अक्षर आकार:

बन्दीमोचनस्तोत्रम्

Bandimochanastotram

बन्दीमोचनस्तोत्रम्

ॐ अस्य श्रीबन्दीमोचनमन्त्रस्य कण्वऋषिः त्रिष्टुप्-छन्दः, ह्रीं बीजम्, ह्रं कीलकम्, मम बन्दीमोचनार्थं जपे विनियोगः । ॐ ह्रीं ह्रूं बन्दीदेव्यै नमः । इति मन्त्रं अष्टोत्तरशतं जपः । बन्दीं देवीं नमस्कृत्य वरदाभयशोभिताम् । तदग्र्यां शरणं गच्छे शीघ्रं मोक्षं ददातु मे ॥ १॥ बन्दी कमलपत्राक्षी लोहश‍ृङ्खलभञ्जिनी । प्रसादं कुरु मे देवि शीघ्रं मोक्षं ददातु मे ॥ २॥ त्वं बन्दी त्वं महामाया त्वं दुर्गा त्वं सरस्वती । त्वं देवी रजनी चैव शीघ्रं मोक्षं ददातु मे ॥ ३॥ संसारतारिणी बन्दी सर्वकामप्रदायिनी । सर्वलोकेश्वरी देवी शीघ्रं मोक्षं ददातु मे ॥ ४॥ त्वं ह्रीस्त्वमीश्वरी देवी ब्रह्माणी ब्रह्मवादिनी । त्वं वै कल्पक्षयं कर्त्री शीघ्रं मोक्षं ददातु मे ॥ ५॥ देवी धात्री धरित्री च धर्मशास्त्रार्थभाषिणी । दुःश्वाम्बररागिणी देवी शीघ्रं मोक्षं ददातु मे ॥ ६॥ नमोऽस्तु ते महालक्ष्मि रत्नकुण्डलभूषिते । शिवस्यार्धाङ्गिनी चैव शीघ्रं मोक्षं ददातु मे ॥ ७॥ नमस्कृत्य महादुर्गां भयादुत्तारिणीं शिवाम् । महादुःखहरां चैव शीघ्रं मोक्षं ददातु मे ॥ ८॥ इदं स्तोत्रं महापुण्यं यः पठेन्नित्यमेव च । सर्वबन्धविनिर्मुक्तो मोक्षं च लभते क्षणात् ॥ ९॥ इति श्रीरुद्रयामले बन्दीमोचनस्तोत्रं समाप्तं