर्जपत्रे समालिख्य कुङकुमाद् रक्तचन्दनैः ॥ १०२॥ तथा गोरोचनाद्यैश्च विलिख्य साधकोत्तमः । सुतिथौ शुभनक्षत्रे लिखित्वा दक्षिणे भुजे ॥ १०३॥ धारयेत् परया भक्त्या देवीरूपेण पार्वति ! । तस्य सिद्धिर्महेशानि अचिराच्च भविष्यति ॥ १०४॥ रणे राजकुले वाऽपि सर्वत्र विजयी भवेत् । देवता वशमायाति किं पुनर्मानवादयः ॥ १०५॥ विद्यास्तम्भं जलस्तम्भं करोत्येव न संशयः । पठेद् वा पाठयेद् वाऽपि देवीभक्त्या च पार्वति ॥ १०६॥ इह भुक्त्वा वरान् भोगान् कृत्वा काव्यार्थविस्तरान् । अन्ते देव्या गणत्वं च साधको मुक्तिमाप्नुयात् ॥ १०७॥ प्राप्नोति देवदेवेशि सर्वार्थान्नात्र संशयः । हीनाङ्गे चातिरिक्ताङ्गे शठाय परशिष्यके ॥ १०८॥ न दातव्यं महेशानि प्राणान्तेऽपि कदाचन । शिष्याय मतिशुद्धाय विनीताय महेश्वरि ॥ १०९॥ दातव्यः स्तवराजश्च सर्वसिद्धिप्रदो भवेत् । लिखित्वा धारयेद् देहे दुःखं तस्य न जायते ॥ ११०॥ य इदं भुवनेश्वर्याः स्तवराजं महेश्वरि । इति ते कथितं देवि भुवनेश्याः सहस्रकम् ॥ १११॥ यस्मै कस्मै न दातव्यं विना शिष्याय पार्वति । सुरतरुवरकान्तं सिद्धिसाध्यैकसेव्यं यदि पठति मनुष्यो नान्यचेताः सदैव । इह हि सकलभोगान् प्राप्य चान्ते शिवाय व्रजति परसमीपं सर्वदा मुक्तिमन्ते ॥ ११२॥ ॥ इति श्रीरुद्रयामले तन्त्रे भुवनेश्वरीसहस्रनामाख्यं स्तोत्रं सम्पूर्णम् ॥ श्रीरस्तु ॥
Help from Alex