अक्षर आकार:

श्रीभद्रकाल्यष्टोत्तरशतनामस्तोत्रम्

Shri Bhadrakali Ashtottara ShatanAma Stotram

श्रीभद्रकाल्यष्टोत्तरशतनामस्तोत्रम्

श्रीनन्दिकेश्वर उवाच - भद्रकाली कामरूपा महाविद्या यशस्विनी । महाश्रया महाभागा दक्षयागविभेदिनी ॥ १॥ रुद्रकोपसमुद्भूता भद्रा मुद्रा शिवङ्करी । चन्द्रिका चन्द्रवदना रोषताम्राक्षशोभिनी ॥ २॥ इन्द्रादिदमनी शान्ता चन्द्रलेखाविभूषिता । भक्तार्तिहारिणी मुक्ता चण्डिकानन्ददायिनी ॥ ३॥ सौदामिनी सुधामूर्तिः दिव्यालङ्कारभूषिता । सुवासिनी सुनासा च त्रिकालज्ञा धुरन्धरा ॥ ४॥ सर्वज्ञा सर्वलोकेशी देवयोनिरयोनिजा । निर्गुणा निरहङ्कारा लोककल्याणकारिणी ॥ ५॥ सर्वलोकप्रिया गौरी सर्वगर्वविमर्दिनी । तेजोवती महामाता कोटिसूर्यसमप्रभा ॥ ६॥ वीरभद्रकृतानन्दभोगिनी वीरसेविता । नारदादिमुनिस्तुत्या नित्या सत्या तपस्विनी ॥ ७॥ ज्ञानरूपा कलातीता भक्ताभीष्टफलप्रदा । कैलासनिलया शुभ्रा क्षमा श्रीः सर्वमङ्गला ॥ ८॥ सिद्धविद्या महाशक्तिः कामिनी पद्मलोचना ॥ देवप्रिया दैत्यहन्त्री दक्षगर्वापहारिणी ॥ ९॥ शिवशासनकर्त्री च शैवानन्दविधायिनी । भवपाशनिहन्त्री च सवनाङ्गसुकारिणी ॥ १०॥ लम्बोदरी महाकाली भीषणास्या सुरेश्वरी । महानिद्रा योगनिद्रा प्रज्ञा वार्ता क्रियावती ॥ ११॥ पुत्रपौत्रप्रदा साध्वी सेनायुद्धसुकाङ्क्षिणी ॥१२॥ (missing line) इच्छा भगवती माया दुर्गा नीला मनोगतिः । खेचरी खड्गिनी चक्रहस्ता शुलविधारिणी ॥ १३॥ सुबाणा शक्तिहस्ता च पादसञ्चारिणी परा । तपःसिद्धिप्रदा देवी वीरभद्रसहायिनी ॥ १४॥ धनधान्यकरी विश्वा मनोमालिन्यहारिणी । सुनक्षत्रोद्भवकरी वंशवृद्धिप्रदायिनी ॥ १५॥ ब्रह्मादिसुरसंसेव्या शाङ्करी प्रियभाषिणी । भूतप्रेतपिशाचादिहारिणी सुमनस्विनी ॥ १६॥ पुण्यक्षेत्रकृतावासा प्रत्यक्षपरमेश्वरी । एवं नाम्नां भद्रकाल्याः शतमष्टोत्तरं विदुः ॥ १७॥ पुण्यं यशो दीर्घमायुः पुत्रपौत्रं धनं बहु । ददाति देवी तस्याशु यः पठेत् स्तोत्रमुत्तमम् ॥ १८॥ भौमवारे भृगौ चैव पौर्णमास्यां विशेषतः । प्रातः स्नात्वा नित्यकर्म विधाय च सुभक्तिमान् ॥ १९॥ वीरभद्रालये भद्रां सम्पूज्य सुरसेविताम् । पठेत् स्तोत्रमिदं दिव्यं नाना भोगप्रदं शुभम् ॥ २०॥ अभीष्टसिद्धिं प्राप्नोति शीघ्रं विद्वान् परन्तप । अथवा स्वगृहे वीरभद्रपत्नीं समर्चयेत् ॥ २१॥ स्तोत्रेणानेन विधिवत् सर्वान् कामानवाप्नुयात् । रोगा नश्यन्ति तस्याशु योगसिद्धिं च विन्दति ॥ २२॥ सनत्कुमारभक्तानामिदं स्तोत्रं प्रबोधय ॥ रहस्यं सारभूतं च सर्वज्ञः सम्भविष्यसि ॥ २३॥ इति श्रीभद्रकाल्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।