अक्षर आकार:

श्रीभैरव्यष्टोत्तरशतनामस्तोत्रम्

Shri Bhairavi aShTottarashatanAmastotram

श्रीभैरव्यष्टोत्तरशतनामस्तोत्रम्

अथवा श्रीत्रिपुरभैरवी अष्टोत्तरशतनामस्तोत्रम् ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ अथ भैरव्यष्टोत्तरशतनामस्तोत्रप्रारंभः ॥ श्रीदेव्युवाच । कैलासवासिन्भगवन्प्राणेश्वर कृपानिधे । भक्तवत्सल भैरव्या नाम्नामष्टोत्तरं शतम् ॥ १॥ न श्रुतं देवदेवेश वद मां दीनवत्सल । श्रीशिव उवाच । श‍ृणु प्रिये महागोप्यं नाम्नामष्टोत्तरं शतम् ॥ २॥ भैरव्याः शुभदं सेव्यं सर्वसम्पत्प्रदायकम् । यस्यानुष्ठानमात्रेण किं न सिद्ध्यति भूतले ॥ ३॥ ॐ भैरवी भैरवाराध्या भूतिदा भूतभावना । कार्य्या ब्राह्मी कामधेनुः सर्वसम्पत्प्रदायिनी ॥ ४॥ त्रैलोक्यवन्दिता देवी महिषासुरमर्द्दिनी । मोहघ्नी मालतीमाला महापातकनाशिनी ॥ ५॥ क्रोधिनी क्रोधनिलया क्रोधरक्तेक्षणा कुहूः । त्रिपुरा त्रिपुराधारा त्रिनेत्रा भीमभैरवी ॥ ६॥ देवकी देवमाता च देवदुष्टविनाशिनी । दामोदरप्रिया दीर्घा दुर्गा दुर्गतिनाशिनी ॥ ७॥ लम्बोदरी लम्बकर्णा प्रलम्बितपयोधरा । प्रत्यङ्गिरा प्रतिपदा प्रणतक्लेशनाशिनी ॥ ८॥ प्रभावती गुणवती गणमाता गुहेश्वरी । क्षीराब्धितनया क्षेम्या जगत्त्राणविधायिनी ॥ ९॥ महामारी महामोहा महाक्रोधा महानदी । महापातकसंहर्त्री महामोहप्रदायिनी ॥ १०॥ विकराला महाकाला कालरूपा कलावती । कपालखट्वाङ्गधरा खड्गखर्प्परधारिणी ॥ ११॥ कुमारी कुङ्कुमप्रीता कुङ्कुमारुणरञ्जिता । कौमोदकी कुमुदिनी कीर्त्त्या कीर्त्तिप्रदायिनी ॥ १२॥ नवीना नीरदा नित्या नन्दिकेश्वरपालिनी । घर्घरा घर्घरारावा घोरा घोरस्वरूपिणी ॥ १३॥ कलिघ्नी कलिधर्मघ्नी कलिकौतुकनाशिनी । किशोरी केशवप्रीता क्लेशसङ्घनिवारिणी ॥ १४॥ महोत्तमा महामत्ता महाविद्या महीमयी । महायज्ञा महावाणी महामन्दरधारिणी ॥ १५॥ मोक्षदा मोहदा मोहा भुक्तिमुक्तिप्रदायिनी । अट्टाट्टहासनिरता कङ्कणन्नूपुरधारिणी ॥ १६॥ दीर्घदंष्ट्रा दीर्घमुखी दीर्घघोणा च दीर्घिका । दनुजान्तकरी दुष्टा दुःखदारिद्र्यभञ्जिनी ॥ १७॥ दुराचारा च दोषघ्नी दमपत्नी दयापरा । मनोभवा मनुमयी मनुवंशप्रवर्द्धिनी ॥ १८॥ श्यामा श्यामतनुः शोभा सौम्या शम्भुविलासिनी । इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ १९॥ भैरव्या देवदेवेश्यास्तव प्रीत्यै सुरेश्वरि । अप्रकाश्यमिदं गोप्यं पठनीयं प्रयत्नतः ॥ २०॥ देवीं ध्यात्वा सुरां पीत्वा मकारपञ्चकैः प्रिये । पूजयेत्सततं भक्त्या पठेत्स्तोत्रमिदं शुभम् ॥ २१॥ षण्मासाभ्यंतरे सोऽपि गणनाथसमो भवेत् । किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ॥ २२ ॥ सर्वं जानासि सर्वज्ञे पुनर्मां परिपृच्छसि । न देयं परशिष्येभ्यो निन्दकेभ्यो विशेषतः ॥ २३॥ ॥ इति श्रीभैरव्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥