अक्षर आकार:

श्रीभवानीस्तवः

Shri Bhavani Stava

श्रीभवानीस्तवः

(पञ्चचामरम्) मदान्ध-दैत्य-मर्दिनीं सुतीक्ष्ण-शस्त्र-धारिणीं नमज्जनानुकम्पिनीं समस्त-दुःख-हारिणीम् । सुभक्त-सौख्य-कारिणीं भवाधिताप-नाशिनीं कृपा-कटाक्ष-वर्षिणीं नमामि तां सुहासिनीम् ॥ १॥ सदाशिव-प्रियां शिवां सदाऽशिवाशुनाशिनीं तपोबलेन तापसाधिराज-चित्त-हारिणीम् । कृतान्त-कान्तकप्रियां सतामनन्तशान्तिदां निरन्तरं हृदन्तरे विचिन्तयामि तामुमाम् ॥ २॥ त्वदीयसेवको भवानि याचनां करोम्यहं मदीय-दुःख-नाशने त्वरस्व देवि सत्वरम् । अनाथतां त्वया विना विनाशयेत् परः कथं नमस्करोमि पार्वति त्वदीयपादपङ्कजम् ॥ ३॥ प्रसीद हे शुभङ्करि प्रसीद हे दयाकरि प्रसीद हे सुरेश्वरि त्रिलोकशङ्करीश्वरि । प्रसीद हे नटेश्वरि प्रसीद हे यशस्करि प्रसीद हे महेश्वरि प्रसीद हे भवेश्वरि ॥ ४॥ सुचन्दनाङ्ग-चर्चिते सुचारु-वस्त्र-मण्डिते सुवर्ण-भूषणाङ्किते सुरत्न-हार-भूषिते । शिवे सुपुष्प-पूजिते सुगन्धि-धूप-नन्दिते । समस्त-देव-वन्दिते नमाम्यहं सुरार्चिते ॥ ५॥ त्वमम्ब शम्भु-कामिनी त्वमम्ब दम्भ-हारिणी सुधाम्बु-कुम्भ-धारिणी दयाम्बुदाम्बु-वर्षिणी । अराति-सिन्धु-शोषिणी समस्तक्लेशनाशिनी । त्वमम्ब शक्तिदायिनी मयि प्रसीद तारिणी ॥ ६॥ उमां हिमालयात्मजां नमामि विश्वमातरं शिवां च शक्तिदेवतां सदैव शत्रुनाशिनीम् । स्वधर्मरक्षणे शिवे प्रयच्छ नो सशक्ततां स्वराष्ट्ररक्षणे भवानि देहि नो समर्थताम् ॥ ७॥ निशुम्भ-शुम्भ-राक्षसास्त्वया हता मदोद्धता असंस्कृता बलोद्धता विनाशमेव यापिताः । त्वया भवानि शङ्करे सहस्रशश्च निर्जिता- स्तवैव सेवया शिवे शिवेन शत्रवो जिताः ॥ ८॥ इमं स्तवं मनोहरं सदैव यः पठेन्नरः प्रतिप्रभातमादरेण भक्तियुक्तचेतसा । शिवा सदा दयामयी भवत्यरातिनाशिनी जयं यशः सुखं तथा तनोति तस्य शङ्करी ॥ ९॥ शक्तिदां भुक्तिदां शर्मदां मुक्तिदां सर्वदामम्बिकां विश्वधात्री भजे । भक्तकामप्रदां विश्वनाथप्रियां सर्वदानन्ददां मङ्गलां प्रार्थये ॥ १०॥ इति श्री आपटीकरविरचितः श्रीभवानीस्तवः सम्पूर्णः ।