अक्षर आकार:

श्रीभवानीचन्द्रशेखरस्तोत्रम्

Shri Bhavanichandrashekharastotram

श्रीभवानीचन्द्रशेखरस्तोत्रम्

(श्रीश‍ृङ्गगिरौ - श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे) वैवाहिकासनासीनौ वैमानिकवरार्चितौ । वैराग्यदायिनौ दत्तां वैशद्यं मम चेतसः ॥ १॥ भक्तेष्टदाननिरतौ भयवारणदीक्षितौ । भवेतां भव्यसन्तत्यै भवानीचन्द्रशेखरौ ॥ २॥ भरताग्रजसंसेव्यौ भवसागरतारकौ । भर्मभूषौ नमस्यामि भवानीचन्द्रशेखरौ ॥ ३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीभवानीचन्द्रशेखरस्तोत्रं सम्पूर्णम् ।