अक्षर आकार:

भारतविजयस्तोत्रम्

Bharatavijayastotram

भारतविजयस्तोत्रम्

मङ्गल्योल्लासलीलः करट-मदनदी-स्नान-पानप्रमत्त- श्चञ्चद्भिश्चञ्चरीकैः कलित-कलकलः स्वस्ति-पुण्याह्वघोषैः । दोर्दण्डैरस्त्र-शस्त्र-प्रहरणपटुभिर्ज्वाल-माला-जटालैः प्रत्यूह-व्यूहहन्ता जनयतु विजयं कुञ्जरग्रामणीर्नः ॥ १॥ दिव्यैस्तेजोभिरिद्धा प्रबल-भुजवनोत्ताल-कीलायुधाढ्या सिंहस्कन्धाधिरूढा विपुलबल-वलद्वाहिनी-व्यूहभीमा । गर्जातर्जाः सृजन्ती महिषमरिचमूं मथ्नती रिष्टिवृष्ट्या तुष्टा स्वेष्टा विशिष्टा घटयतु घटनाश्चण्डिका नः प्रचण्डा ॥ २॥ सङ्कल्पानल्पलीला-क्षण-गण-जनितानन्त-सृष्टिप्रवाहः सर्वज्ञः सर्वशिक्तः श्रुतनुतमहिमा मेदुर-श्रीमनोज्ञः । लोकग्रास-प्रसक्त -प्रलय-घनघटाटोप-घोरान् मयादीन् धुन्वन् ध्वस्तान् धिनोतु ध्वनित-जयरवैधूर्धरो धूर्जटीनः ॥ ३॥ लोकालोकाग्रजाग्रन्मद मुदिर-महाचण्डशौण्डोग्रदण्डः प्रोद्दण्डो दानवेन्द्रो विजितवसुमतीवैभवः स्वर्णशय्यः । यत्तीव्राघातरूक्षा-क्षत-खरनखरैर्दीर्घनिद्रां सहेलं प्राप्तः सोऽव्याजभव्यः कलयतु कुशलं भारतस्याद्यसिंहः ॥ ४॥ सर्वां सृष्टिं समस्ताञ् जनगणनिकरान् व्यश्नुवानं समन्ताद् ध्वान्त व्यात्तास्यघोरं मलिनितजगती-जालमुद्यन् विभिन्दन् । तीव्रै जाग्रत्प्रवेगैर्ज्वलन-कण-गणोद्गगुण-गर्वेरखवै- रुस्रैरश्रान्त-नेमिर्दिशतु विजयिनीं सुश्रियं श्रीरविर्नः ॥ ५॥ श्रीमन् भूताधिनाथ-प्रमथगणपते सर्वशक्ते पुरारे सर्वोत्तुङ्गे हिमाद्रे सुरुचिरशिखरे वैजयन्ती जयन्ती । प्रोच्चैरुड्डीयमाना चिरतरमहिमा भारतीया लसन्तीं प्राग्वद् दोधूयमाना विहरतु गगने विश्वववन्द्याभिनन्द्या ॥ ६॥ वेदाः शास्त्राणि यागाः शुचिरुचिरुचिरा आश्रमा वर्णभागा- स्तीर्थान्यस्वप्नसौधा जनगणवितता संस्कृतिः सभ्यता च । सम्पूर्णो धर्मराशिः प्रशमितविपुलापत्तिराष्ट्रं समग्रं वृद्धिः सिद्धिः समृद्धिः सकलसुरपतेऽक्षुण्णतां नीयतां नः ॥ ७॥ सर्वाधिष्ठानभूमन् भरतभुवनिमां व्योमयानैरसङ्ख्यैः शस्त्रास्त्रैर्नैकभेदैरतुलित-विभवैर्घोर-सामर्थ्य-सार्थैः । दुर्धर्षा दुर्विभेद्या कलित-नव नवोत्साहपर्णाभ्युदीर्णा सङ्ख्यातीताप्रतूर्ण जयतु खलबलं वाहिनी भारतीया ॥ ८॥ देशेऽस्मिन् द्राक् समस्ते विपुल-जयरवो दुन्दुभिर्ध्वानधीरः यूनामुत्साह-सिंह-ध्वनिभिरविरतं श्रूयतां श्रीनिवास । किञ्चार्यावर्त-भूमिर्निज-विजयलसत् प्राज्य-सौराज्यसिम्नां पूर्णाखण्डद्युतीनां प्रगुणितगरिमा स्यात् खनिर्वर्धितानाम् ॥ ९॥ ध्वस्तानः शत्रवः स्युस्त्वरितमिहसुखाः सन्तु गावः समग्राः सर्वे नार्यो नराश्च प्रमथित-विपुलापत्तयः सन्तवदीनाः । भूमिः सस्याभ्युदीर्णा खल-बलजयिनी वाहिनी नोऽस्त्वजय्या भयात् भूयो भवानीप्रभुरयमखिलानुग्रहे रक्षको नः ॥ १०॥ सर्वैर्नव्यैरसङ्ख्यैर्गुणगण-भरितैः सज्जितानो युवानः सोत्साहाः सङ्घबद्धाः प्रबलरिपुचमूनाथलीलावदानाः । सङ्ख्यातीताः पतन्तः करिनिकरदलत् सिंहविक्रान्तवीर्याः श्रीनाथानुग्रहात्ते विजयमलमरं मोदमाना लभन्ताम् ॥ ११॥ इति काशीपीठाधीश्वर-जगद्गुरु-शङ्कराचार्यस्वामि- श्रीमहेश्वरानन्दसरस्वतीविरचितं१ भारतविजयस्तोत्रं समाप्तम् । (१। २०१९ संवदि चीनाक्रमणावसरे वाराणसेय-संस्कृत- विश्वविद्यालयोपकुलपतिश्रीसुरतिनारायणमणित्रिपाठिमहोदयैः प्रार्थनया स्तोत्रमिदं विरचितम् । न्यूनाधिकभावेन तत्राऽन्यत्र च संस्कतसंस्थानेषु प्रार्थनायां सुगृहीतमभवत् ।)