अक्षर आकार:

श्रीभवसोदर्यष्टकम्

Shri Bhavasodaryashtakam

श्रीभवसोदर्यष्टकम्

भजतां कल्पलतिका भवभीतिविभञ्जनी । भ्रमराभकचा भूयाद्भव्याय भवसोदरी ॥ १॥ करनिर्जितपाथोजा शरदभ्रनिभाम्बरा । वरदानरता भूयाद्भव्याय भवसोदरी ॥ २॥ काम्या पयोजजनुषा नम्या सुरवरैर्मुहुः । रभ्याब्जवसतिर्भूयाद्भव्याय भवसोदरी ॥ ३॥ कृष्णादिसुरसंसेव्या कृतान्तभयनाशिनी । कृपार्द्रहृदया भूयाद्भव्याय भवसोदरी ॥ ४॥ मेनकादिसमाराध्या शौनकादिमुनिस्तुता । कनकाभतनुर्भूयाद्भव्याय भवसोदरी ॥ ५॥ वरदा पदनम्रेभ्यः पारदा भववारिधेः । नीरदाभकचा भूयाद्भव्याय भवसोदरी ॥ ६॥ विनताघहारा शीघ्रं विनतातनयार्चिता । पीनतायुक्कुचा भूयाद्भव्याय भवसोदरी ॥ ७॥ वीणालसतपाणिपद्मा काणादमुखशास्त्रदा । एणाङ्कशिशुभृद्भूयाद्भव्याय भवसोदरी ॥ ८॥ अष्टकं भवसोदर्याः कष्टनाशकरं द्रुतम् । इष्टदं सम्पठञ्छीघ्रमष्टसिद्धीरवाप्नुयात् ॥ ९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीभवसोदर्यष्टकं सम्पूर्णम् ।