अक्षर आकार:

भगवतीस्तोत्रम्

bhagavatIstotram

भगवतीस्तोत्रम्

श्रीगणेशाय नमः । नमामि त्वां मातर्द्रविणरहितोऽहं तव सुतो जगद्वन्द्यां स्वर्गे भुवि बलिगृहे चापि विदिताम् । पृथिव्यां कल्याणी मम भयहरा त्वं न च परा यतोऽहं यातस्त्वां भवगतभयात्साम्प्रतमुमे ॥ १॥ प्रसीदेशे नित्यं भगवति भवाम्भोधितरणे शरण्ये नास्त्यन्या विपदघहरा कापि जगति । जडो मूर्खोऽहं ते जननि नहि जाने विलसित\- मतोऽहं संयातस्तव पदपयोजे गिरिसुते ॥ २॥ अहो संसारेऽस्मिन् जननि तव तुल्या नहि परा खलं दुष्टं पुत्रं जगति जननी रक्षति निजम् । परित्यक्त्वेदानीं सकलसुरवृन्दं गिरिसुते नमामि त्वां देवीं भवभयहरां मङ्गलकराम् ॥ ३॥ जगन्मातर्दुर्गे भवभयविभङ्गैकनिपुणे मया संसारेऽस्मिन् तव चरणपूजाऽपि न कृता । न पुष्पाणां हारस्तव शिरसि शुभ्रोऽर्पित इति क्षमस्वागो मातर्मम बहुविधं शैलतनये ॥ ४॥ धनाद्धीनं दीनं परिजनविहीनं बहुशुचं तथा शत्रुग्रस्तं विविधभययुक्तं जडमतिम् । भवत्याः संयातं निकटमयि भूमीधरसुते समाश्वस्तं दृष्ट्या कुरु जगति कीर्त्या च विदितम् ॥ ५॥ त्वमेका संसारे जनिमदघनाशे प्रभुरहो त्वमेवैका मातर्भवभयलयाधाननिपुणा । तवाशा मे शश्वज्जननि निजदुःखैकदलने विहाय त्वां मातः कमिह ननु संयामि शरणम् ॥ ६॥ तथा पूर्वे काले प्रबलतरवीर्यौ दितिसुतौ प्रसिद्धौ सोदर्यौ भुविदिविगतौ भीषणतरौ । निशुम्भः शुम्भश्च प्रविततमहामोहगहनौ विनष्टौ त्वां प्राप्यामरवरनुते शम्भुदयिते ॥ ७॥ सुरास्त्वां संयाता हरिहरनुतां दैत्यदलिताः सुराणां रक्षायै असुरकुलनाशं कृतवती । अहो मूर्तिर्धन्या सकलसुरसंसेव्यचरणा त्वमेवैका मातर्जगति बहुरूपा विजयसे ॥ ८॥ भगवत्या इदं स्तोत्रं योगानन्देन निर्मितम् । यः पठेद्भक्तिभावेन फलमिष्टं लभेत् सः ॥ ९॥ इति योगानन्दविरचितं श्रीभगवतीस्तोत्रं सम्पूर्णम् ॥