अक्षर आकार:

श्रीभगवत्यष्टोत्तरशतनामावली

Shri bhagavatyaShTottarashatanAmAvalI

श्रीभगवत्यष्टोत्तरशतनामावली

ॐ अस्यश्री भगवती महामन्त्रस्य दीर्घतमा ऋषिः ककुप् छन्दः भगवती शूलिनी दुर्गा देवता ॥ [ॐ शूलिनि दुर्गे देवतासुरपूजिते नन्दिनि महायोगेश्वरि हुं फट् - शूलिनि वरदे - विन्द्यवासिनि - असुरमर्दिनि - देवासुरसिद्धपूजिते - युद्धप्रिये - ] इति न्यासमाचरेत् ॥ ध्यानम् बिभ्राणा शूलबाणास्यरिसुदरगदाचापपाशान् कराब्जैः मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या । सिम्हस्कन्धाधिरूढा चतुसृभिरसिखेटान्विताभिः परीता कन्याभिः भिन्नदैत्या भवतु भवभयद्वम्सिनी शूलिनी नः ॥ मन्त्रः - ॐ शूलिनि दुर्गे वरदे विन्द्यवासिनि असुरमर्दिनि देवासुरसिद्धपूजिते युद्धप्रिये नन्दिनि रक्ष रक्ष महायोगेश्वरि हुं फट् ॥ अथ भगवती नामावलिः । ॐ भगवत्यै नमः । ॐ गौर्यै नमः । ॐ सुवर्णवर्णायै नमः । ॐ सृष्टिस्थितिसंहारकारिण्यै नमः । ॐ एकस्वरूपिण्यै नमः । ॐ अनेकस्वरूपिण्यै नमः । ॐ महेज्यायै नमः । ॐ शतबाहवे नमः । ॐ महाभुजायै नमः । ॐ भुजङ्गभूषणायै नमः । १० ॐ षट्चक्रवासिन्यै नमः । ॐ षट्चक्रभेदिन्यै नमः । ॐ श्यामायै नमः । ॐ कायस्थायै नमः । ॐ कायवर्जितायै नमः । ॐ सुस्थितायै नमः । ॐ सुमुख्यै नमः । ॐ क्षमायै नमः । ॐ मूलप्रकृत्यै नमः । ॐ ईश्वर्यै नमः । २० ॐ अजायै नमः । ॐ शुभ्रवर्णायै नमः । ॐ पुरुषार्थायै नमः । ॐ सुप्रबोधिन्यै नमः । ॐ रक्तायै नमः । ॐ नीलायै नमः । ॐ श्यामलायै नमः । ॐ कृष्णायै नमः । ॐ पीतायै नमः । ॐ कर्बुरायै नमः । ३० ॐ करुणालयायै नमः । ॐ तृष्णायै नमः । ॐ जरायै नमः । ॐ वृद्धायै नमः । ॐ तरुण्यै नमः । ॐ करुणायै नमः । ॐ लयायै नमः । ॐ कलायै नमः । ॐ काष्ठायै नमः । ॐ मुहूर्तायै नमः । ४० ॐ निमिषायै नमः । ॐ कालरूपिण्यै नमः । ॐ सुवर्णायै नमः । ॐ रसनायै नमः । ॐ चक्षुःस्पर्शवायुरसायै नमः । ॐ गन्धप्रियायै नमः । ॐ सुगन्धायै नमः । ॐ सुस्पर्शायै नमः । ॐ मनोगतायै नमः । ॐ मृगनाभ्यै नमः । ५० ॐ मृगाक्ष्यै नमः । ॐ कर्पूरामोददायिन्यै नमः । ॐ पद्मयोन्यै नमः । ॐ सुकेशायै नमः । ॐ सुलिङ्गायै नमः । ॐ भगरूपिण्यै नमः । ॐ भूषण्यै नमः । ॐ योनिमुद्रायै नमः । ॐ खेचर्यै नमः । ॐ स्वर्गगामिन्यै नमः । ६० ॐ मधुप्रियायै नमः । ॐ माधव्यै नमः । ॐ वल्ल्यै नमः । ॐ मधुमत्तायै नमः । ॐ मदोत्कटायै नमः । ॐ मातङ्ग्यै नमः । ॐ शुकहस्तायै नमः । ॐ धीरायै नमः । ॐ महाश्वेतायै नमः । ॐ वसुप्रियायै नमः । ७० ॐ सुवर्णिन्यै नमः । ॐ पद्महस्तायै नमः । ॐ मुक्तायै नमः । ॐ हारविभूषणायै नमः । ॐ कर्पूरामोदायै नमः । ॐ निःश्वासायै नमः । ॐ पद्मिन्यै नमः । ॐ वल्लभायै नमः । ॐ शक्त्यै नमः । ॐ खड्गिन्यै नमः । ८० ॐ बलहस्तायै नमः । ॐ भुषुण्डिपरिघायुधायै नमः । ॐ चापिन्यै नमः । ॐ चापहस्तायै नमः । ॐ त्रिशूलधारिण्यै नमः । ॐ शूरबाणायै नमः । ॐ शक्तिहस्तायै नमः । ॐ मयूरवाहिन्यै नमः । ॐ वरायुधायै नमः । ॐ धारायै नमः । ९० ॐ धीरायै नमः । ॐ वीरपाण्यै नमः । ॐ वसुधारायै नमः । ॐ जयायै नमः । ॐ शाकनायै नमः । ॐ विजयायै नमः । ॐ शिवायै नमः । ॐ श्रियै नमः । ॐ भगवत्यै नमः । ॐ महालक्ष्म्यै नमः । १०० ॐ सिद्धसेनान्यै नमः । ॐ आर्यायै नमः । ॐ मन्दरवासिन्यै नमः । ॐ कुमार्यै नमः । ॐ काल्यै नमः । ॐ कपाल्यै नमः । ॐ कपिलायै नमः । ॐ कृष्णायै नमः । १०८ ॥ॐ॥