अक्षर आकार:

श्रीभैरवीस्तवराजः

Shri Bhairavi StavarAja

श्रीभैरवीस्तवराजः

॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ अथ भैरवीस्तवराजप्रारम्भः ॥ ब्रह्मादयः स्तुतिशतैरपि सूक्ष्मरूपं जानन्ति नैव जगदादिमनादिमूर्तिम् । तस्माद्वयं कुचनतां नव कुङ्कुमाभां स्थूलां स्तुमः सकलवाङ्मयमातृभूताम् ॥ १॥ सद्यः समुद्यतसहस्रदिवाकराभां विद्याक्षसूत्रवरदाभयाचिह्नहस्ताम् । नेत्रोत्पलैस्त्रिभिरलङ्कृतवक्त्रपद्मां त्वां तारहाररुचिरां त्रिपुरे भजामः ॥ २॥ सिन्दूरपूररुचिरं कुचभारनम्रं जन्मान्तरेषु कृतपुण्यफलैकगम्यम् । अन्योन्यभेदकलहाकुलमानसास्ते जानन्ति किं जडधियस्तवरूपमम्ब ॥ ३॥ स्थूलां वदन्ति मुनयः श्रुतयो गृणन्ति सूक्ष्मां वदन्ति वचसा मधिवासमन्ये । त्वां मूलमाहुरपरे जगतां भवानि मन्यामहे वयमपारकृपाम्बुराशिम् ॥ ४॥ चन्द्रावतंसकलितां शरदिन्दुशुभ्रां पञ्चाशदक्षरमयीं हृदि भावयन्तीम् । त्वां पुस्तकं जपवटीममृताम्बुकुम्भं व्याख्यां च हस्तकमलैर्दधतीं त्रिनेत्राम् ॥ ५॥ शम्भुस्त्वमद्रितनया कलितार्द्धभागो विष्णुस्त्वमम्ब कमलापरिरब्धदेहः । पद्मोद्भवस्त्वमपि वागधिवासभूमे- स्तेषां क्रियाश्च जगति त्रिपुरे त्वमेव ॥ ६॥ आश्रित्य वाग्भवभवांश्चतुरः परादीन् भावान्पदेषु विहितान्समुदीरयन्तीम् । कण्ठादिभिश्व करणैः परदेवतां त्वां संविन्मयीं हृदि कदापि न विस्मरामि ॥ ७॥ आकुञ्च्य वायुमवजित्य च वैरिषट्क- मालोक्य निश्चलधिया निजनासिकाग्रम् । ध्यायन्ति मूर्ध्नि कलितेन्दुकलावसन्तं त्वद्रूपमम्ब कृतिनस्तरुणार्कमित्रम् ॥ ८॥ त्वं प्राप्य मन्मथरिपोर्वपुरर्द्धभागं सृष्टिं करोषि जगतामिति वेदवादः । सत्यं तदद्रितनये जगदेकमात- र्नो चेदशेषजगतः स्थितिरेव न स्यात् ॥ ९॥ पूजां विधाय कुसुमैः सुरपादपानां पीठे तवाम्ब कनकाचलगह्वरेषु । गायन्ति सिद्धवनिताः सह किन्नरीभि- रास्वादितासवरसारुणनेत्रपद्माः ॥ १०॥ विद्युद्विलासवपुषः श्रियमुद्वहन्तीं यान्तीं स्ववासभवनाच्छिवराजधानीम् । सौषुम्नवर्त्मकमलानि विकासयन्तीं देवीं भजे हृदि परामृतसिक्तगात्राम् ॥ ११॥ आनन्दजन्मभवनं भवनं श्रुतीनां चैतन्यमात्रतनुमम्ब तवाश्रयामि । ब्रह्मेशविष्णुभिरुपासितपादपज्ञ्मां सौभाग्यजन्मवसतिं त्रिपुरे यथावत् ॥ १२॥ शब्दार्थभावि भवनं सृजन्तीन्दुरूपा या तद्बिभर्ति पुनरर्कतनुः स्वशक्त्या । ब्रह्मात्मिका हरति तत्सकलं युगान्ते तां शारदा मनसि जातु न विस्मरामि ॥ १३॥ नारायणीति नरकार्णवतारिणीति गौरीति खेदशमनीति सरस्वतीति । ज्ञानप्रदेति नयनत्रयभूषितेति त्वामद्रिराजतनये बहुधा वदन्ति ॥ १४॥ ये स्तुवन्ति जगन्मातः श्लोकैर्द्वादशभिः क्रमात् । त्वामनुप्राप्य वाक्सिद्धिं प्राप्नुयुस्ते नराः श्रियम् ॥ १५॥ ॥ इति श्रीरुद्रयामले भैरवीस्तवराजः सम्पूर्णम् ॥