अक्षर आकार:

श्रीबगलापञ्जरन्यासस्तोत्रम्

shrIbagalApanjaranyAsastotram

श्रीबगलापञ्जरन्यासस्तोत्रम्

अथ पञ्जरन्यासस्तोत्रम् । बगला पूर्वतो रक्षेद् आग्नेय्यां च गदाधरी । पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैरृते ॥ १॥ जिह्वाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम् । वायव्ये च मदोन्मत्ता कौबेर्यां च त्रिशूलिनी ॥ २॥ ब्रह्मास्त्रदेवता पातु ऐशान्यां सततं मम । संरक्षेन् मां तु सततं पाताले स्तव्यमातृका ॥ ३॥ ऊर्ध्वं रक्षेन्महादेवी जिह्वास्तम्भनकारिणी । एवं दशदिशो रक्षेद् बगला सर्वसिद्धिदा ॥ ४॥ एवं न्यासविधिं कृत्वा यत् किञ्चिज्जपमाचरेत् । तस्याः संस्मरणादेव शत्रूणां स्तम्भनं भवेत् ॥ ५॥ ॥ इति श्रीबगलापञ्जरन्यासस्तोत्रं सम्पूर्णम् ॥