अक्षर आकार:

श्रीभुवनेश्वरीध्यानम्

Shri Bhuvaneshvari Dhyanam

श्रीभुवनेश्वरीध्यानम्

१. उद्यदिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् । स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेश्वरीम् ॥ २. सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत् तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां वन्दे परामम्बिकाम् ॥ इति श्रीभुवनेश्वरीध्यानम् ॥