अक्षर आकार:

देवीभगवतीस्तुतिः

devIbhagavatIstutiH

देवीभगवतीस्तुतिः

इलोवाच - दिव्यं च ते भगवति प्रथितं स्वरूपं दृष्टं मया सकललोकहितानुरूपम् । वन्दे त्वदंघ्रिकमलं सुरसङ्घसेव्यं कामप्रदं जननि चापि विमुक्तिदं च ॥ १॥ को वेत्ति तेऽम्ब भुवि मर्त्यतनुर्निकामं मुह्यन्ति यत्र मुनयश्च सुराश्च सर्वे । ऐश्वर्यमेतदखिलं कृपणे दयां च दृष्ट्वैव देवि सकलं किल विस्मयो मे ॥ २॥ शम्भुर्हरिः कमलजो मघवा रविश्च वित्तेशवह्निवरुणाः पवनश्च सोमः । जानन्ति नैव वसवोऽपि हि ते प्रभावं बुध्येत्कथं तव गुणानगुणो मनुष्यः ॥ ३॥ जानाति विष्णुरमितद्युतिरम्ब साक्षा- त्त्वां सात्त्विकीमुदधिजां सकलार्थदां च । को राजसीं हर उमां किल तामसीं त्वां वेदाम्बिके न तु पुनः खलु निर्गुणां त्वाम् ॥ ४॥ क्वाहं सुमन्दमतिरप्रतिमप्रभावः क्वायं तवातिनिपुणो मयि सुप्रसादः । जाने भवानि चरितं करुणासमेतं यत्सेवकांश्च दयसे त्वयि भावयुक्तान् ॥ ५॥ वृत्तस्त्वया हरिरसौ वनजेशयापि नैवाचरत्यपि मुदं मधुसूदनश्च । पादौ तवादिपुरुषः किल पावकेन कृत्वा करोति च करेण शुभौ पवित्रौ ॥ ६॥ वाञ्छत्यहो हरिरशोक इवातिकामं पादाहतिं प्रमुदितः पुरुषः पुराणः । तां त्वं करोषि रुषिता प्रणतं च पादे दृष्ट्वा पतिं सकलदेवनुतं स्मरार्तम् ॥ ७॥ वक्षःस्थले वससि देवि सदैव तस्य पर्यङ्कवत्सुचरिते विपुलेऽतिशान्ते । सौदामिनीव सुघने सुविभूषिते च किं ते न वाहनमसौ जगदीश्वरोऽपि ॥ ८॥ त्वं चेज्जहासि मधुसूदनमम्ब कोपा- न्नैवार्चितोऽपि स भवेत्किल शक्तिहीनः । प्रत्यक्षमेव पुरुषं स्वजनास्त्वजन्ति शान्तं श्रियोज्झितमतीव गुणैर्वियुक्तम् ॥ ९॥ ब्रह्मादयः सुरगणा न तु किं युवत्यो ये त्वत्पदाम्बुजमहर्निशमाश्रयन्ति । मन्ये त्वयैव विहिताः खलु ते पुमांसः किं वर्णयामि तव शक्तिमनन्तवीर्ये ॥ १०॥ त्वं नापुमान्न च पुमानिति मे विकल्पो याकासि देवि सगुणा ननु निर्गुणा वा । तां त्वां नमामि सततं किल भावयुक्तो वाञ्छामि भक्तिमचलां त्वयि मातरं तु ॥ ११॥ सूत उवाच - इति स्तुत्वा महीपालो जगाम शरणं तदा । परितुष्टा ददौ देवी तत्र सायुज्यमात्मनि ॥ १२॥ सुद्युम्नस्तु ततः प्राप पदं परमकं स्थिरम् । तस्या देव्याः प्रसादेन मुनीनामपि दुर्लभम् ॥ १३ ॥ इति श्रीमद्देवीभागवतमहापुराणे प्रथमस्कन्धान्तरगते द्वादशोऽध्याये सुद्युम्न एवं इलाकृतं देवीभगवतीस्तुतिः सम्पूर्णा ।