अक्षर आकार:

भूस्तुतिः

Bhustutih

भूस्तुतिः

वेदान्तदेशिककृता । सङ्कल्पकल्पलतिकामवधिं क्षमायाः स्वेच्छावराहमहिषीं सुलभानुकम्पाम् । विश्वस्य मातरमकिञ्चनकामधेनुं विश्वम्भरामशरणः शरणं प्रपद्ये ॥ १॥ त्वं व्याहृतिः प्रथमतः प्रणवः प्रियस्ते संवेदयत्यखिलमन्त्रगणस्तमेव । इत्थं प्रतीतविभवामितरेष्विदानीं स्तोतुं यथावदवने क इवार्हति त्वाम् ॥ २॥ नित्यं हिताहितविपर्ययबद्धभावे त्वद्वीक्षणैकविनिवर्त्य बहु व्यपाये । मुग्धाक्षरैरखिलधारिणि मोदमाना मातः स्तनन्धयधियं मयि वर्तयेथाः ॥ ३॥ सङ्कल्पकिङ्करचराचरचक्रवालं सर्वातिशायिनमनन्तशयस्य पुंसः । भूमानमात्मविभवैः पुनरुक्तयन्ती वाचामभूमिरपि भूमिरसि त्वमेका ॥ ४॥ वेधस्तृणावधि विहारपरिच्छदं ते विश्वं चराचरतया व्यतिभिद्यमानम् । अम्ब त्वदाश्रिततया परिपोषयन्ती विश्वम्भरस्य दयिताऽसि तदेकनामा ॥ ५॥ सर्वंसहेत्यवनिरित्यचलेति मातः विश्वम्भरेति विपुलेति वसुन्धरेति । अन्यानि चान्यविमुखान्यभिधानवृत्त्या नामान्यमूनि कथयन्ति तवानुभावम् ॥ ६॥ तापान् क्षिपन् प्रसविता सुमनोगणानां प्रच्छाय शीतलतलः प्रदिशन् फलानि । त्वत्सङ्गमाद्भवति माधवि लब्धपोषः शाखाशतैरधिगतो हरिचन्दनोऽसौ ॥ ७॥ स्मेरेण वर्धितरसस्य मुखेन्दुना ते निस्पन्दतां विजहतो निजया प्रकृत्या । विश्रान्तभूमिरसि तत्त्वतरङ्गपङ्क्तेः वेलेव विष्णुजलधेरपृथग्भवन्ती ॥ ८॥ स्वाभाविके वसुमति श्रुतिभिर्विभाव्ये पत्युर्महिम्नि भवतीं प्रतिपन्नवासाम् । शङ्के विमानवहनप्रतिमासमानाः स्तम्बेरमप्रभृतयोऽपि वहन्ति सत्त्वाः ॥ ९॥ सम्भावयन् मधुरिपुः प्रणयानुरोधात् वक्षःस्थलेन वरुणालयराजकन्याम् । विश्वम्भरे बहुमुखप्रतिपन्नभोगः शेषात्मना तु भवतीं शिरसा दधाति ॥ १०॥ क्रीडावराहदयिते कृतिनः क्षितीन्द्राः सङ्क्रन्दनस्तदितरेऽपि दिशामधीशाः । आमोदयन्ति भुवनान्यलिकाश्रितानां अम्ब त्वदङ्घ्रिरजसां परिणामभेदैः ॥ ११॥ भूतेषु यत्त्वदभिमानविशेषपात्रं पोषं तदेव भजतीति विभावयन्तः । भूतं प्रभूतगुणपञ्चकमाद्यमेव प्रायो निदर्शनतया प्रतिपादयन्ति ॥ १२॥ कान्तस्तवैष करुणाजलधिः प्रजानां आज्ञातिलङ्घनवशादुपजातरोषः । अह्नाय विश्वजननि क्षमया भवत्या सर्वावगाहनसहामुपयात्यवस्थाम् ॥ १३॥ आश्वासनाय जगतां पुरुषे परस्मिन् आपन्नरक्षणदशामभिनेतुकामे । अन्तर्हितेतरगुणादबलास्वभावात् औदन्वते पयसि मज्जनमभ्यनैषीः ॥ १४॥ पूर्वं वराहवपुषा पुरुषोत्तमेन प्रीतेन भोगिसदने समुदीक्षितायाः । पादाहताः प्रलयवारिधयस्तवासन् उद्वाहमङ्गलविधेरुचिता मृदङ्गाः ॥ १५॥ व्योमातिलङ्घिनि विभोः प्रलयाम्बुराशौ वेशन्तलेश इव मातुमशक्यमूर्तेः । सद्यः समुद्रवसने सरसैरकार्षीः आनन्दसागरमपारमपाङ्गपातैः ॥ १६॥ दंष्ट्रा विदारित महासुरशोणिताङ्कैः अङ्गैः प्रियस्तव दधे परिरम्भलीलाम् । सा ते पयोधिजलकेलिसमुत्थितायाः सैरन्ध्रिकेव विदधे नवमङ्गरागम् ॥ १७॥ अन्योन्यसंवलनजृम्भिततूर्यघौषैः संवर्तसिन्धुसलिलैर्विहिताभिषेका । एकातपत्रयसि विश्वमिदं गुणैः स्वैः अध्यास्य भर्तुरधिकोन्नतमंसपीठम् ॥ १८॥ भर्तुस्तमालरुचिरे भुजमध्यभागे पर्यायमौक्तिकवती पृषतैः पयोधेः । तापानुबन्धशमनी जगतां त्रयाणां तारापथे स्फुरसि तारकिता निशेव ॥ १९॥ आसक्तवासवशरासनपल्लवैस्त्वां संवृद्धये शुभतटिद्गुणजालरम्यैः । देवेशदिव्यमहिषीं धृतसिन्धुतोयैः जीमूतरत्नकलशैरभिषिञ्चति द्यौः ॥ २०॥ आविर्मदैरमरदन्तिभिरुह्यमानां रत्नाकरेण रुचिरां रशनागुणेन । मातस्त्रिलोकजननीं वनमालिनीं त्वां मायावराहमहिषीमवयन्ति सन्तः ॥ २१॥ निष्कण्टकप्रशमयोगनिषेवणीयां छायाविशेषपरिभूतसमस्ततापाम् । स्वर्गापवर्गसरणिं भवतीमुशन्ति स्वच्छन्दसूकरवधूमवधूतपङ्काम् ॥ २२॥ गण्डोज्ज्वलां गहनकुन्तलदर्शनीयां शैलस्तनीं तरलनिर्झरलम्बहाराम् । श्यामां स्वतस्त्रियुगसूकरगेहिनि त्वं व्यक्तिं समुद्रवसनामुभयीं बिभर्षि ॥ २३॥ निःसंशयैर्निगमसीमनिविष्णुपत्नि प्रख्यापितं भृगुमुखैर्मुनिभिः प्रतीतैः । पश्यन्त्यनन्यपरधीरससंस्तुतेन सन्तः समाधिनयनेन तवानुभावम् ॥ २४॥ सञ्चोदिता करुणया चतुरः पुमर्थान् व्यातन्वती विविधमन्त्रगणोपगीता । सञ्चिन्त्यसे वसुमति स्थिरभक्तिबन्धैः अन्तर्बहिश्च बहुधा प्रणिधानदक्षैः ॥ २५॥ क्रीडागृहीतकमलादि विशेषचिह्नां विश्राणिताभयवरां वसुधे सभूतिम् । दौर्गत्यदुर्विषविनाशसुधानदीं त्वां सञ्चिन्तयन् हि लभते धनदाधिकारान् ॥ २६॥ उद्वेलकल्मषपरम्परितादमर्षात् उत्तंसितेन हरिमञ्जलिनाऽप्यधृष्यम् । आकस्मिकोऽयमधिगम्ययति प्रजानां अम्ब त्वदीयकरुणा परिणाम एव ॥ २७॥ प्रत्येकमब्दनियुतैरपि दुर्व्यपोहात् प्राप्ते विपाकसमये जनितानुतापात् । नित्यापराधनिवहाच्चकितस्य जन्तोः गन्तुं मुकुन्दचरणौ शरणं क्षमे त्वम् ॥ २८॥ त्राणाभिसन्धि सुभगेऽपि सदा मुकुन्दे संसारतन्त्रवहनेन विलम्बमाने । रक्षाविधौ तनुभृतामनघानुकम्पा मातः स्वयं वितनुषे महतीमपेक्षाम् ॥ २९॥ धर्मद्रुहं सकलदुष्कृतिसार्वभौमं आत्मानभिज्ञमनुतापलवोज्झितं माम् । वैतानसूकरपतेश्चरणारविन्दे सर्वंसहे ननु समर्पयितुं क्षमा त्वम् ॥ ३०॥ तापत्रयीं निरवधिं भवतीदयार्द्राः संसारघर्मजनितां सपदि क्षिपन्तः । मातर्भजन्तु मधुरामृतवर्षमैत्रीं मायावराहदयिते मयि ते कटाक्षाः ॥ ३१॥ पत्युर्दक्षिणपाणिपङ्कजपुटे विन्यस्तपादाम्बुजा वामं पन्नगसार्वभौमसदृशं पर्यङ्कयन्ती भुजम् । पौत्रस्पर्शलसत्कपोलफलका फुल्लारविन्देक्षणा सा मे पुष्यतु मङ्गलान्यनुदिनं सर्वाणि सर्वंसहा ॥ ३२॥ अस्येशाना जगत इति या श्रूयते विष्णुपत्नी तस्याः स्तोत्रं विरचितमिदं वेङ्कटेशेन भक्त्या । श्रद्धाभक्तिप्रचयगुरुणा चेतसा संस्तुवानो यद्यत्कामः सपदि लभते तत्र तत्र प्रतिष्ठाम् ॥ ३३॥ इति वेदान्तदेशिककृता भूस्तुतिः समाप्ता ।