अक्षर आकार:

श्रीबगलामुखीस्तवराजः

Shri Bagalamukhi Stavarajah

श्रीबगलामुखीस्तवराजः

वन्दे सकलसन्देहदावपावकमीश्वरम् । करुणावरुणावासं भक्तकल्पतरुं गुरुम् ॥ १॥ उल्लसत्पीतविद्योति विद्योतित तनुत्रयम् । निगमागमसर्वस्वमीडेऽहं तन्महन्महः ॥ २॥ ॐ पूर्वं स्थिरमायां च बगलामुखी सर्वतः । दुष्टानां वाचमुच्चार्य मुखं पदं तथोद्धरेत् ॥ ३॥ स्तम्भयेति ततो जिह्वां कीलयेति समुद्धरेत् । बुद्धिं विनाशयेति पदं स्थिरमायामनुस्मरेत् ॥ ४॥ प्रणवं वह्निजाया चेत्येव पैताम्बरो मनुः । पातु मां सर्वदा सर्वं निग्रहानुग्रहक्षमः ॥ ५॥ कण्ठं नारद ऋषिः पातु पङ्क्तिछन्दोऽवतान्मुखम् । पीताम्बरा देवता तु हृन्मध्यमवतान्मम ॥ ६॥ हली बीजं स्तनयोर्मेऽव्यात् स्वाहा शक्तिश्च दन्तयोः । स कीलकं तथा गुह्ये विनियोगोऽवताद्वपुः ॥ ७॥ षड्-दीर्घभाजा बीजेन व्यासोऽव्यान्मे करादिकम् । द्विपञ्जपञ्च नन्देषु दशभिर्मन्त्रवर्णकैः ॥ ८॥ षडङ्गकल्पना पातु षडङ्गानि ह्यनुक्रमात् । ऐं विद्यातत्त्वं क्लीं मायातत्त्वं सौश्च शिवात्मकम् ॥ ९॥ तत्त्वत्रयं सं बीजं च मूलं हृत्कण्ठं मध्यगः । सुधाब्धौ हेमभूरूढचम्पकोद्यानमध्यतः ॥ १०॥ गारुडोत्पलनिर्व्यूढस्वर्णसिंहासनोपरि । स्वर्णपङ्कजसंविष्टां त्रिनेत्रां शशिशेखराम् ॥ ११॥ पीतालङ्कारवसनां मल्लीचन्दनशोभिताम् । सव्याभां पञ्चशाखायां वज्रजिह्वां च बिभ्रतीम् ॥ १२॥ मुद्गरं नागपाशं च दक्षिणाभ्यां मदालसाम् । भक्तारिविग्रहोद्योगप्रगल्भां बगलामुखीम् ॥ १३॥ ध्यायमानस्य मे पातु शास्त्रवोद्वेषणे भृशम् । भूकलादलदिक्पत्रषट्कोणं त्र्यस्त्रबैन्दुकम् ॥ १४॥ यन्त्रं पैताम्बरं पातु सा मां पायादविग्रहा । आधारशक्तिमारभ्य ज्ञानात्मान्तास्तु शक्तयः ॥ १५॥ पीठाद्याः पान्तु पीठेऽत्रं प्रथमं मां च रक्षतु । शान्तिशङ्खविशेषात्मशक्तिभूतानि पान्तु माम् ॥ १६॥ आवाहनाद्याः पञ्चापि मुद्राश्च सुमनोजलैः । त्रिकोणमध्यमारभ्य पूजिता बगलामुखी ॥ १७॥ क्रोधिनी स्तम्भिनी चापि धारिण्यश्चापि मध्यगाः । ओजः पूषादिपीठानि कोणाग्रेषु स्थितानि वै ॥ १८॥ त्रिकोण बाह्यतः सिद्धनाथाद्या गुरवस्तथा । सिद्धनाथः सिद्धानन्दनाथः सिद्धपरमेष्ठि हि ॥ १९॥ नाथः सिद्धः श्रीकण्ठश्च नाथः सिद्धचतुष्टयम् । पातु मामथ षट्कोणे सुभगा भगरूपिणी ॥ २०॥ भगोदया च भगनिपातिनी भगमालिनी । भगवाहा च मां पातु षट्कोणाग्रेषु च क्रमात् ॥ २१॥ त्वगात्मा शोणितात्मा च मांसात्मा मेदसात्मकः । रूपात्मा परमात्मा च पातु मां स्थिरविग्रहा ॥ २२॥ अष्टपत्रेषु मूलेषु ब्राह्मी माहेश्वरी तथा । कौमारी वैष्णवी वाराहीन्द्राणी च तथा पुनः ॥ २३॥ चामुण्डा च महालक्ष्मीस्तत्र मध्ये पुनर्जया । विजया च जयाम्बा च राजिता जृम्भिणी तथा ॥ २४॥ स्तम्भिनी मोहिनी वश्याऽकर्षिण्यथ तदग्रके । असिताङ्गो रुरुश्चण्डः क्रौधोन्मत्तकपालिनः । भीषणाश्चापि संहार एते रक्षन्तु मां सदा ॥ २५॥ ततः षोडशपत्रेषु मङ्गला स्तम्भिनी तथा । जृम्भिणी मोहिनी वश्या ज्वाला सिंही बलाहका ॥ २६॥ भूधरा कल्मषा धात्री कन्यका कालकर्षिणी । भान्तिका मन्दगमना भोगस्था भावकेति च ॥ २७॥ पातु मामथ भूसद्म दशदिक्षु दिगीश्वराः । इन्द्रोऽनलो यमो रक्षो वरुणो मारुतः शशिः ॥ २८॥ ईशोऽनन्तः स्वयम्भूश्च दशैते पान्तु मे वपुः । वज्रशक्तिर्दण्डखड्गौ पाशाङ्कुशगदाः क्रमात् । शूलं चक्रं सरोजं च तत्तच्छस्त्राणि पान्तु माम् ॥ २९॥ अथ च पूर्वादि चतुर्दिशासु परतः क्रमात् । पातु विघ्नेशबटुकौ योगिनी क्षेत्रपालकः ॥ ३०॥ गुरुत्रयं त्रिरेखासु पातु मे वपुरञ्जसा । पुनः पीताम्बरा पातु उपचारैः प्रपूजिता ॥ ३१॥ साङ्गावरणशक्तिश्च जयश्रीः पातु सर्वदा । वलयं बटुकादिभ्यो रक्षां कुर्वन्तु मे सदा ॥ ३२॥ शक्तयः साधका वीराः पातु मे देवता इमाः । इत्यर्चाक्रमतः प्रोक्तं स्तोत्रं पैताम्बरं परम् ॥ ३३॥ यः पठेत् सकृदप्येतत् सोऽर्चाफलमवाप्नुयात् । सर्वथा कारयेत् क्षिप्रं प्रपद्यन्ते गदातुरान् ॥ ३४॥ राजानो राजपत्न्यश्च पौरजानपदास्तथा । वशगास्तस्य जायन्ते सततं सेवका इव ॥ ३५॥ गुरुकल्पाश्च विबुधा मूकतां यान्ति तेऽग्रतः । स्थिरा भवति तद्गेहे चपलापि हरिप्रिया ॥ ३६॥ पीताम्बराङ्गवसनो यदि लक्षसङ्ख्यं पैताम्बरं मनुममुं प्रजपेन्नरो यः । हेमी सकृन्नियमवान् विधिना हरिद्रा- मालां दधद्भवति तद्वशगा त्रिलोकी ॥ ३७॥ भवानि बगलामुखि त्रिदशकल्पवल्लि प्रभो कृपाजलनिधे तव चरणधूतबाधाखिलः । सुरासुरनरादिकसकलभक्तभाग्यप्रदे त्वदङ्घ्रिसरसीरुहद्वयमहं तु ध्याये सदा ॥ ३८॥ त्वमस्य जगतां जनिस्थितिविनाशबीजं निज प्रकाशबहुलद्युतिर्भवति भक्तहृन्मध्यगा । त्रयीमनु सुपूजिता हरिहरादि वृन्दारकै- रनुक्षणमनुक्षणं मयि शिवे क्षणं वीक्ष्यताम् ॥ ३९॥ शिवे तव तनूमहं हरिहराद्यगम्यां परां निखिलतापप्रत्यूहहृदयाभावयुक्तां स्मरे । विदारय विचूर्णय ग्लपय शोषय स्तम्भय प्रणोदय विरोधय प्रविलय प्रबद्धारिणाम् ॥ ४०॥ पार्वति कृपालसन्मयि कटाक्षपातं मना- गनाकुलतया क्षणं क्षिप विपक्षसंक्षोभिणि । यदीक्षणपथं गतः सकृदपि प्रभुः कश्चन स्फुटं मम वशंवदो भवतु तेन पीताम्बरे ॥ ४१॥ ॐ नमो भगवते महारुद्राय हुं फट् स्वाहा । इति अथर्वणरहस्यान्तर्गतः श्रीबगलामुखीस्तवराजः समाप्तः ।