अक्षर आकार:

श्रीभवानीसहस्रनामस्तोत्रम्

shrIbhavAnIsahasranAmastotram

श्रीभवानीसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । कैलास शिखरे रम्ये देवदेवं महेश्वरम् । ध्यानोपरतमासीनं प्रसन्नमुखपङ्कजम् ॥ १॥ सुरासुरशिरोरत्नरञ्जिताङ्घ्रियुगं प्रभुम् । प्रणम्य शिरसा नन्दी बद्धाञ्जलिरभाषत ॥ २॥ श्रीनन्दिकेश्वर उवाच । देवदेव जगन्नाथ संशयोऽस्ति महान्मम । रहस्यमेकमिच्छामि प्रष्टुं त्वां भक्तवत्सल ॥ ३॥ देवतायास्त्वया कस्याः स्तोत्रमेतद्दिवानिशम् । पठ्यते निरतं नाथ त्वत्तः किमपरं महत् ॥ ४॥ इति पृष्टस्तदा देवो नन्दिकेन जगद्गुरुः । प्रोवाच भगवानीशो विकसन्नेत्रपङ्कजः ॥ ५॥ ईश्वर उवाच । साधु साधु गुणश्रेष्ठ पृष्टवानसि मां च यत् । स्कन्दस्यापि च यद्गोप्यं रहस्यं कथयामि तत् ॥ ६॥ पुरा कल्पक्षये लोकान्सिसृक्षुर्मूढचेतनः । गुणत्रयमयी शक्तिर्मूलप्रकृतिसंज्ञिता ॥ ७॥ तस्यामहं समुत्पन्नस्तत्वैस्तैर्महदादिभिः । चेतनेति ततः शक्तिर्मां काप्यालिङ्ग्य तस्थुषी ॥ ८॥ हेतुस्सङ्कल्पजालस्य मनोधिष्ठायिनी शुभा । इच्छेति परमा शक्तिरुन्मिलति ततः परम् ॥ ९॥ ततो वागिति विख्याता शक्तिः शब्दमयी पुरा । प्रादुरासीज्जगन्माता वेदमाता सरस्वती ॥ १०॥ ब्राह्मी च वैष्णवी सैन्द्री कौमारी पार्वती शिवा । सिद्धिदा बुद्धिदा शान्ता सर्वमङ्गलदायिनी ॥ ११॥ तयैतत्सृज्यते विश्वमनाधारं च धार्यते । तयैतत्पाल्यते सर्वं तस्यामेव प्रलीयते ॥ १२॥ अर्चिता प्रणता ध्याता सर्वभावविनिश्चतैः । आराधिता स्तुता सैव सर्वसिद्धिप्रदायिनी ॥ १३॥ तस्याश्चानुग्रहादेव तामेव स्तुतवानहम् । सहस्रैर्नामर्भिर्दिव्यैस्त्रैलोक्य प्रणिपूजितैः ॥ १४॥ स्तवेनानेन सन्तुष्टा मामेव प्रतिवेश सा । तदारभ्य मया प्राप्तमैश्वर्यं पदमुत्तमम् ॥ १५॥ तत्प्रभावान्मया सृष्टं जगदेतच्चराचरम् । ससुरासुरगन्धर्वयक्षराक्षसमानवम् ॥ १६॥ सपन्नगं साच्छिकं च सशैलवनकाननम् । सराशिग्रहनक्षत्रं पञ्चभूतगुणान्वितम् ॥ १७॥ नन्दिन्नाम सहस्रेण स्तवेनानेन सर्वदा । स्तौम्यहं परापराशक्तिं ममानुग्रहकारिणीम् ॥ १८॥ इत्युक्त्वोपरतं देवं चराचरगुरुं विभुम् । प्रणम्य शिरसा नन्दी प्रोवाच परमेश्वरम् ॥ १९॥ श्रीनन्दिकेश्वर उवाच । भगवन्देवदेवेश लोकनाथ जगत्पते । भक्तोऽस्मि तव दासोऽस्मि प्रसादः क्रियतां मयि ॥ २०॥ देव्याः स्तवमिदं पुण्यं दुर्लभं यत्सुरैरपि । श्रोतुमिच्छाम्यहं देव प्रभावमपि चास्य तु ॥ २१॥ श‍ृणु नन्दिन्महाभाग स्तवराजमिमं शुभम् । सहस्रैर्नामर्भिर्दिव्यैः सिद्धिदं सुखमोक्षदम् ॥ २२॥ शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः । त्रिकालं श्रद्धया युक्तैर्नातः परतरः स्तव; ॥ २३॥ ॐ अस्यश्रीभवानीनामसहस्रस्तवराजस्य, श्रीभगवान्महादेव ऋषिः ,अनुष्टुप्छन्दः, आद्या शक्तिः श्रीभगवती भवानी देवता, ह्रीं बीजं, श्रीं शक्तिः, क्लीं कीलकं, श्रीभगवतीभवानीप्रीत्यर्थे जपे विनियोगः । अथ ध्यानम् अर्धेन्दुमौलिममलाममराभिवन्द्यामम्भोजपाशसृणिरक्तकपालहस्ताम् । रक्ताङ्गरागरसनाभरणान्त्रिनेत्रान्ध्यायेच्छिवस्यवनितां विह्वलाङ्गीम् ॥ १॥ ॐ बालार्कमण्डलाभासां चतुर्वाहुं त्रिलोचनाम् । पाशाङ्कुशशरं चापं धारयन्तीं शिवां भजे ॥ २॥ ॐ महाविद्या जगन्माता महालक्ष्मीः शिवप्रिया । विष्णुमाया शुभा शान्ता सिद्धासिद्धसरस्वती ॥ १॥ क्षमा कान्तिः प्रभा ज्योत्स्ना पार्वती सर्वमङ्गला । हिङ्गुला चण्डिका दान्ता पद्मा लक्ष्मीर्हरिप्रिया ॥ २॥ त्रिपुरा नन्दिनी नन्दा सुनन्दा सुरवन्दिता । यज्ञविद्या महामाया वेदमाता सुधाधृतिः ॥ ३॥ प्रीतिप्रदा प्रसिद्धा च मृडानी विन्ध्यवासिनी । सिद्धविद्या महाशक्तिः पृथिवी नारदसेविता ॥ ४॥ पुरुहूतप्रिया कान्ता कामिनी पद्मलोचना । प्रल्हादिनी महामाता दुर्गा दुर्गतिनाशिनी ॥ ५॥ ज्वालामुखी सुगोत्रा च ज्योतिः कुमुदवासिनी । दुर्गमा दुर्लभा विद्या स्वर्गतिः पुरवासिनी ॥ ६॥ अपर्णा शाम्बरी माया मदिरामृदुहासिनी । कुलवागीश्वरी नित्या नित्यक्लिन्ना कृशोदरी ॥ ७॥ कामेश्वरी च नीला च भिरुण्डा वह्रिवासिनी । लम्बोदरी महाकाली विद्याविद्येश्वरी तथा ॥ ८॥ नरेश्वरी च सत्या च सर्वसौभाग्यवर्धिनी । सङ्कर्षिणी नारसिंही वैष्णवी च महोदरी ॥ ९॥ कात्यायनी च चम्पा च सर्वसम्पत्तिकारिणी । नारायणी महानिद्रा योगनिद्रा प्रभावती ॥ १०॥ प्रज्ञा पारमिताप्राज्ञा तारा मधुमती मधुः । क्षीरार्णवसुधाहारा कालिका सिंहवाहना ॥ ११॥ ॐकारा च सुधाकारा चेतना कोपनाकृतिः । अर्धबिन्दुधराधारा विश्वमाता कलावती ॥ १२॥ पद्मावती सुवस्त्रा च प्रबुद्धा च सरस्वती । कुण्डासना जगद्वात्री बुद्धमाता जिनेश्वरी ॥ १३॥ जिनमाता जिनेन्द्रा च शारदा हंसवाहना । राजलक्ष्मीर्वषट्कारा सुधाकारा सुधोत्सुका ॥ १४॥ राजनीतिस्त्रयी वार्ता दण्डनीतिः क्रियावती । सद्भूतिस्तारिणी श्रद्धा सद्गतिः सत्यपरायणा ॥ १५॥ सिन्धुर्मन्दाकिनी गङ्गा यमुना च सरस्वती । गोदावरी विपाशा च कावेरी च शतह्रदा ॥ १६॥ सरयूश्चन्द्रभागा च कौशिकी गण्डकी शुचिः । नर्मदा कर्मनाशा च चर्मण्वती च वेदिका ॥ १७॥ वेत्रवती वितस्ता च वरदा नरवाहना । सती पतिव्रता साध्वी सुचक्षुः कुण्डवासिनी ॥ १८॥ एकचक्षुः सहस्राक्षी सुश्रोणिर्भगमालिनी । सेनाश्रोणिः पताका च सुव्यूहा युद्धकांक्षिणी ॥ १९॥ पताकिनी दयारम्भा विपञ्ची पञ्चमप्रिया । परा परकलाकान्ता त्रिशक्तिर्मोक्षदायिनी ॥ २०॥ ऐन्द्री माहेश्वरी ब्राह्मी कौमारी कमलासना । इच्छा भगवती शक्तिः कामधेनुः कृपावती ॥ २१॥ वज्रायुधा वज्रहस्ता चण्डी चण्डपराक्रमा । गौरी सुवर्णवर्णा च स्थितिसंहारकारिणी ॥ २२॥ एकानेका महेज्या च शत बाहुर्महाभुजा । भुजङ्गभूषणा भूषा षट्चक्राक्रमवासिनी ॥ २३॥ षट्चक्रभेदिनी श्यामा कायस्था कायवर्जिता । सुस्मिता सुमुखी क्षामा मूलप्रकृतिरीश्वरी ॥ २४॥ अजा च बहुवर्णा च पुरुषार्थप्रर्वतिनी । रक्ता नीला सिता श्यामा कृष्णा पीता च कर्बुरा ॥ २५॥ क्षुधा तृष्णा जरा वृद्धा तरुणी करुणालया । कला काष्ठा मुहूर्ता च निमिषा कालरूपिणी ॥ २६॥ सुवर्णरसना नासाचक्षुः स्पर्शवती रसा । गन्धप्रिया सुगन्धा च सुस्पर्शा च मनोगतिः ॥ २७॥ मृगनाभिर्मृगाक्षी च कर्पूरामोदधारिणी । पद्मयोनिः सुकेशी च सुलिङ्गा भगरूपिणी ॥ २८॥ योनिमुद्रा महामुद्रा खेचरी खगगामिनी । मधुश्रीर्माधवी वल्ली मधुमत्ता मदोद्धता ॥ २९॥ मातङ्गी शुकहस्ता च पुष्पबाणेक्षुचापिनी । रक्ताम्बरधराक्षीबा रक्तपुष्पावतंसिनी ॥ ३०॥ शुभ्राम्बरधरा धीरा महाश्वेता वसुप्रिया । सुवेणी पद्महस्ता च मुक्ताहारविभूषणा ॥ ३१॥ कर्पूरामोदनिःश्वासा पद्मिनी पद्ममन्दिरा । खड्गिनी चक्रहस्ता च भुशुण्डी परिघायुधा ॥ ३२॥ चापिनी पाशहस्ता च त्रिशूलवरधारिणी । सुबाणा शक्तिहस्ता च मयूरवरवाहना ॥ ३३॥ वरायुधधरा वीरा वीरपानमदोत्कटा । वसुधा वसुधारा च जया शाकम्भरी शिवा ॥ ३४॥ विजया च जयन्ती च सुस्तनी शत्रुनाशिनी । अन्तर्वती वेदशक्तिर्वरदा वरधारिणी ॥ ३५॥ शीतला च सुशीला च बालग्रहविनाशिनी । कौमारी च सुपर्णा च कामाख्या कामवन्दिता ॥ ३६॥ जालन्धरधरानन्ता कामरूपनिवासिनी । कामबीजवती सत्या सत्यमार्गपरायणा ॥ ३७॥ स्थूलमार्गस्थिता सूक्ष्मा सूक्ष्मबुद्धिप्रबोधिनी । षट्कोणा च त्रिकोणा च त्रिनेत्रा त्रिपुरसुन्दरी ॥ ३८॥ वृषप्रिया वृषारूढा महिषासुरघातिनी । शुम्भदर्पहरा दीप्ता दीप्तपावकसन्निभा ॥ ३९॥ कपालभूषणा काली कपालामाल्यधारिणी । कपालकुण्डला दीर्घा शिवदूती घनध्वनिः ॥ ४०॥ सिद्धिदा बुद्धिदा नित्या सत्यमार्गप्रबोधिनी । कम्बुग्रीवावसुमती छत्रच्छाया कृतालया ॥ ४१॥ जगद्गर्भा कुण्डलिनी भुजगाकारशायिनी । प्रोल्लसत्सप्तपद्मा च नाभिनालमृणालिनी ॥ ४२॥ मूलाधारा निराकारा वह्रिकुण्डकृतालया । वायुकुण्डसुखासीना निराधारा निराश्रया ॥ ४३॥ श्वासोच्छवासगतिर्जीवा ग्राहिणी वह्निसंश्रया । वल्लीतन्तुसमुत्थाना षड्रसा स्वादलोलुपा ॥ ४४॥ तपस्विनी तपःसिद्धि स्सप्तधा सिद्धिदायिनी । तपोनिष्ठा तपोयुक्ताः तापसी च तपःप्रिया ॥ ४५॥ सप्तधातुर्मयीर्मूतिः सप्तधात्वन्तराश्रया । देहपुष्टिर्मनःपुष्टिरन्नपुष्टिर्बलोद्धता ॥ ४६॥ औषधी वैद्यमाता च द्रव्यशक्तिप्रभाविनी । वैद्या वैद्यचिकित्सा च सुपथ्या रोगनाशिनी ॥ ४७॥ मृगया मृगमांसादा मृगत्वङ् मृगलोचना । वागुराबन्धरूपा च बन्धरूपावधोद्धता ॥ ४८॥ बन्दी बन्दिस्तुता कारागारबन्धविमोचिनी । श‍ृङ्खला कलहा बद्धा दृढबन्धविमोक्षिणी ॥ ४९॥ अम्बिकाम्बालिका चाम्बा स्वच्छा साधुजर्नाचिता । कौलिकी कुलविद्या च सुकुला कुलपूजिता ॥ ५०॥ कालचक्रभ्रमा भ्रान्ता विभ्रमाभ्रमनाशिनी । वात्याली मेघमाला च सुवृष्टिः सस्यर्वधिनी ॥ ५१॥ अकारा च इकारा च उकारौकाररूपिणी । ह्रीङ्कार बीजरूपा च क्लीङ्काराम्बरवासिनी ॥ ५२॥ सर्वाक्षरमयीशक्तिरक्षरा वर्णमालिनी । सिन्दूरारुणवर्णा च सिन्दूरतिलकप्रिया ॥ ५३॥ वश्या च वश्यबीजा च लोकवश्यविभाविनी । नृपवश्या नृपैः सेव्या नृपवश्यकरप्रिया ॥ ५४॥ महिषा नृपमान्या च नृपान्या नृपनन्दिनी । नृपधर्ममयी धन्या धनधान्यविवर्धिनी ॥ ५५॥ चतुर्वर्णमयीमूर्तिश्चतुर्वणैंश्च पूजिता । सर्वधर्ममयीसिद्धि श्चतुराश्रमवासिनी ॥ ५६॥ ब्राह्मणी क्षत्रिया वैश्या शूद्रा चावरवर्णजा । वेदमार्गरता यज्ञा वेदिर्विश्वविभाविनी ॥ ५७॥ अनुशस्त्रमयी विद्या वरशस्त्रास्त्रधारिणी । सुमेधा सत्यमेधा च भद्रकाल्यपराजिता ॥ ५८॥ गायत्री सत्कृतिः सन्ध्या सावित्री त्रिपदाश्रया । त्रिसन्ध्या त्रिपदी धात्री सुपर्वा सामगायिनी ॥ ५९॥ पाञ्चाली बालिका बाला बालक्रीडा सनातनी । गर्भाधारधराशून्या गर्भाशयनिवासिनी ॥ ६०॥ सुरारिघातिनी कृत्या पूतना च तिलोत्तमा । लज्जा रसवती नन्दा भवानी पापनाशिनी ॥ ६१॥ पट्टाम्बरधरा गीतिः सुगीतिर्ज्ञानगोचरा । सप्तस्वरमयी तन्त्री षड्जमध्यमधैवता ॥ ६२॥ मूर्छना ग्रामसंस्थाना मूर्छा सुस्थानवासिनी । अट्टाट्टहासिनी प्रेता प्रेतासननिवासिनी ॥ ६३॥ गीतनृत्यप्रिया कामा तुष्टिदा पुष्टिदा क्षमा । निष्ठा सत्यप्रिया प्राज्ञा लोलाक्षी च सुरोत्तमा ॥ ६४॥ सविषा ज्वालिनी ज्वाला विश्वमोहार्तिनाशिनी । शतमारी महादेवी वैष्णवी शतपत्रिका ॥ ६५॥ विषारिर्नागदमनी कुरुकुल्ल्याऽमृतोद्भवा । भूतभीतिहरारक्षा भूतावेशविनाशिनी ॥ ६६॥ रक्षोघ्नी राक्षसी रात्रिर्दीर्घनिद्रा निवारिणी । चन्द्रिका चन्द्रकान्तिश्च सूर्यकान्तिर्निशाचरी ॥ ६७॥ डाकिनी शाकिनी शिष्या हाकिनी चक्रवाकिनी । शीता शीतप्रिया स्वङ्गा सकला वनदेवता ॥ ६८॥ गुरुरूपधरा गुर्वी मृत्युर्मारी विशारदा । महामारी विनिद्रा च तन्द्रा मृत्युविनाशिनी ॥ ६९॥ चन्द्रमण्डलसङ्काशा चन्द्रमण्डलवासिनी । अणिमादिगुणोपेता सुस्पृअहा कामरूपिणी ॥ ७०॥ अष्टसिद्धिप्रदा प्रौढा दुष्टदानवघातिनी । अनादिनिधना पुष्टिश्चतुर्बाहुश्चतुर्मुखी ॥ ७१॥ चतुस्समुद्रशयना चतुर्वर्गफलप्रदा । काशपुष्पप्रतीकाशा शरत्कुमुदलोचना ॥ ७२॥ सोमसूर्याग्निनयना ब्रह्मविष्णुशिर्वार्चिता । कल्याणीकमला कन्या शुभा मङ्गलचण्डिका ॥ ७३॥ भूता भव्या भविष्या च शैलजा शैलवासिनी । वाममार्गरता वामा शिववामाङ्गवासिनी ॥ ७४॥ वामाचारप्रिया तुष्टिर्लोंपामुद्रा प्रबोधिनी । भूतात्मा परमात्मा भूतभावविभाविनी ॥ ७५॥ मङ्गला च सुशीला च परमार्थप्रबोधिनी । दक्षिईणा दक्षिणामूर्तिः सुदीक्षा च हरिप्रसूः ॥ ७६॥ योगिनी योगयुक्ता च योगाङ्ग ध्यानशालिनी । योगपट्टधरा मुक्ता मुक्तानां परमा गतिः ॥ ७७॥ नारस्ंइही सुजन्मा च त्रिवर्गफलदायिनी । धर्मदा धनदा चैव कामदा मोक्षदाद्युतिः ॥ ७८॥ साक्षिणी क्षणदा कांक्षा दक्षजा कूटरूपिणी । ऋअतुः कात्यायनी स्वच्छा सुच्छन्दा कविप्रिया ॥ ७९॥ सत्यागमा बहिःस्था च काव्यशक्तिः कवित्वदा । मीनपुत्री सती साध्वी मैनाकभगिनी तडित् ॥ ८०॥ सौदामिनी सुदामा च सुधामा धामशालिनी । सौभाग्यदायिनी द्यौश्च सुभगा द्युतिवर्धिनी ॥ ८१॥ श्रीकृत्तिवसना चैव कङ्काली कलिनाशिनी । रक्तबीजवधोद्युक्ता सुतन्तुर्बीजसन्ततिः ॥ ८२॥ जगज्जीवा जगद्बीजा जगत्रयहितैषिणी । चामीकररुचिश्चन्द्री साक्षाद्या षोडशी कला ॥ ८३॥ यत्तत्पदानुबन्धा च यक्षिणी धनदार्चिता । चित्रिणी चित्रमाया च विचित्रा भुवनेश्वरी ॥ ८४॥ चामुण्डा मुण्डहस्ता च चण्डमुण्डवधोद्यता । अष्टम्येकादशी पूर्णा नवमी च चतुर्दशी ॥ ८५॥ उमा कलशहस्ता च पूर्णकुम्भपयोधरा । अभीरूर्भैरवी भीरू भीमा त्रिपुरभैरवी ॥ ८६॥ महाचण्डी च रौद्री च महाभैरवपूजिता । निर्मुण्डा हस्तिनीचण्डा करालदशनानना ॥ ८७॥ कराला विकराला च घोरा घुर्घुरनादिनी । रक्तदन्तोर्ध्वकेशी च बन्धूककुसुमारुणा ॥ ८८॥ कादम्बिनी विपाशा च काश्मीरी कुङ्कुमप्रिया । क्षान्तिर्बहुसुवर्णा च रतिर्बहुसुवर्णदा ॥ ८९॥ मातङ्गिनी वरारोहा मत्तमातङ्गगामिनी । हंसा हंसगतिर्हंसी हंसोज्वलशिरोरुहा ॥ ९०॥ पूर्णचन्द्रमुखी श्यामा स्मितास्या च सुकुण्डला । महिषी च लेखनी लेखा सुलेखा लेखकप्रिया ॥ ९१॥ शङ्खिनी शङ्खहस्ता च जलस्था जलदेवता । कुरुक्षेत्राऽवनिः काशी मथुरा काञ्च्यवन्तिका ॥ ९२॥ अयोध्या द्वारिका माया तीर्था तीर्थकरप्रिया । त्रिपुष्कराऽप्रमेया च कोशस्था कोशवासिनी ॥ ९३॥ कौशिकी च कुशावर्ता कौशाम्बी कोशवर्धिनी । कोशदा पद्मकोशाक्षी कौसुम्भकुसुमप्रिया ॥ ९४॥ तोतला च तुलाकोटिः कूटस्था कोटराश्रया । स्वयम्भूश्च सुरूपा च स्वरूपा पुण्यवर्धिनी ॥ ९५॥ तेजस्विनी सुभिक्षा च बलदा बलदायिनी । महाकोशी महावार्ता बुद्धिः सदसदात्मिका ॥ ९६॥ महाग्रहहरा सौम्या विशोका शोकनाशिनी । सात्विकी सत्वसंस्था च राजसी च रजोवृता ॥ ९७॥ तामसी च तमोयुक्ता गुणत्रयविभाविनी । अव्यक्ता व्यक्तरूपा च वेदविद्या च शाम्भवी ॥ ९८॥ शङ्करा कल्पिनी कल्पा मनस्सङ्कल्पसन्ततिः । सर्वलोकमयी शक्तिः सर्वश्रवणगोचरा ॥ ९९॥ सर्वज्ञानवती वाञ्छा सर्वतत्त्वावबोधिका । जाग्रतिश्च सुषुप्तिश्च स्वप्नावस्था तुरीयका ॥ १००॥ सत्वरा मन्दरा गतिर्मन्दा मन्दिरा मोददायिनी । मानभूमिः पानपात्रा पानदानकरोद्यता ॥ १०१॥ आधूर्णारूणनेत्रा च किञ्चिदव्यक्तभाषिणी । आशापुरा च दीक्षा च दक्षा दीक्षितपूजिता ॥ १०२॥ नागवल्ली नागकन्या भोगिनी भोगवल्लभा । सर्वशास्त्रमयी विद्या सुस्मृतिर्धर्मवादिनी ॥ १०३॥ श्रुतिस्मृतिधरा ज्येष्ठा श्रेष्ठा पातालवासिनी । मीमांसा तर्कविद्या च सुभक्तिर्भक्तवत्सला ॥ १०४॥ सुनाभिर्यातनाजातिर्गम्भीरा भाववर्जिता । नागपाशधरामूर्तिरगाधा नागकुण्डला ॥ १०५॥ सुचक्रा चक्रमध्यस्था चक्रकोणनिवासिनी । सर्वमन्त्रमयी विद्या सर्वमन्त्राक्षरावलिः ॥ १०६॥ मधुस्त्रवास्त्रवन्ती च भ्रामरी भ्रमरालिका । मातृमण्डलमध्यस्था मातृमण्डलवासिनी ॥ १०७॥ कुमार जननी क्रूरा सुमुखी ज्वरनाशिनी । निधाना पञ्चभूतानां भवसागरतारिणी ॥ १०८॥ अक्रूरा च ग्रहावती विग्रहा ग्रहवर्जिता । रोहिणी भूमिगर्मा च कालभूः कालवर्तिनी ॥ १०९॥ कलङ्करहिता नारी चतुःषष्ठ्यभिधावती । अतीता विद्यमाना च भाविनी प्रीतिमञ्जरी ॥ ११०॥ सर्वसौख्यवतीयुक्तिराहारपरिणामिनी । जीर्णा च जीर्णवस्रा च नूतना नववल्लभा ॥ १११॥ अजरा च रजःप्रीता रतिरागविवर्धिनी । पञ्चवातगतिर्भिन्ना पञ्चश्लेष्माशयाधरा ॥ ११२॥ पञ्चपित्तवतीशक्तिः पञ्चस्थानविभाविनी । उदक्या च वृषस्यन्ती बहिः प्रस्रविणी त्र्यहा ॥ ११३॥ रजःशुक्रधरा शक्तिर्जरायुर्गर्भधारिणी । त्रिकालज्ञा त्रिलिङ्गा च त्रिमूर्तिस्त्रिपुरवासिनी ॥ ११४॥ अरागा शिवतत्त्वा च कामतत्वानुरागिणी । प्राच्यवाची प्रतीची च दिगुदीची च दिग्विदिग्दिशा ॥ ११५॥ अहङ्कृतिरहङ्कारा बाला माया बलिप्रिया । शुक्रश्रवा सामिधेनी सुश्रद्धा श्राद्धदेवता ॥ ११६॥ माता मातामही तृप्तिः पितुमाता पितामही । स्नुषा दौहित्रिणी पुत्री पौत्री नप्त्री शिशुप्रिया ॥ ११७॥ स्तनदा स्तनधारा च विश्वयोनिः स्तनन्धयी । शिशूत्सङ्गधरा दोला लोला क्रीडाभिनन्दिनी ॥ ११८॥ उर्वशी कदली केका विशिखा शिखिवर्तिनी । खट्वाङ्गधारिणी खट्व बाणपुङ्खानुवर्तिनी ॥ ११९॥ लक्ष्यप्राप्तिकरा लक्ष्यालध्या च शुभलक्षणा । वर्तिनी सुपथाचारा परिखा च खनिर्वुतिः ॥ १२०॥ प्राकारवलया वेला मर्यादा च महोदधिः । पोषिणी शोषिणी शक्तिर्दीर्घकेशी सुलोमशा ॥ १२१॥ ललिता मांसला तन्वी वेदवेदाङ्गधारिणी । नरासृक्पानमत्ता च नरमुण्डास्थिभूषणा ॥ १२२॥ अक्षक्रीडारतिः शारि शारिकाशुकभाषिणी । शाम्भरी गारुडीविद्या वारुणी वरुणार्चिता ॥ १२३॥ वाराही तुण्डहस्ता च दंष्ट्रोद्धृतवसुन्धरा । मीनमूर्तिर्धरामूर्तिः वदान्याऽप्रतिमाश्रया ॥ १२४॥ अमूर्ता निधिरूपा च शालिग्रामशिलाशुचिः । स्मृतिसंस्काररूपा च सुसंस्कारा च संस्कृतिः ॥ १२५॥ प्राकृता देशभाषा च गाथा गीतिः प्रहेलिका । इडा च पिङ्गला पिङ्गा सुषुम्ना सूर्यवाहिनी ॥ १२६॥ शशिस्रवा च तालुस्था काकिन्यमृतजीविनी । अणुरूपा बृहद्रूपा लघुरूपा गुरुस्थिता ॥ १२७॥ स्थावरा जङ्गमाचैव कृतकर्मफलप्रदा । विषयाक्रान्तदेहा च निर्विशेषा जितेन्द्रिया ॥ १२८॥ चित्स्वरूपा चिदानन्दा परब्रह्मप्रबोधिनी । निर्विकारा च निर्वैरा विरतिः सत्यवर्द्धिनी ॥ १२९॥ पुरुषाज्ञा चा भिन्ना च क्षान्तिः कैवल्यदायिनी । विविक्तसेविनी प्रज्ञा जनयित्री च बहुश्रुतिः ॥ १३०॥ निरीहा च समस्तैका सर्वलोकैकसेविता । शिवा शिवप्रिया सेव्या सेवाफलविवर्द्धिनी ॥ १३१॥ कलौ कल्किप्रिया काली दुष्टम्लेच्छविनाशिनी । प्रत्यञ्चा च धुनर्यष्टिः खड्गधारा दुरानतिः ॥ १३२॥ अश्वप्लुतिश्च वल्गा च सृणिः स्यन्मृत्युवारिणी । वीरभूर्वीरमाता च वीरसूर्वीरनन्दिनी ॥ १३३॥ जयश्रीर्जयदीक्षा च जयदा जयवर्द्धिनी । सौभाग्यसुभगाकारा सर्वसौभाग्यवर्द्धिनी ॥ १३४॥ क्षेमङ्करी क्षेमरूपा सर्त्कीत्तिः पथिदेवता । सर्वतीर्थमयीमूर्तिः सर्वदेवमयीप्रभा ॥ १३५॥ सर्वसिद्धिप्रदा शक्तिः सर्वमङ्गलमङ्गला । पुण्यं सहस्रनामेदं शिवायाः शिवभाषितम् ॥ १३६॥ यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः । यश्चापिश‍ृणुयान्नित्यं नरो निश्चलमानसः ॥ १३७॥ एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः । सर्वदुःखविनिर्मुक्तो धनधान्यसमन्वितः ॥ १३८॥ तेजस्वी बलवाञ्छूरः शोकरोगविवर्जितः । यशस्वी कीर्तिमान्धन्यः सुभगो लोकपूजितः ॥ १३९॥ रूपवान्गुणसम्पन्नः प्रभावीर्यसमन्वितः । श्रेयांसि लभतेनित्यं निश्चलां च शुभां श्रियम् ॥ १४०॥ सर्वपापविनिर्मुक्तो लोभक्रोध विवर्जितः । नित्यं बन्धुसुतैर् दारैः पुत्रपौत्रैर्महोत्सवैः ॥ १४१॥ नन्दितः सेवितो भृत्यैर्बहुभिः शुद्धमानसैः । विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे । ॥ १४२॥ वैश्यस्तुधनलाभाढ्यः शूद्रश्चसुखमेधते । पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥ १४३॥ इच्छाकामं तु कामार्थी धर्मार्थी धर्ममक्षयम् । कन्यार्थी लभते कन्यां रूपशीलगुणन्विताम् ॥ १४४॥ क्षेत्रं च बहुशस्यं स्याद्गावस्तु बहुदुग्धदाः । नाशुभं नापदस्तस्य न भयं नृपशत्रुभिः ॥ १४५॥ जायते ना शुभाबुद्धिर्लभते कुलधुर्यताम् । न बाधन्ते ग्रहास्तस्य न रक्षांसि न पन्नगाः ॥ १४६॥ न पिशाचो न डाकिन्यो भूतव्यन्तरजृम्भिकाः । बालग्रहाभिभूतानां बालानां शान्तिकारकम् ॥ १४७॥ द्वन्द्वानां प्रीतिभेदे च मैत्रीकरणमुत्तमम् । लोहपाशैर्दृढैर्बद्धो बद्धो वेश्मनि दुर्गमे ॥ १४८॥ तिष्ठन् श‍ृण्वन्पठेन्मर्त्यो मुच्यते नात्र संशयः । न दाराणां न पुत्राणां न बन्धूनां न मित्रजम् ॥ १४९॥ पश्यन्ति नहि ते शोकं हि वियोगं चिरजीविताम् । अन्धस्तु लभते दृष्टिं चक्षुरोगैर्नबाध्यते ॥ १५०॥ बधिरः श्रुतिमाप्नोति मूको वाचं शुभान्नरः । एतद्गर्भा च या नारी स्थिरगर्भा प्रजायते ॥ १५१॥ स्रावणी बद्धगर्भा च सुखमेवप्रसूयते । कुष्ठिनः शीर्णदेहा ये गतकेशनखत्वचः ॥ १५२॥ पठनाच्छ्रवणा द्वापि दिव्यकाया भवन्ति ते । ये पठन्ति शतावर्तं शुचिष्मन्तो जितेन्द्रियाः ॥ १५३॥ अपुत्राः प्राप्नुयुः पुत्रान् श‍ृण्वन्तोऽपि न संशयः । महाव्याधि परिग्रस्तास्तप्ता ये विविधैर्ज्वरैः ॥ १५४॥ भूताभिषङ्ग सङ्घातैश्चार्तुथिक तृतीयकैः । अन्यैश्च दारुणैरोगैः पीड्यमानाश्च मानवाः ॥ १५५॥ गतबाधाः प्रजायन्ते मुक्तास्तेतैर्नसंशयः । श्रुतिग्रन्थधरोबालो दिव्यवादी कवीश्वरः ॥ १५६॥ पठनाच्छ्रवणाद्वापि भवत्येव न संशयः । अष्टम्यां वा चतुर्दश्यां नवम्यां चैकचेतसः ॥ १५७॥ ये पठन्ति सदाभक्त्या न ते वै दुःखभागिनः । नवरात्रं जिताहारो दृढभक्तिर्जिन्तेन्द्रियः ॥ १५८॥ चण्डिकायतने विद्वान्च्छुचिष्मान् मूर्तिसन्निधौ । एकाकी च शतावर्तं पठन्धीरश्च निर्भयः ॥ १५९॥ साक्षाद्भगवती तस्मै प्रयच्छेदीप्सितं फलम् । सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये ॥ १६०॥ पठनात्साधकस्याशु सिद्धिर्भवति वाञ्छिता । दशावर्तं पठेन्नित्यं भूमिशायी नरः शुचिः ॥ १६१॥ स्वप्ने मूर्तिमयीं देवीं वरदां सोऽपि पश्यति । आवर्तन सहस्रैर्ये पठन्ति पुरुषोत्तमाः ॥ १६२॥ ते सिद्धाः सिद्धिदा लोके शापानुग्रहणे क्षमाः । कवित्वं संस्कृतेतेषां शास्राणां व्याकृतौ ततः ॥ १६३॥ शक्तिः प्रोन्मील्यते शास्त्रेष्वनधीतेषु भारती । नखरागशिरोरत्नद्विगुणीकृतरोचिषः ॥ १६४॥ प्रयच्छन्तश्च सर्वस्वं सेवन्ते तान्महीश्वराः । रोचनालिखितं भूर्जें कुङ्कुमेन शुभे दिने ॥ १६५॥ धारयेद्यन्त्रितं देहे पूजयित्वा कुमारिकाम् । विप्राञ्श्च वरनारीश्च धूपैः कुसुमचन्दनैः ॥ १६६॥ क्षीरखण्डाज्य भोज्यैश्च पूजयित्वा सुभूषिताः । विधाय मातृका न्यासं अङ्गन्यास पुरस्सरम् ॥ १६७॥ भूतशुद्धि समोपैतं श‍ृङ्खला न्यासमाचरेत् । यथावदाशासम्बद्धः साधकः प्रीति संयुतः ॥ १६८॥ मूलमन्त्रं जपेद्वीमान् परया संयुतोधिया । प्रणवं पूर्वमुद्धृत्य रमाबीजमनुस्मरन् ॥ १६९॥ माया कामौ समुच्चार्य पुनर्जायां विभावसोः । बध्नन्तिये महारक्षां बालानां च विशेषतः ॥ १७०॥ भवन्ति नृप पूज्यास्ते कीर्तिभाजो यशस्विनः । शत्रुतो न भयंतेषां दुर्जनेभ्यो न राजतः ॥ १७१॥ न च रोगो न वै दुःख न दारिद्र्यं न दुर्गतिः । महार्णवे महानद्यां स्थितेऽपि च नभीः क्वचित् ॥ १७२॥ रणे द्युते विवादे च विजयं प्राप्नुवन्ति ते । नृपाश्च वश्यतां यान्ति नृपमान्याश्च ये नराः ॥ १७३॥ सर्वत्र पूजिता लोके बहुमानपुरस्सराः । रतिरागविवृद्धाश्च विह्वलाः कामपीडिताः ॥ १७४॥ यौवनाक्रान्तदेहा स्ताः श्रयन्ते वामलोचनाः । लिखितं मूर्ध्निकण्ठे वा धारयेद्यो रणे शुचिः ॥ १७५॥ शतधायुध्यमानं तु प्रतियोद्धा न पश्यति । केतौ वा दुन्दुभौ येषां निबद्धं लिखितं रणे ॥ १७६॥ महासैन्ये परित्रस्तान्कान्दिशीकान्हतौजसः । विचेतनान्विमूढांश्च शत्रुकृत्यविवर्जितान् ॥ १७७॥ निर्जित्य शत्रुसङ्घास्ते लभन्ते विजयं ध्रुवम् । नाभिचारो ने शापश्च बाणवीरादिकीलनम् ॥ १७८॥ डाकिनी पूतनाकृत्या महामारी च शाकिनी । भूतप्रेत पिशाचाश्च रक्षांसि व्यन्तरादयः ॥ १७९॥ न विशन्ति गृहे देहे लिखितं यत्रतिष्ठति । न शस्त्रानलतोयौघैर्भयं तस्योपजायते ॥ १८०॥ दुर्वृत्तानां च पापानां बलहानिकरं परम् । मन्दुराकरिशालासु गवां गोष्ठे समाहितः ॥ १८१॥ पठेत्तद्दोषशान्त्यर्थं कूटं कपटनाशिनी । यमदूतान्न पश्यन्ति न ते निरययातनाम् ॥ १८२॥ प्राप्नुवन्त्यक्षयं शान्तं शिवलोकं सनातनम् । सर्वबाधा सुघोराषु सर्वदुःखनिवारणम् ॥ १८३॥ सर्वमङ्गलकं स्वर्ग्यं पठितव्यं समाहितैः । श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ १८४॥ पुण्यं सहस्रनामेदमम्बाया रुद्रभाषितम् । चतुर्वर्गप्रदं सत्यं नन्दिकेन प्रकाशितम् ॥ १८५॥ नातः परतरो मन्त्रो नातः परतरः स्तवः । नातः परतरा विद्या तीर्थं नातः परात्परम् ॥ १८६॥ तेधन्याः कृतपुण्यास्ते त एव भुवि पूजिताः । एकवारं मुदा नित्यं येऽर्चयन्ति महेश्वरीम् ॥ १८७॥ देवतानां देवताया ब्रह्माद्यैर्या च पूजिता । भूयात्सा वरदा लोके साधूनां विश्वमङ्गला ॥ १८८॥ एतामेव पुराराद्यां विद्यां त्रिपुरभैरवीम् । त्रैलोक्यमोहिनीरूपामकार्षीद्भगवान्हरिः ॥ १८९॥ ॥ इति श्रीरुद्रयामलेतन्त्रे नन्दिकेश्वरसंवादे महाप्रभावी भवानीनामसहस्रस्तोत्रं सम्पूर्णम् ॥